जायाभावविचारः

जातकाभरण · Jatakabharanam (The 7th house (wife, marriage))

14 श्लोक

  1. श्लोक 1रणाङ्गणं चाऽपि वणिक्क्रियाश्च जायाविचारागमनप्रमाणम् ॥शास्त्रप्रवीणैर्हि विचारणीयं कलत्रभावे किल सर्वमेतत ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनमूर्तौ कलत्रस्य नवांशको वा द्विषट्कभावस्त्रिलवः शुभानाम् ॥अनेन योगेन हि मानवानां स्यादङ्गनानामचिरादवाप्तिः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनसौम्यैर्युतं सौम्यमसौम्यदृष्टं जायागेहं देहिनामङ्गनाप्तिम् ।कुर्यान्नूनं वैपरीत्यादभावो मिश्रत्वेन प्राप्तिकाले प्रलापः ॥
  4. श्लोक 4कुंडली के 1 पठनलग्नाद्व्यये वा रिपुमन्दिरे वा दिवाकरेन्दू भवतस्तदानीम् ॥स्यान्मानवस्यात्मजएकएव भार्यापि चैकेति वदन्ति सन्तः ॥ ४ ॥
  5. श्लोक 5गण्डान्तकालेपि कलत्रभावे भृगोः सुते लग्नगतेर्कजाते ॥वन्ध्यापतिः स्यान्मनुजस्तदानीं शुभेक्षितं नो भवनं खलेन ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनव्ययालये वा मदनालये वा खलेषु बुद्ध्यालयगे हिमांशौ ॥कलत्रहीनो मनुजस्तनूजैर्विवर्जितः स्यादिति वेदितव्यम् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनप्रसूतिकाले च कलत्रभावे यमस्य भूमीतनयस्य वर्गे ॥ताभ्यां प्रदृष्टे व्यभिचारिणी स्याद्भर्ताऽपि तस्या व्यभिचारकर्त्ता ।
  8. श्लोक 8कुंडली के 2 पठनशुक्रेन्दुपुत्रौ च कलत्रसंस्थौ कलत्रहीनं कुरुतो नरं तौ ॥शुभेक्षितौ तौ वयसो विरामे कामं च रामां लभते मनुष्यः ॥ ८ ॥
  9. श्लोक 9शुक्रेन्दुजीवशशिजैः सकलैस्त्रिभिश्च द्वाभ्यां कलत्रभवने च तथैककेनएषां गृहे विषमभेदविलोकिते वा सन्ति त्रयो भवनवर्गखगस्य भावाः
  10. श्लोक 10कलत्रभावे च नवांशतुल्या नरस्य नार्यो ग्रहवीक्षणाद्वा ॥एकैकभौमार्कनवांशके च जामित्र भावस्थबुधार्कयोर्वा ॥ १० ॥
  11. श्लोक 11शुक्रस्य वर्गेण युते कलत्रे बह्वङ्गनाप्तिर्भृगुवीक्षणेन ॥शुक्रेक्षिते सौम्यगणेङ्गनानां बाहुल्यमेवाशुभवीक्षणान्न ॥ १० ॥
  12. श्लोक 12महीसुते सप्तमभावयाते कान्तावियुक्तः पुरुषस्तदा स्यात् ॥मन्देन दृष्टे म्रियतेऽपि लब्धा शुभग्रहालोकनवर्जितेऽस्मिन् ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनपत्नीस्थाने यदा राहुः पापयुग्मेन वीक्षितः ॥पत्नीयोगस्तदा न स्याद्भूतापि म्रियतेऽचिरात् ॥ १३ ॥
  14. श्लोक 14षष्ठे च भवने भौमः सप्तमे राहुसंभवः ॥अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥ १४ ।

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।