गोचरफलम्

जातकाभरण · Jatakabharanam (Transits)

23 श्लोक

  1. श्लोक 1नृजन्मराशेः खचरप्रचारैर्यद्गोचरे सांहितिकैः प्रणीतम् ॥स्थूलं फलं तत्किल संप्रवच्मि बालावबोधप्रदमभ्रगानाम् ॥ १ ॥
  2. श्लोक 2कुंडली के 12 पठनगतिर्भयं श्रीर्व्यसनं च दैन्यं शत्रुक्षयोयानमतीव पीडा ॥कान्तिक्षयोऽभीष्टवरिष्ठसिद्धिर्लाभोव्ययोर्कस्य फलं क्रमेण ॥ २ ॥
  3. श्लोक 3कुंडली के 12 पठनसदन्नमर्थक्षयमर्थलाभं कुक्षिव्यथां कार्यविघातलाभम् ॥वित्तं रुजं राजभयं सुखं च लाभं च शोकं कुरुते मृगाङ्कः ॥ ३ ॥
  4. श्लोक 4कुंडली के 3 पठनपुत्रधर्मधनस्थस्य चन्द्रस्योक्तमसत्फलम् ॥कलाक्षये परिज्ञेयं कलावृद्धौ तु साधु तत् ॥ ४ ॥
  5. श्लोक 5कुंडली के 12 पठनभीतिं क्षतिं वित्तमरिप्रवृद्धिमर्थप्रणाशं धनकार्यनाशम् ॥शस्त्रोपघातं च रुजं च शोकं लाभं व्ययं भूतनयस्तनोति ॥ ५ ॥
  6. श्लोक 6कुंडली के 11 पठनबन्धुं धनं वैरिभयं धनाप्तिं पीडां स्थितिं पीडनमर्थलाभम् ॥खेदं सुखं लाभमथार्थनाशं क्रमात्फलं यच्छति सोमसूनुः ॥ ६ ॥
  7. श्लोक 7कुंडली के 12 पठनभीतिं वित्तं पीडनं वैरिवृद्धिं सौख्यं शोकं राजमानं च रोगम् ॥सौख्यं दैन्यं मानवित्तं च पीडां दत्ते जीवो जन्मराशेः सकाशात् ।
  8. श्लोक 8कुंडली के 12 पठनरिपुक्षयं वित्तमतीव सौख्यं वित्तं सुतप्रीतिमरातिवृद्धिम् ॥शोकं धनाप्तिं वरवस्त्रलाभं पीडां स्वमर्थं च ददाति शुक्रः ॥ ८ ॥
  9. श्लोक 9कुंडली के 12 पठनभ्रंशं क्लेशं शं च शत्रुप्रवृद्धिं पुत्रात्सौख्यं सौख्यवृद्धिं च दोषम् ।पीडां सौख्यं निर्धनत्वं धनाप्तिं नानानर्थं भानुसूनुस्तनोति ॥
  10. श्लोक 10कुंडली के 24 पठनहानिं नैःस्व्यं स्वं च वैरं च शोकं वित्तं वादं पीडनं चापि पापम् ।वैरं सौख्यं द्रव्यहानिं प्रकुर्याद्राहुः पुंसां गोचरे केतुरेवम् ॥ १० ॥
  11. श्लोक 11राशौ राशौ गोचरे खेचराणामुक्तं पूर्वैर्यत्फलं जन्मराशेः ॥तन्मर्त्यानामेकभोत्पत्तिकानां भिन्नंभिन्नं दृश्यतेवश्यमेव ॥ ११ ॥
  12. श्लोक 12यस्मिन्राशौ शीतरश्मिः प्रसूतौ संस्थः प्रोक्तो जन्मराशिः सएव ॥एवं लग्नेनान्विताः सप्त खेटास्ते किं न स्युःप्राणिनां जन्मभानि ॥ १२ ॥
  13. श्लोक 13पुंसामतोऽष्टौ किल राशयः स्युः शुभाशुभान्यत्र फलानि तेभ्यः ॥ततश्च रेखामिलनान्तरालात् स्पष्टं फलं चाष्टकवर्गयुक्तम् ॥ १३ ॥
