लग्न फलम्

जातकाभरण · Jatakabharanam (Results of the rising sign (Lagna), and when panchanga results ripen)

16 श्लोक

  1. श्लोक 1कुंडली के 1 पठनचण्डाभिमानी गुणवान्सकोपः सुहृद्विरोधी च सखा परेषाम् ।पराक्रमप्राप्तयशो विशेषो मेषोदये यः पुरुषोऽतिरोषः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनगुणाग्रणी स्याद्द्रविणेन पूर्णो भक्तो गुरूणां हि रणप्रियश्च ॥धीरश्च शूरः प्रियवाक् प्रशान्तः स्यात्पुरुषो यस्य वृषे विलग्ने ॥२॥
  3. श्लोक 3कुंडली के 1 पठनभोगी वदान्यो बहुपुत्रमित्रः सुगूढमन्त्रः सधनः सुशीलः ॥तस्य स्थितिः स्यान्नृपसन्निधाने लग्ने भवेन्ना मिथुनाभिधाने ॥३॥
  4. श्लोक 4कुंडली के 1 पठनमिष्टान्नभुक् साधुरतो विनीतो विलोमबुद्धिर्जलकेलिशीलः ॥प्रकृष्टसारोऽतितरामुदारो लग्ने कुलीरे हि नरो भवेत्सः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 पठनकृशोदरश्चारुपराक्रमश्च भोगी भवेदल्पसुतोल्पभक्षः ॥संजातबुद्धिर्मनुजोऽभिमाने पञ्चानने संजनने विलग्ने ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनकामक्रीडासद्गुणज्ञानसत्त्वकौशल्याद्यैः संयुतः सुप्रसन्नः ॥लग्नं कन्या यस्य जन्यां सधन्यां कन्यां क्षीराब्धेरवाप्नोति नित्यम् ॥६
  7. श्लोक 7कुंडली के 1 पठनगुणाधिकत्वं द्रविणोपलब्धिर्वाणिज्यकर्मण्यति नैपुणत्वम् ॥पद्मालयातन्निलये न लोला लग्नं तुला चेत्स कुलावतंसः ॥७॥
  8. श्लोक 8कुंडली के 1 पठनशूरो नरोऽत्यन्तविचारसारो नवद्यविद्याधिकतासमेतः ॥प्रसूतिकाले किल लग्नशाली भवेदलिस्तस्य कलिः सदैव ॥८॥
  9. श्लोक 9कुंडली के 1 पठनप्राज्ञश्च राज्ञः परिसेवनज्ञः सत्यप्रतिज्ञः सुतरां मनोज्ञः ॥सुज्ञः कलाज्ञश्च धनुर्विधिज्ञश्चेन्नुर्धनुर्यस्य जनुस्तनुः स्यात् ॥९॥
  10. श्लोक 10कुंडली के 1 पठनकठिनमूर्तिरतीवशठः पुमान् निजमनोगतवद्बहुसंततिः ॥सुचतुरोपि च लुब्धतरो वरो यदि नरो मकरोदयसंभवः ॥१०॥
  11. श्लोक 11कुंडली के 1 पठनलोलस्वान्तोऽत्यन्तसंजातकामश्चञ्चद्देहः स्नेहकृन्मित्रवर्गे ॥सस्यारम्भः संभवैर्युक्सदम्भश्चेत्स्यात्कुम्भे संभवो यस्य लग्ने ॥
  12. श्लोक 12कुंडली के 1 पठनदक्षोल्पभक्षोल्पमनोभवश्च सद्रत्नहेमा चपलोतिधूर्तः ॥स्यान्नाचनाना रचना विधाने मीनाऽभिधाने जनने विलग्ने ॥
  13. श्लोक 13कुंडली के 1 पठनभवेदलं लग्नबलं यथोक्तं विलग्नकाले प्रवले प्रसूतौ ॥तस्मिन्बलोनेयदिवाविलग्ने युक्ते क्षिते क्रूरखगैस्तथाल्पम् ॥१३॥
  14. श्लोक 14कुंडली के 1 पठननन्वेवमुदाहृतानां संवत्सरादिफलानां समयनियमाभावात् ॥निराधारकत्वेन फलादेशः कथं सम्यग्घटतीति व्यर्थमेवकिमर्थमुक्तमिति चेन्न समयनियमोऽप्यस्ति तथाहि। उक्तानिसंवत्सरपूर्वकाणां फलानि तत्प्राप्तिरिति प्रकल्प्या ॥सांवत्सरं सावनवर्षपस्य पाकेयनर्तुप्रभवं खरांशो ॥१४॥
  15. श्लोक 15कुंडली के 1 पठनमासोद्भवं मासपतेस्तथेन्दोर्गणोडुपक्षप्रभवं च यत्स्यात् ॥तिथिप्रभूतं करणोद्भवं च चन्द्रान्तरेऽर्कस्य दशाविभागे ॥१५॥
  16. श्लोक 16कुंडली के 1 पठनवारोद्भवं वारविभोर्विचिन्त्यं योगोत्थमिन्द्वर्कबलान्वितस्य ॥लग्नोद्भवं लग्नपतेर्दशायां दृग्भावयुग्राशिजमेवमूह्यम् ॥१६॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।