तनुभावः
जातकाभरण · Jatakabharanam (The 1st house (body): the chart, planets' forms and marks, combinations)
30 श्लोक · 6 श्लोक (अभी जाँच बाकी) यहाँ नहीं दिखाए
- श्लोक 1इदंलग्नतः सकाशात्कालपुरुषाकारचक्रं द्रष्टव्यम् ॥भिन्नं द्वादशधाविधाय विलसच्चक्रं च तत्र न्यसेत् ॥लग्नाद्द्वादशराशयोऽतिविशदावामांगमार्गक्रमात ॥अङ्क्यास्तत्रनभश्चराः स्फुटतराः राशौ च यत्र स्थिता ॥स्तेभ्यः साधुफलं त्वसाधुसुधिया वाच्यं हि होरागमात ॥ १ ॥
- श्लोक 2रूपं तथा वर्णविनिर्णयश्च चिह्नानि जातिर्वयसः प्रमाणम् ॥सुखानि दुःखान्यपि साहसं च लग्ने विलोक्यं खलुसर्वमेतत ॥ २ ॥
- श्लोक 3कुंडली के 1 पठनविलोकिते सर्वखगैर्विलग्ने लीलाविलासैः सहितो बलीयान् ॥कुले नृपालो विपुलायुरेव भयेन मुक्तोऽरिकुलस्य हन्ता ॥ ३ ॥
- श्लोक 4कुंडली के 2 पठनसौम्यास्त्रयो लग्नगतायदि स्युः कुर्वन्ति जातं नृपतिं विनीतम् ॥पापा स्त्रयोदुःखदरिद्रशोकैर्युतं नितान्तं बहु भक्षकं च ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनलग्नाद्द्यूनषडष्टकेपि च शुभा पापैर्नयुक्तेक्षिता ।मन्त्री दण्डपतिः क्षितेर धिपतिः स्त्रीणां बहूनां पतिः ॥दीर्घायुर्गदवर्जितो गतभयः सौन्दर्यसख्यान्वितः ।सच्छीलो यवनेश्वरैर्निगदितो मर्त्यः प्रसन्न सदा ॥ ५ ॥
- श्लोक 6अथार्कादिग्रहाणां हि गुणवर्णविनिर्णयः ॥आकारोपि शरीरस्य प्रोच्यते मुनिसंमतः ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनशूरो गंभीरश्चतुरः सुरूपः श्यामारुणश्चाल्पककुन्तलश्च ॥सुवृत्तगात्रो मधुपिङ्गनेत्रो मित्रोहि पित्तास्थ्यधिकोन तुंगः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनसद्वाग्विलासोऽमलधीः सुकायो रक्ताधिकः कुञ्चितकृष्णकेशः ॥कफाऽनिलात्माम्बुजपत्रनेत्रो नक्षत्रनाथः सुभगोऽतिगौरः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनमज्जासारोरक्तगौरोत्युदारो हिंस्रः शूरः पैत्तिकस्तामसश्च ॥चण्डः पिंगाक्षोयुवा खर्वगर्वः खर्वश्चोर्वीसूनुरग्निप्रभः स्यात् ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनश्यामः शिरालश्च कलाविधिज्ञः कुतूहली कोमलवाक् त्रिदोषी ॥रजोऽधिको मध्यमरूपधृक् स्यादाताम्रनेत्रो द्विजराज पुत्रः ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनह्रस्वाकारश्चारुचामीकराभः सम्यक्सारः सुस्वरोदारबुद्धिः ॥दक्षः पिङ्गाक्षः कफी चातिमांसः प्राज्ञैःसुज्ञैः कीर्तितो जीवसंज्ञः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनसजलजलदनीलः श्लेष्मलश्चानिलात्मा ।कुवलयदलनेत्रो वक्रनीलालकश्च ॥सुसरलभुजशाली राजसश्चातिकामी ।मदयुतगजगामी भार्गवः शुक्रसारः ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनश्यामलोतिमलिनश्च शिरालः सालसश्च जटिलः कृशदीर्घः ॥स्थूलदन्तनखपिंगलनेत्रो युक्शनिश्च खलतानिलकोपैः ॥ १३ ॥
- श्लोक 14लग्नस्य नन्दांशपतेर्हिमूर्त्या मूर्तिः समानाबलशालिनो वा ॥स्यादिन्दुनन्दांशपतेस्तुवर्णः परं विचार्याः कुलजातिदेशाः ॥ १४ ॥
