पंचमसुतभावविचारः

जातकाभरण · Jatakabharanam (The 5th house (children, intellect))

19 श्लोक

  1. श्लोक 1बुद्धिप्रबन्धात्मजमन्त्रविद्या विनेयगर्भस्थितिनीतिसंस्थम् ॥सुताभिधाने भवने नराणां होरागमज्ञैः परिचिन्तनीयम् ॥ १ ॥
  2. श्लोक 2कुंडली के 2 पठनलग्ने द्वितीये यदि वा तृतीये विलग्ननाथे प्रथमःसुतः स्यात् ॥तुर्यस्थितेऽस्मिंश्च सुतो द्वितीयः पुत्रीसुतो वेति पुरः प्रकल्प्यम् ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनसुताभिधानं भवनं शुभानां योगेन दृष्ट्या सहितं विलोक्य ॥सन्तानयोगं प्रवदेन्मनीषी विपर्ययत्वे हि विपर्ययः स्यात् ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनसन्तानभावो निजनाथदृष्टः संतानलब्धिं शुभदृष्टयुक्तः ॥करोति पुंसामशुभैः प्रदृष्टः स्वस्वाम्यदृष्टो विपरीतमेव ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 पठनलग्ने वित्ते तृतीये वा लग्नेशोऽपत्यमग्रिमम् ॥तुर्ये जन्म द्वितीयस्य पुरः पुत्र्यादिजन्म च ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनद्विदेहसंस्थाभृगुभौमचन्द्राः सन्तानमादौ जनयन्ति नूनम् ॥एते पुनर्धान्विगता न कुर्युःपश्चात्तथादौ गदितं महद्भिः ॥ ६ ॥
  7. श्लोक 7सन्तानभावे गगनेचराणां यावन्मितानामिह दृष्टिरस्ति ॥स्यात्सन्ततिस्तत्प्रमितानृसंज्ञैर्नराश्च कन्याः प्रमदाभिधानैः ॥ ७ ॥
  8. श्लोक 8सन्तानभावाङ्कसमानसंख्या स्यात्संततिर्वेति वदन्ति केचित् ॥नीचोच्चमित्रादिगृहस्थितानां दृष्ट्या शुभं वा शुभमर्भकाणाम् ॥ ८ ॥
  9. श्लोक 9नवांशतुल्याप्रभवात्रसंख्या दृष्ट्या शुभानां द्विगुणावगम्या ॥क्लिष्टा च पापग्रहदृष्टियोगा मिश्रा च मिश्रग्रहदृष्टितोत्र ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनसुताभिधाने भवने यदि स्यात्खलस्य राशिः खलखेटयुक्तः ॥सौम्यग्रहालोकनवर्जितश्च सन्तानहीनो मनुजस्तदानीम् ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनकविः कलत्रे दशमे मृगाङ्कः पातालयाताश्च खला भवन्ति ॥प्रसूतिकाले यदि मानवं ते सन्तानहीनं जनयन्ति नूनम् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनसुते सितांशे च सितेन दृष्टे बहून्यपत्यानि विधोरपीदम् ॥दासीभवान्यात्मजभावनाथे यावन्मितेंशे शिशुसंमितिःस्यात् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनशुक्रेन्दुवर्गेण युते सुताख्ये युक्तेक्षिते वा भृगुचन्द्रमोभ्याम् ॥भवन्ति कन्याः समराशिवर्गे पुत्राश्च तस्मिन्विषमाभिधाने ॥ १३ ॥
  14. श्लोक 14कुंडली के 2 पठनमन्दस्य राशिः सुतभावसंस्थो मन्देन युक्तः शशिनेक्षितश्च ॥दत्तात्मजाप्तिः शशिवद्बुधेऽपि क्रीतः सुतस्तस्य नरस्यवाच्यः ॥ १४
  15. श्लोक 15कुंडली के 1 पठनसंतानाधिपतेः पञ्चषष्ठरिष्फस्थिते खले ॥पुत्राभावो भवेत्तस्य यदि जातो न जीवति ॥ १५ ।
  16. श्लोक 16मन्दस्य वर्गे सुतभावसंस्थे निशाकरस्थेपि च वीक्षितेस्मिन् ॥दिवाकरेणोशनसा नरस्य पुनर्भवासंभवसूनुलब्धिः ॥ १६ ॥
  17. श्लोक 17शनेर्गणः सद्मनि पुत्रभावे बुधेक्षिते नो रविभूमिजाभ्याम् ॥पुत्रो भवेत्क्षेत्रभवोथ बौधे गणेपि गेहे रविजेन दृष्टे ॥ १७ ॥
  18. श्लोक 18नवांशकाः पञ्चमभावसंस्था यावन्मितैः पापखगैः प्रदृष्टाः ॥नश्यन्ति गर्भाः खलु तत्प्रमाणाश्चेद्वीक्षितं नो शुभखेचराणाम् ॥ १८
  19. श्लोक 19भूनन्दनो नन्दनभावयातो जातं च जातं तनयं निहन्ति ॥दृष्टे यदा चित्रशिखण्डिजेन भृगोः सुतेन प्रथमोपपन्नम् ॥ १९ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।