अध्याय 15: तृतीयभावफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 15 (Tritiya Bhav Phal)
16 श्लोक
- श्लोक 1कुंडली के 2 नियमसहजे सौम्ययुग्दृष्टे भावाधीशसमन्विते ।सभौमे भ्रातृभावेशे केन्द्रकोणे सुखं भवेत् ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमसभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति ।भ्रातृक्षेत्रगतो वापि भ्रातृसौख्यं विनिर्दिशेत् ॥ 2 ॥
- श्लोक 3पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः ।उत्पाट्य सहजान् सद्यो निहन्तारौ न संशयः ॥ 3 ॥
- श्लोक 4कुंडली के 2 नियमस्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः ।भगिनी स्यात्तथा भ्राता पुंगृहे पुंग्रहो यदि ॥ 4 ॥
- श्लोक 5मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् ।मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ॥ 5 ॥
- श्लोक 6सोदरनाथभौमौ च नाशस्थानगतौ यदि ।पापेक्षितौ पापयुक्तौ भ्रातृनाशकरौ मुने ! ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमकेन्द्रत्रिकोणगे वापि स्वोच्चमित्रस्ववर्गगे ।कारके भावनाथे वा भ्रातृसौख्यं वदेद्बुधः ॥ 7 ॥
- श्लोक 8भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते ।कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ॥ 8 ॥
- श्लोक 9कुंडली के 1 नियमपश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् ।कारके राहु संयुक्ते सहजेशे तु नीचगे ॥ 9 ॥
- श्लोक 10कुंडली के 1 नियमपश्चात् सहोदराभावं पूर्वं तु तत्त्रयं भवेत् ।भ्रातृस्थानाधिपे केन्द्रे कारके तत् त्रिकोणगे ॥ 10 ॥
- श्लोक 11जीवेनसहिते चोच्चे ज्ञेया द्वादश सोदराः ।तत्र ज्येष्ठद्वयं तद्वज्जातकाच्च तृतीयकम् ॥ 11 ॥
- श्लोक 12सप्तमं नवमं चैव द्वादशं च मृतं भवेत् ।शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमव्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा ।भ्रातृभावे स्थिते चन्द्रे सप्तसंख्यास्तु सोदराः ॥ 13 ॥
- श्लोक 14कुंडली के 2 नियमभ्रातृस्थाने शशियुते केवलं पुंग्रहेक्षिते ।सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा ॥ 14 ॥
- श्लोक 15अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः ।अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः ॥ 15 ॥
- श्लोक 16एतेषां विप्र ! योगानां बलाबल विनिर्णयात् ।भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् ॥ 16 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।