अध्याय 14: द्विग्रहयोगाध्यायः

बृहज्जातक · Brihat Jataka, chapter 14 (Two planets together)

5 श्लोक

  1. श्लोक 1कुंडली के 6 नियमतिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरंभौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् ।क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधै-र्लब्धस्वं रविजेन धातुकुशलं भाण्डप्रकारेषु वा ॥ १ ॥
  2. श्लोक 2कुंडली के 4 नियमकूटस्त्र्यासवकुम्भपण्यमशिवं मातुः सवक्रः शशीसज्ञः *प्रसृतवाक्यमर्थनिपुणं सौभाग्यकीर्त्यान्वितम् ।विक्रान्तं कुलमुख्यमस्थिरमतिं वित्तेश्वरं साङ्गिरावस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥ २ ॥
  3. श्लोक 3कुंडली के 4 नियममूलादिस्नेहकूटैर्व्यवहरति वणिग्बाहुयोद्धा ससौम्येपुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा ।गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्येदुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥ ३ ॥
  4. श्लोक 4कुंडली के 5 नियमसौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यवि-द्वाग्मी भूगणपः सितेन मृदुना मायापटुर्लङ्घकः ।सद्विद्यो धनदारवान् बहुगुणः शुक्रेण युक्ते गुरौज्ञेयः श्मश्रुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि वा ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 नियमअसितसितसमागमेऽल्पचक्षुर्युवतिसमाश्रयसम्प्रवृद्धवित्तः ।भवति च लिपिपुस्तचित्रवेत्ता कथितफलैः परतो विकल्पनीयाः ॥ ५ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।