अथ मेषादिगृहे चन्द्रे ग्रहदृष्टिफलानि

जातकाभरण · Jatakabharanam (Results of aspects on the Moon in the signs from Aries)

72 श्लोक

  1. श्लोक 1कुंडली के 1 पठनउग्रस्वभावोऽपि मृदुर्नतानां धीरो धराधीश्वरगौरवाढ्यः ॥नरो भवेत्सङ्गरभीरुरेव मेषे शशाङ्के नलिनीशदृष्टे ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनविषाग्निवातास्त्रभयं कदाचित्स्यान्मूत्रकृच्छ्रं महदाश्रयश्च ॥दन्ताक्षिपीडानिविडा जडांशौ मेषस्थिते भूमिसुतेन दृष्टे ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनविलसदमलकीर्तिः सर्वविद्याप्रवीणोद्रविणगुणगणाढ्यः संमतः सज्जनानाम् ॥भवति ननु मनुष्यो मेषराशौ शशाङ्केशशधरसुतदृष्टे श्रेष्ठसंपत्प्रतिष्ठः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठननृपप्रधानः पृतनापतिर्वा कुलानुमानाद्बहुसंपदाढ्यः ॥भवेन्नरः कैरविणीवनेशे मेषस्थिते गीष्पतिना प्रदृष्टे ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनयोषाविभूषाधनसूनुसौख्यो भोक्ता सुवक्ता परिमुक्तरोषः ॥स्यात्पूरुषो मेषगतेऽमृतांशौ निरीक्ष्यमाणे भृगुणा गुणज्ञः ॥५ ।
  6. श्लोक 6कुंडली के 1 पठनगदयुतं हतचित्तसमुन्नतिं विगतवित्तमसत्यमसत्सुतम् ॥क्रियगतोऽर्कसुतेन निरीक्षितो हिमकरो हि नरं कुरुते खलम् ॥६॥
  7. श्लोक 7कुंडली के 1 पठनकृषिक्रियायां निरतो विधिज्ञः स्यान्मान्त्रिको वाहनधान्ययुक्तः ॥नरो नितान्तं चतुरः स्वकार्ये दृष्टे दिनेशेन वृषे शशाङ्के ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनकामातुरश्चित्तहरोऽङ्गनानां स्यात्साधुमित्रैः सुतरां पवित्रः ॥प्रसन्नमूर्तिश्च नरो वृषस्थे शीतद्युतौ भूमिसुतेन दृष्टे ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनप्राज्ञं विधिज्ञं कृपया समेतं हर्षान्वितं भूतहिते रतं च ॥गुणाभिरामं मनुजं प्रकुर्याद्वृषे शशाङ्कः शशिजेन दृष्टः ॥९॥
  10. श्लोक 10कुंडली के 1 पठनजायात्मजानन्दयुतं सुकीर्तिं धर्मक्रियायां निरतं च पित्रोः ॥भक्तौ प्रसक्तं मनुजं प्रकुर्याद्वृषस्थितेन्दुर्गुरुणा प्रदृष्टः ॥१०॥
  11. श्लोक 11कुंडली के 1 पठनभूषणाम्बरगृहासनशय्यागन्धमाल्यचतुरङ्घ्रिसुखानि ॥आतनोति सततं मनुजानां चन्द्रमा वृषगतो भृगुदृष्टः ॥ ११ ॥
  12. श्लोक 12कलानिधिः पूर्वदले वृषस्य शनीक्षितश्चेन्निधनं जनन्याः ॥करोति सत्यं मुनिभिर्यदुक्तं तथापरार्धे खलु तातघातम् ॥१२॥
  13. श्लोक 13कुंडली के 1 पठनप्राज्ञं सुशीलं द्रविणेन हीनं क्लेशाभिभूतं सततं करोति ॥नरं च सर्वोत्सवदं प्रसूतौ द्वन्द्वे स्थितो भानुमता च दृष्टः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनउदारदारं चतुरं च शूरं प्राज्ञं च सुज्ञं धनवाहनाद्यैः ॥युक्तं प्रकुर्यान्मिथुनस्थितेन्दुर्निरीक्षितो जन्मनि भूसुतेन ॥१४॥