- श्लोक 15सत्त्वं भवेयुः शशिसूर्यजीवास्तमो यमारौ चरजोज्ञशुक्रौ ॥त्रिंशल्लवे यस्य गतो दिनेशो वाच्यो गुणस्तस्य खगस्य नूनम् १५
- श्लोक 16शिरोक्षिणी कर्णनसाकपोलौ हनुर्मुखं च प्रथमेद्रिकाणे ॥कण्ठांसदोर्दण्डककुक्षिवक्षः क्रोडं च नाभिस्त्रिलवेद्वितीये ॥ १६ ॥
- श्लोक 17वस्तिस्ततोलिंगगुदे तथाण्डावूरू च जानू चरणौ तृतीये ॥क्रमेण लग्नात्परपूर्वषट्के वामं तथा दक्षिणमङ्गमत्र ॥ १७ ॥
- श्लोक 18मत्स्यं तिलं लक्ष्मबलानुसारं कुर्वन्ति सौम्या व्रणमत्र पापाः ।स्वांशस्वभागास्थिरगाश्च लक्ष्मयुक्तेक्षिताः सौम्यनभश्चरेन्द्रैः ॥ १८ ॥
- श्लोक 19रवेर्व्रणः काष्ठचतुष्पदोत्थः शृंगयाम्बुचारिप्रभवः शशाङ्कात् ॥कुजाद्विषाग्न्यस्त्रकृतश्च चान्द्रे भौमःशनेश्चापि मरुद्दृषद्भ्याम् १९
- श्लोक 20कुंडली के 1 पठनकुर्याद्व्रणं क्रूरखगो रिपुस्थो युक्तः शुभैर्लक्ष्म तिलं च दृष्टः ॥ग्रहत्रयं यत्र बुधान्वितं स्यात्तत्रव्रणोङ्गे खलु राशि तुल्यः ॥ २० ॥
- श्लोक 21कुंडली के 1 पठनमेषे शशांकः कलशे शनिश्चेद्भानुर्धनुस्थश्च भृगुर्मृगस्थः ॥तातस्य वित्तं न कदापि भुङ्क्ते स्वबाहुवीर्येण नरो वरेण्यः ॥ २१ ॥
- श्लोक 22कुंडली के 1 पठनचतुर्षु केन्द्रेषु भवन्ति पापा वित्तस्थिताश्चापि च पापखेटाः ॥नरोदरिद्रोतितरां निरुक्तो भयंकरश्चात्मकुलोद्भवानाम् ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठनसुतस्थितो वा यदि मूर्तिवर्ती बृहस्पती राज्यगतः शशाङ्कः ॥नरस्तपस्वी विजितेन्द्रियश्च स्याद्राजसो बुद्धिविराजमानः ॥ २३ ॥
- श्लोक 24कुंडली के 1 पठनकन्यायां च तुलाधरे सुरगुरुर्मेषे बृषे वा भृगुःसौम्यो वृश्चिकराशिगः शुभखगैर्दृष्टः कुलश्रेष्ठताम्नूनं याति नरो विचारचतुरोप्यौदार्यजातादरोनित्यानन्दभरो गुणैर्वरतरो निष्ठापरो वित्तवान् ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनषष्ठे ससौरौ भवतो बुधारौ नरो भवेच्चौर्यपरो नितान्तम् ।स्वकर्मसामर्थ्यविधेर्विशेषात् पराङ्घ्रिपाणीन्कुगुणी छिनत्ति ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनप्रसूतिकाले किल यस्य जन्तोः कर्केर्कजश्चेन्मकरे महीजः ॥चौर्यप्रसंगोद्भवचण्डदण्डाच्छाखादिखण्डानि भवन्ति नूनम् ॥ २६ ॥
- श्लोक 27कुंडली के 1 पठनकुम्भे च मीने मिथुनाभिधाने शरासने स्युर्यदि पापखेटाः ॥कुचेष्टितः स्यात्पुरुषो नितान्तं वज्रेण नूनं निधनं हि तस्य ॥ २७ ॥
- श्लोक 28कुंडली के 1 पठनयस्य प्रसूतौ खलु नैधनस्थः सौम्यग्रहः सौम्यनिरीक्षितश्च ॥तीर्थान्यनेकानि भवन्ति तस्य नरस्य सम्यग् मतिसंयुतस्य ॥ २८ ॥
- श्लोक 29कुंडली के 1 पठनबुधत्रिभागेन युते विलग्ने केन्द्रस्थचन्द्रेण निरीक्षितश्च ॥शिष्टान्वये यद्यपि जातजन्मा स्यान्नीचकर्मा मनुजः प्रकामम् ।
- श्लोक 36एते हि योगाः कथिता मुनीन्द्रैः सान्द्रं बलं यस्य नभश्चरस्य ॥कल्प्यं फलं तस्य च पाककाले सुनिर्मला यस्य मतिस्तु तेन ॥ ३६
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।