  14. श्लोक 14स्यान्मन्दात्कुजतोरविर्मृतितपोलाभार्थकेन्द्रस्थितःशुक्रादस्तारिपुव्ययेषु च गुरोर्धर्मारिपुत्राप्तिषु ॥चन्द्रात्प्राप्तिरिपुत्रिखेषु शशिजात्पञ्च त्रिनन्दव्ययारिप्राप्त्यग्रगतस्तनोस्त्रिषु सुखोपान्त्यारिरिःफे शुभः ॥ १४ ॥
  15. श्लोक 15भौमाद्ग्लौर्नवधीधनोपचयगः षट्त्र्याप्तिधीस्थोर्कजाल्लग्नाच्चोप चयोरवेरुपचयाष्टास्तेषु शस्तो बुधात् ॥धीरन्ध्रेषु चतुष्टये त्रिषु गुरोः केन्द्राष्टलाभव्ययेस्यादेकोपचयास्तगस्त्रिखभवास्ताम्बुत्रिकोणे भृगोः ॥ १५ ॥
  16. श्लोक 16स्वाद्भौमोष्टचतुष्टयायधनगोजीवात्षडायान्त्यखेचन्द्रादायरिपुत्रिगोभृगुसुतादष्टान्त्यलाभारिगः ॥ज्ञात्पञ्चायरिपुत्रिगोर्कतनयात्केन्द्राष्टधर्मान्त्यगःसूर्याच्चोपचयात्मजेषु तनुतस्त्र्यायारिखाद्ये शुभः ॥ १६ ॥
  17. श्लोक 17शुक्रादासुतधर्मलाभमृतिगः सौम्यः कुजार्क्योस्तपःकेन्द्रायाष्टधनेस्वतोप्युपचयान्त्यैकत्रिकोणे शुभः ॥कोणान्त्यारिभवे रवेरिपुभवाष्टान्त्ये गुरोरिन्दुतःखायाष्टारिसुखार्थगः सुखभवाष्टैकोम्बुषट्सूदयात् ॥ १७ ॥
  18. श्लोक 18स्वात्खायाष्टत्रिकेन्द्रस्वनवदशभवारातिधीस्थश्च शुक्रा-ल्लग्नात्केन्द्रायधीषट्स्वनवसु च कुजात् स्वाष्टकेन्द्राय ईज्यः ॥इन्दोर्द्यूनार्थकोणाप्तिषु सहजनवाष्टाय केन्द्राष्टगोर्कोज्ज्ञा-त्कोणे द्व्यायखाद्याम्बुधिरिपुषु शनेस्त्र्यन्त्यधीषट्सु शस्तः ॥ १८ ॥
  19. श्लोक 19खास्तान्त्याहितवर्जितेषुतनुतः शुक्रोविनास्तारिखंचन्द्रात्स्वान्मदनव्ययारिरहितेष्वर्काद्व्ययाष्टाप्तिषु ॥मन्दाद्द्व्येकरिपुव्ययास्तरहितेष्वीज्यान्नवायाष्टधीखेज्ञात्कोणभवत्रिषट्सु भवधीत्र्यन्त्यारिधर्मे कुजात् ॥ १९ ॥
  20. श्लोक 20स्वान्मन्दस्त्रिषडायधीषु रवितोऽष्टायाद्द्विकेन्द्रे शुभोभौमात्खायषडन्त्यधीत्रिषु तनोः खायाम्बुषट्त्र्येकगः ॥ज्ञादायारिनवान्त्यखाष्टसु भृगोरन्त्यायषट्संस्थितश्चन्द्रादायरिपुत्रिगः सुरगुरोरन्त्यायधीशत्रुगः ॥ २० ॥
  21. श्लोक 21स्थानानि यानि प्रतिपादितानि शुभानि चान्यान्यशुभानि नूनम् ॥तयोर्वियोगादधिकं फलं यत्स्वराशितो यच्छति तद्ग्रहेन्द्रः ॥ २१ ॥
  22. श्लोक 22भुजंगवेदानवसागराश्च नवाग्नयः सागरसायकाश्च ॥रसेषवोयुग्मशरानवत्रितुल्याः क्रमेणाष्टकवर्गलेखाः ॥ २२ ॥
  23. श्लोक 23विलग्ननाथाश्रितराशितोऽत्र भवंति रेखाः खलु यत्र यत्र ॥विलग्नतस्तत्र च तत्र राशौ संस्थापनीयाः सुधिया क्रमेण ॥ २३ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।