  15. श्लोक 15कुंडली के 1 पठनधीरं सदाचारमुदारसारं नरं नरेन्द्राप्तधनं करोति ॥निशाधिनाथो मिथुनाधिसंस्थो निशीथिनीनाथसुतेन दृष्टः ॥१५
  16. श्लोक 16कुंडली के 1 पठनविद्याविवेकान्वितमर्थवन्तं ख्यातं विनीतं सुतरां सुपुण्यम् ॥करोति मर्त्यं मिथुनेऽधिसंस्थो निशीथिनीशो गुरुणा प्रदृष्टः ॥१६॥
  17. श्लोक 17कुंडली के 1 पठनवस्त्रप्रसूनान्नवराङ्गनाभ्यः सद्वाहनेभ्यश्च विभूषणेभ्यः ॥करोति सौख्यं हि सुधामयूखो द्वन्द्वे स्थितो जन्मनि शुक्रदृष्टः ॥१७
  18. श्लोक 18कुंडली के 1 पठनधनाङ्गनावाहननन्दनाद्यैर्विश्लेषमायाति विगर्हितत्वम् ॥नरो हि नीहारकरे नृयुग्मे निरीक्षिते भानुसुतेन सूतौ ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 पठननिरर्थकक्लेशकरं विकीर्ण[?]नृपाश्रयं दुर्गकृताधिकारम् ॥कुर्यात्कलावान्परिसूतिकाले कुलीरसंस्थो नलिनीशदृष्टः ॥१९॥
  20. श्लोक 20कुंडली के 1 पठनदक्षं च शूरं जननीविरुद्धं क्षीणांगयष्टिं मनुजं करोति ॥कुलीरसंस्थः परिसूतिकाले दृष्टः कलावान्किल मंगलेन ॥२०॥
  21. श्लोक 21कुंडली के 1 पठनदारार्थपुत्रोन्नतिनीतिसौख्यं सेनापतिं वा सचिवं मनुष्यम् ॥कर्काधिरूढः कुरुते हिमांशुर्हिमांशुपुत्रेण निरीक्ष्यमाणः ॥२१॥
  22. श्लोक 22कुंडली के 1 पठननृपाधिकारं गुणिनं नयज्ञं सुखान्वितं चारुपराक्रमं च ॥करोति जातं यदि चक्रवर्त्ती पीयूषमूर्तिर्गुरुणेक्ष्यमाण ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनसद्रत्नचामीकररत्नभूषावराङ्गनासौख्ययुतं नितान्तम् ॥नरं निजागारगतः करोति सुधाकरः शुक्रनिरीक्ष्यमाणः ॥ २३ ॥
  24. श्लोक 24कुंडली के 1 पठनसत्येन हीनं जननीविरुद्धं सदाटनं पापरतं गतार्थम् ॥करोति जातं निजगेहगामी चेद्यामिनीशो रविजेन दृष्टः ॥२४॥
  25. श्लोक 25कुंडली के 1 पठनगुणयुतं सततं नृपतिप्रियं वरपदं च विलङ्घितसंततिम् ॥हरिगतो वितनोति निशाकरः खरकरप्रविलोकनसंयुतः ॥२५॥
  26. श्लोक 26कुंडली के 1 पठननरपतेः सचिवो धनवाहनात्मजकलत्रसुखो हि भवेन्नरः ॥हरिणलक्ष्मणिकेसरिणिस्थिते क्षितिसुतेन तनुप्रविलोकिते ॥२६॥
  27. श्लोक 27कुंडली के 1 पठनधनाङ्गनावाहननन्दनेभ्यः सुखप्रपूरं हि नरं करोति ॥द्विजाधिराजो मृगराजसंस्थो द्विजाधिराजात्मजसंप्रदृष्टः ॥२७॥
