sun भावफलम्

जातकाभरण · Jatakabharanam (Sun in the twelve houses)

12 श्लोक

  1. श्लोक 1कुंडली के 4 पठनलग्नेऽर्केल्पकचः क्रियालसतनुः क्रोधी प्रचण्डोन्नतोकामी लोचनरुक् सुकर्कशतनुः शूरो क्षमा निर्घृणः ।फुल्लाक्षः शशिभे क्रिये स्थितिहरः सिंहे निशान्धः पुमान् ॥दारिद्र्योपहतो विनष्टतनयः संस्थस्तुलासंज्ञके ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनधनसुतोत्तमवाहनवर्जितो हतमतिः सुजनोज्झितसौहृदः ॥परगृहोपगतो हि नरो भवेद्दिनमणेर्द्रविणे यदि संस्थितिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनप्रियंवदः स्याद्धनवाहनाढ्यः सुकर्णचित्तोनुचरान्वितश्च ॥मितानुजः स्यान्मनुजो बलीयान्दिनाधिराजे सहजेधिसंस्थे ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनसौख्येन यानेन धनेन हीनं तातस्य वित्तोपहतिप्रवृत्तम् ॥चलन्निवासं कुरुते पुमांसं पातालशाली नलिनीविलासी ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनस्वल्पापत्यं शैलदुर्गेशभक्तं सौख्यायुक्तं सत्क्रियार्थैर्विमुक्तम् ॥भ्रान्तस्वान्तं मानवं हि प्रकुर्यात्सूनुस्थाने भानुमान्वर्तमानः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनशश्वत्सौख्येनान्वितः शत्रुहन्ता सत्वोपेतश्चारुयानो महौजाः ॥पृथ्वीभर्ता स्यादमर्त्यो हि मर्त्यः शत्रुक्षेत्रे मित्रसंस्थो यदि स्यात् ।
  7. श्लोक 7कुंडली के 1 पठनश्रिया विमुक्तो हतकायकान्तिर्भयामयाभ्यां सहितः कुशीलः ॥नृपप्रकोपार्तिकृशो मनुष्यः सीमन्तिनीसद्मनि पद्मिनीशे ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठननेत्राल्पत्वं शत्रुवर्गाऽभिवृद्धिर्बुद्धिभ्रंशः पूरुषस्यातिरोषः ॥अर्थाल्पत्वं कार्श्यमङ्गे विशेषादायुःस्थाने पद्मिनीप्राणनाथे ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनधर्मकर्मनिरतश्च सन्मतिः पुत्रमित्रजसुखान्वितः सदा ।मातृवर्गविषमो भवेन्नरस्त्रित्रिकोणभवने दिवामणौ । ९ ॥
  10. श्लोक 10कुंडली के 1 पठनसद्बुद्धिवाहनधनागमनानि नूनं भूपप्रसादसुतसौख्यसमन्वितानि ।साधूपकारकरणं मणिभूषणानि मेषूरणे दिनपतिः कुरुते नराणाम् ॥
  11. श्लोक 11कुंडली के 1 पठनगीतप्रीतिं चारुकर्मप्रवृत्तिं चञ्चत्कीर्तिं वित्तपूर्तिं नितान्तम् ॥भूपात्प्राप्तिं नित्यमेव प्रकुर्यात्प्राप्तिस्थाने भानुमान्मानवानाम् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनतेजोविहीने नयने भवेतां तातेन साकं गतचित्तवृत्तिः ॥विरुद्धबुद्धिर्व्ययभावयाते कान्ते नलिन्याः फलमुक्तमार्यैः ॥ १२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।