mars भावफलम्

जातकाभरण · Jatakabharanam (Mars in the twelve houses)

12 श्लोक

  1. श्लोक 1कुंडली के 1 पठनअतिमतिभ्रमता च कलेवरं क्षतयुतं बहुसाहसमुग्रताम् ॥तनुभृतां कुरुते तनुसंस्थितो वनिसुतो गमनागमनानिच ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनअधनतां कुजनाश्रयतां तथा विमतितां कृपयातिविहीनताम् ॥तनुभृतां विदधाति विरोधितां धननिकेतनगोवनिनन्दनः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनभूपप्रसादोत्तमसौख्यमुच्चैरुदारता चारुपराक्रमश्च ॥धनानि च भ्रातृसुखोज्झितत्वं भवेन्नराणां सहजे महीजे ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनदुःखं सुहृद्वाहनतः प्रवासो कलेवरे रुग्बलताऽबलत्वम् ॥प्रसूतिकाले किल मङ्गलाख्ये रसातलस्थे फलमुक्तमार्यैः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनकफानिलाद्याकुलता कलत्रान्मित्राच्च पुत्रादपि सौख्यहानिः ॥मतिर्विलोला विपुलात्मजेस्मिन्प्रसूतिकाले तनयालयस्थे ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनप्राबल्यं स्याज्जाठराग्नेर्विशेषाद्रोषावेशः शत्रुवर्गोपशान्तिः ॥सद्भिः सङ्गोऽनङ्गवृद्धिर्नराणां गोत्रापुत्रे शत्रुसंस्थे प्रसूतौ ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठननानानर्थैर्व्यर्थचिन्तोपसर्गैर्वैरिव्रातैर्मानवं हीनदेहम् ॥दारागारात्यन्तदुःखप्रतप्तं दारागारेऽङ्गारकोऽयं करोति ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनवैकल्यं स्यान्नेत्रयोर्दुर्भगत्वं रक्तात्पीडा नीचकर्मप्रवृत्तिः ॥बुद्धेरान्ध्यं सज्जनानां च निन्दा रन्ध्रस्थाने मेदिनीनंदनेस्मिन् ॥
  9. श्लोक 9कुंडली के 1 पठनहिंसाविधाने मनसः प्रवृत्तिं भूमीपतेर्गौरवतोग्रलब्धिम् ॥क्षीणं च पुण्यं द्रविणं नराणां पुण्यस्थितः क्षोणिसुतः करोति ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनविश्वंभरापतिसमत्वमतीव तोषं सत्साहसं परजनोपकृतौ प्रयत्नम् ॥चञ्चद्विभूषणमणीन्विविधागमांश्च मेषूरणे धरणिजः कुरुते नराणाम् ॥
  11. श्लोक 11कुंडली के 1 पठनताम्रप्रवालविलसत्कलधौतरक्तवस्त्रागमं सुललितानि च वाहनानि ॥भूपप्रसादसुकुतूहलमङ्गलानि दद्यादवाप्तिभवने हि सदावनेयः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनस्वमित्रैर्वैरं नयनातिबाधां क्रोधाभिभूतं विमलत्वमङ्गे ॥धनव्ययं बन्धनमल्पतेजो व्यये धराजो विदधाति नूनम् ॥ १२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।