  28. श्लोक 28कुंडली के 1 पठनबहुश्रुतं विस्मृतसाधुवृत्तं कुर्यान्नरं भूमिपतेः प्रधानम् ॥चन्द्रो मृगेन्द्रोपगतोऽमरेन्द्रोपाध्यायदृष्टिः परिसूतिकाले ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनस्त्रीवैभवं वै गुणिनं गुणज्ञं प्राज्ञं विधिज्ञं कुरुते मनुष्यम् ॥पीयूषरश्मिर्जनने यदि स्यात्पञ्चाननस्थो भृगुसूनुदृष्टः ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठनकान्तावियुक्तः कृषिकर्मदक्षो दुर्गाधिकारी हि नरोल्पकार्थः ॥सिंहोपयाते सति शीतभानौ निरीक्षिते सूर्यसुतेन सूतौ ॥३०॥
  31. श्लोक 31कुंडली के 1 पठनभूमीशकोशाधिकृतं सुवृत्तं भार्याविमुक्तं गुरुभक्तियुक्तम् ॥जातं च कन्याश्रितशीतरश्मिस्तनोति जन्तुं खररश्मिदृष्टः ॥३१॥
  32. श्लोक 32कुंडली के 1 पठनहिंसापरं शूरतरं सकोपं नृपाश्रितं लब्धजयं रणादौ ॥कुमारिकासंश्रितशीतभानुर्भूसूनुदृष्टो मनुजं करोति ॥ ३२ ॥
  33. श्लोक 33कुंडली के 1 पठनज्योतिर्विद्याकाव्यसङ्गीतविद्यं प्राढ्यं युद्धे लब्धकीर्तिं विनीतम् ॥कुर्यान्नूनं मानवं मानवन्तं कन्यास्थश्चेदिन्दुजेन प्रदृष्टः ॥३३।
  34. श्लोक 34कुंडली के 1 पठनभूरिबन्धुमवनीपतिप्रियं चारुवृत्तशुभकीर्तिसंयुतम् ॥मानवं हि कुरुतेऽङ्गनाश्रितश्चन्द्रमाः सुरपुरोहितेक्षितः ॥ ३४ ॥
  35. श्लोक 35कुंडली के 1 पठनविलासिनीकेलिविलासचित्तं कान्ताश्रितं भूपतिलब्धवित्तम् ॥कुर्यान्नरं शीतकरः कुमार्यां संस्थः सितेन प्रविलोकितश्च ॥३५॥
  36. श्लोक 36कुंडली के 1 पठननिष्किञ्चनं हीनमतिं नितान्तं स्त्रीसंश्रयादाप्तधनं जनन्या ॥हीनं प्रकुर्यात्खलु कन्यकायां गतो मृगाङ्कोऽर्कसुतेन दृष्टः ॥३६॥
  37. श्लोक 37कुंडली के 1 पठनसदाटनः सौख्यधनैर्विहीनः सदङ्गनासूनुजनैर्विहीनः ॥मित्रैरमित्रैश्च नरोतितप्तस्तुलाधरे शीतकरेऽर्कदृष्टे ॥ ३७ ॥
  38. श्लोक 38कुंडली के 1 पठनबुद्ध्या परार्थाकरणैकचित्तं मायासमेतं विषयाभितप्तम् ॥करोति जातं हि तुलागतेन्दुर्निरीक्ष्यमाणो धरणीसुतेन ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनकलाविधिज्ञं धनधान्ययुक्तं वक्तृत्वविद्याविभवैः समेतम् ॥कुर्यान्नरं शीतकरस्तुलास्थः प्रसूतिकाले शशिजेन दृष्टः ॥३९॥
  40. श्लोक 40कुंडली के 1 पठनविचक्षणो वस्त्रविभूषणेषु क्रयेऽथवा विक्रयताविधाने ॥तुलाधरे शीतकरे नरः स्याद्दृष्टे शुनासीरपुरोहितेन ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनप्राज्ञस्त्वनेकोद्यमसाधितार्थः स्यात्पार्थिवानां कृपयासमेतः ॥हृष्टो नरः पीनकलेवरश्च जुके मृगाङ्के भृगुजेन दृष्टे ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनधनैश्च धान्यैर्वरवाहनैश्च युतो विहीनो विषयोपभोगैः ॥भवेन्नरस्तौलिनि जन्मकाले कलानिधौ भानुतनूजदृष्टे ॥४२॥
  43. श्लोक 43कुंडली के 1 पठनसद्वृत्तहीनं धनिनं जनानामसह्यमत्यन्तकृतप्रयासम् ॥व[?] निवासं मनुजं प्रकुर्यात्ताराधिपः कौर्प्यगतोऽर्कदृष्टः ॥४३॥
