अध्याय 6: शुक्रभावफलानि
चमत्कार चिंतामणि · Chamatkar Chintamani (Venus in the houses)
12 श्लोक
- श्लोक 1कुंडली के 1 पठनसमीचीनमंगं समीचीनसंगः समीचीनबह्वंगनाभोगयुक्तः ॥ समीचीनकर्मा समीचीनशर्मा समीचीनशुक्रो यदा लग्नवर्ती ॥१॥
- श्लोक 2कुंडली के 1 पठनमुखं चारुभाषं मनीषापि चार्वी मुखं चारुचारूणि वासांसि तस्य ॥ कुटुम्बस्थितः पूर्वदेवस्यपूज्यः कुटुंबेन किं चारु चार्वंगिकामः ॥२॥
- श्लोक 3कुंडली के 1 पठनरतिः स्त्रीजने तस्य नों बंधुनाशो गुरुर्यस्य दुश्चिक्यगो दानवानाम् ॥ न पूर्णों भवेत्पुत्रसौख्येपि सेनापतिः कातरो दानसंग्रामकाले ॥३॥
- श्लोक 4कुंडली के 1 पठनमहित्वेधिको यस्य तुर्योऽसुरेज्यो जनैः किं जनैश्चापरैरुष्टतुष्टैः ॥ कियत्पोषयेज्जन्मतः संजनन्याअधीनार्पितोपायनैरेव पूर्णः ॥४॥
- श्लोक 5कुंडली के 1 पठनसुपुत्रेपि किं यस्य शुक्रो न पुत्रे प्रयासेनकिं यत्नसंपादितार्थः ॥ व्युदर्कं विना मंत्रमिष्टाश-नाभ्यामधीतेन किं चेत्कवित्वे न शक्तिः ॥५॥
- श्लोक 6कुंडली के 1 पठनसदा दानवेज्ये सुधासिक्तशत्रुर्व्ययः शत्रुगेचोत्तमौ तौ भवेताम् ॥ विपद्येत संपादितं चापिकृत्यं तपेन्मंत्रतः पूज्यसौख्यं न धत्ते ॥६॥
- श्लोक 7कुंडली के 1 पठनकलत्रे कलत्रात्सुखं नो कलत्रात्कलत्रं सुशुक्रे भवेद्रत्नगर्भम् ॥ विलासाधिको गण्यते चप्रवासी प्रयासाल्पकः केन मुह्यंति तस्मात् ॥७॥
- श्लोक 8कुंडली के 1 पठनजनः क्षुद्रवादी चिरं चारु जीवेच्चतुष्पात्सुखंदैत्यपूज्यो ददाति ॥ जनुष्यष्टमे कष्टसाध्योज-यार्थः पुनर्वर्द्धते दीयमानं धनर्णम् ॥८॥
- श्लोक 9कुंडली के 1 पठनभृगौ त्रित्रिकोणे पुरे केन पौराः कुसीदेनये वृद्धिमस्मै ददीरन् ॥ गृहे ज्ञायते तस्यधर्मध्वजादेः सहोत्थादिसौख्यं शरीरे सुखं च ॥९॥
- श्लोक 10कुंडली के 1 पठनभृगुः कर्मगो गोत्रवीर्यं रुणद्धि क्षयार्थं भ्रमःकिन्न आत्मीय एव ॥ तुलामानतो हाटकंविप्रवृत्त्या जनाडंबरैः प्रत्यहं वा विवादात् ॥१०॥
- श्लोक 11कुंडली के 1 पठनभृगुर्लाभगो लाभदो यस्य लग्नात्सुरूपं महीपंच कुर्याच्च सम्यक् ॥ लसत्कीर्तिसत्यानुरागंगुणाढ्यं महाभोगमैश्वर्ययुक्तं सुशीलम् ॥११॥
- श्लोक 12कुंडली के 1 पठनकदाप्येति वित्तं विलीयेत पित्तं सितो द्वादशेकेलिसत्कर्मशर्मा ॥ गुणानां च कीर्तिक्षयं मित्रवैरंजनानां विरोधं सदाऽसौ करोति ॥१२॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।