  44. श्लोक 44कुंडली के 1 पठनरणाङ्गणावाप्तयशोविशेषो गभीरतागौरवसंयुतश्च ।भूपानुकम्पासमुपात्तवित्तो नरोऽलिनीन्दौ क्षितिजेन दृष्टे ॥४४॥
  45. श्लोक 45कुंडली के 1 पठनवाग्विलासकुशलो रणशीलो गीतनृत्यनिरतश्च नितान्तम् ॥कूटकर्मणि नरो निपुणः स्याद्वृश्चिके शशिनि चन्द्रजदृष्टे ॥४५॥
  46. श्लोक 46कुंडली के 1 पठनलोकानुरूपः सुतरां सुरूपः सत्कर्मकृद्वित्तविभूषणाढ्यः ॥स्यान्मानवो जन्मनि शीतरश्मौ संस्थोलिनीज्येन निरीक्ष्यमाणे ॥४६
  47. श्लोक 47कुंडली के 1 पठनप्रसन्नमूर्तिः समुदारकीर्तिः कूटक्रियाज्ञो धनवाहनाढ्यः ॥कान्ताहतार्थः पुरुषोऽलियाते शीतद्युतौ दैत्यगुरुप्रदृष्टे ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनस्थानभ्रंशं दैन्यनाशाल्पवित्तं नीचापत्यासत्त्वयक्ष्मप्रकोपम् ॥कुर्याच्चन्द्रः सूतिकालेऽलिसंस्थे छायापुत्रप्रेक्षणत्वं प्रयातः ॥४८॥
  49. श्लोक 49कुंडली के 1 पठनप्रौढप्रतापोत्तमकीर्तिसंपत्सद्वाहनान्याहवजं जयं च ॥नृपप्रसादं कुरुते नराणां ताराधिपश्चापगतोऽर्कदृष्टः ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनसेनापतित्वं च महत्प्रतापं पद्मालयालंकरणोपलब्धिम् ॥कुर्यान्नराणां हरिणाङ्क एष शरासनस्थोऽवनिजेन दृष्टः ॥५०॥
  51. श्लोक 51कुंडली के 1 पठनसद्वाग्विलासं बहुभृत्ययुक्तं कुर्यान्नरं ज्योतिषशिल्पविद्यम् ॥तुरंगजङ्घे हि कुरंगजन्मा कुरंगलक्ष्मप्रभवेण दृष्टः । ५१ ।
  52. श्लोक 52कुंडली के 1 पठनमहत्पदस्थो धनवान्सुवृत्तो भवेन्नरश्चारुशरीरयष्टिः ॥धनुर्धरे शीतकरे प्रयाते निरीक्षिते शक्रपुरोहितेन ॥ ५२ ॥
  53. श्लोक 53कुंडली के 1 पठनसंतानार्थात्यन्तसंजातधर्मः शश्वत्सौख्येनान्वितो मानवः स्यात्॥तारास्वामी चापगामी प्रसूतौ दैत्यामात्यप्रेक्षणत्वं प्रयातः ॥५३॥
  54. श्लोक 54कुंडली के 1 पठनसत्त्वोपेतं नित्यशास्त्रानुरक्तं सद्वक्तारं मानवं च प्रचण्डम् ॥कोदंडस्थस्तीक्ष्णरश्म्यात्मजेन दृष्टः सूतौ शीतरश्मिः करोति । ५४ ।
  55. श्लोक 55कुंडली के 1 पठनगतधनो मलिनश्चलनप्रियो हतमतिः खलु दुःखितमानसः ॥हिमकरे मकरे च दिवाकरे क्षितितनौ हि नरः प्रभवेद्यदि ॥ ५५ ॥
  56. श्लोक 56कुंडली के 1 पठनअतिप्रचण्डो धनवाहनाढ्यः प्राज्ञश्च दारात्मजसौख्ययुक्तः ॥स्यान्मानवो वैभवभाङ्नितान्तं मृगे मृगाङ्केऽवनिसूनुदृष्टे ॥५६॥
  57. श्लोक 57कुंडली के 1 पठनबुद्ध्या हीनो निर्धनस्त्यक्तगेहो गेहिन्याद्यैरुज्झितः पूरुषः स्यात् ॥आकौकेरः स्थावरे शीतरश्मौ पीयूषांशोरात्मजेन प्रदृष्टे ॥५७॥
  58. श्लोक 58कुंडली के 1 पठननृपात्मजः सत्ययुतो गुणज्ञः कलत्रपुत्रादियुतो नरः स्यात् ॥मृगानने जन्मनि यामिनीशे वाचामधीशेन निरीक्ष्यमाणे ॥५८॥
  59. श्लोक 59कुंडली के 1 पठनसुनयनो धनवाहनसंयुतः सुतविभूषणवस्त्रसुखो नरः ॥कुमुदिनीदयिते मृगसंस्थिते भृगुसुतेन जनो ननु वीक्षिते ॥५९॥
  60. श्लोक 60कुंडली के 1 पठनमहालसो मन्दधनस्त्वसत्यो मलीमसः स्याद्व्यसनाभिभूतः ॥पीयूषमूर्तिर्यदि नक्रवर्ती त्रिमूर्तिपुत्रेण निरीक्ष्यमाणः ॥६०॥
  61. श्लोक 61कुंडली के 1 पठनकृषीवलः कैतवसंयुतश्च नृपाश्रितो धर्मरतो नरः स्यात् ॥पीयूषमूर्तिर्यदि कुम्भगामी त्वम्भोजिनीस्वामिनिरीक्ष्यमाणः ॥६१॥
  62. श्लोक 62कुंडली के 1 पठनधनभवनजनित्रीतातविश्लेषयुक्तोविषमतमपदार्थोत्पादकोऽनल्पजल्पः ॥भवति मलिनचित्तोत्यन्तधूर्तो हि मर्त्यःशशिनि कलशयाते वीक्षिते भूसुतेन ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनविषयसौख्यरतोशनसंविधौ रुचिरतीव शुचिः प्रियभाषणः ॥युवतिगीतसुनीतकृतादरो घटगतेन्दुरिह ज्ञनिरीक्षितः ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनमहीपुरग्रामसुखादिसौख्यं भोगान्वितं साधुजनप्रवृत्तिम् ॥कुर्यान्नरं श्रेष्ठतरं घटस्थो निशाकरः शक्रगुरुप्रदृष्टः ॥ ६४ ॥
  65. श्लोक 65कुंडली के 1 पठनमित्रात्मजस्त्रीगृहसौख्यहीनो दीनो जनोत्सारितगौरवः स्यात् ॥निशाकरे कुम्भधरे प्रसूतौ संवीक्षिते दानवपूजितेन ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनखरोष्ट्रबालाश्वतरादिलाभकुस्त्रीरतं धर्मविरुद्धवृत्तिम् ॥करोति पुंसां हि घटेऽधितिष्ठन् निशाकरो भास्करसूनुदृष्टः ॥६६॥
  67. श्लोक 67कुंडली के 1 पठनमनोभवोत्कर्षमतीव सौख्यं सेनापतित्वं बहुवित्तवृद्धिम् ॥सत्कार्यसिद्धि कुरुते हिमांशुर्झषे दिनेशेन निरीक्ष्यमाणः ॥ ६७ ॥
  68. श्लोक 68कुंडली के 1 पठनपराभिभूतं कुटिलाधिसख्यं सौख्योज्झितं पापरतं नितान्तम् ॥करोति जातं हि निधिः कलानां मीनस्थितो भूमिसुतेन दृष्टः ॥६८
  69. श्लोक 69कुंडली के 1 पठनवाराङ्गनासूनुसुखानि नूनं मानं धनं भूमिपतेः प्रसादम् ॥कुर्यान्नराणां हरिणाङ्क एष वैसारिणस्थो ज्ञनिरीक्ष्यमाणः ॥ ६९ ॥
  70. श्लोक 70कुंडली के 1 पठनउदारदेहं सुकुमारदेहं सद्गेहिनीसूनुधनादिसौख्यम् ॥नृपं विदध्यात्पृथुरोमगामी तमीपतिर्वाक्पतिवीक्षितश्चेत ॥ ७० ॥
  71. श्लोक 71कुंडली के 1 पठनसद्गीतवाद्यादिरतं सुवृत्तं विलासिनीकेलिविलासशीलम् ॥करोति मर्त्यं तिमियुग्मसंस्थः शीतद्युतिजन्मनि शुक्रदृष्टः ॥७१॥
  72. श्लोक 72कुंडली के 1 पठनकामातुरं दारसुतैर्विहीनं नीचाङ्गनासख्यमविक्रमं च ॥नीहाररश्मिः शफरं प्रपन्नो नरं विदध्याद्रविसूनुदृष्टः ॥ ७२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।