अथ पंचमहापुरुषलक्षणानि निरूप्यंते
जातकाभरण · Jatakabharanam (The five Mahapurusha yogas)
19 श्लोक
- श्लोक 1कुंडली के 1 पठनये महापुरुषसंज्ञका नृपाः पञ्च पूर्वमुनिभिः प्रकीर्तिताः ॥वच्मि तान्सुसरलान्महोक्तिभीराजयोगविधिदर्शनेच्छया ॥ १ ॥
- श्लोक 2कुंडली के 5 पठनस्वगेहतुङ्गाश्रयकेन्द्रसंस्थैरुच्चोपगैर्वावनिसूनुमुख्यैः ॥क्रमेण योगा रुचकाख्यभद्रहंसाख्यमालव्यशशाभिधानाः ॥
- श्लोक 3कुंडली के 1 पठनदीर्घायुः स्वच्छकान्तिर्बहुरुधिरबलः साहसावाप्तसिद्धि-श्चारुभ्रूर्नीलकेशः समकरचरणोमन्त्रविच्चारुकीर्तिः ॥रक्तश्यामोतिशूरोरिपुबलमथनः कम्बुकण्ठो महौजाःक्रूरो भक्तोऽमराणां द्विजगुरुविनतः क्षामजानूरुजङ्घः ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनखट्वागपाशवृषकार्मुकचक्रवीणावज्राङ्कहस्तचरणःसरलांगुलःस्यात्मन्त्राभिचारकुशलस्तुलयेत्सहस्रमध्यं च तस्य गदितं मुखदैर्घ्यतुल्यम् ॥ ४ ॥
- श्लोक 5कुंडली के 1 पठनसह्यस्य बिन्ध्यस्य तथोज्जयिन्याः प्रभुः शरत्सप्ततिजीवितोसौ ॥शस्त्राग्निचिह्नोरुचकाभिधाने देवालये तन्निधनं प्रयाति ॥ ५ ॥
- श्लोक 6कुंडली के 1 पठनशार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलोलम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः ॥कामीकोमलसूक्ष्मरोमनिचयैः संरुद्धगण्डस्थलःप्राज्ञः पङ्कजगर्भपाणिचरणः सत्वाधिको योगवित् ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनशङ्खासिकुञ्जरगदाकुसुमेषुकेतु-चक्राब्जलाङ्गलविचिह्नितपाणिपादः ॥यात्रागजेन्द्रमदवारिकृतार्द्रभूमिःसत्कुङ्कुमप्रतिमगन्धतनुः सुघोषः ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनसद्रूपगोतिमतिमान्खलु शास्त्रवेत्तामानोपभोगसहितोऽतिनिगूढगुह्यः ॥सत्कुक्षिधर्मनिरतः सुललाटपट्टो-धीरोभवेदसितकुञ्चितकेशपाशः ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनस्वतन्त्रः सर्वकार्येषु स्वजनं प्रति न क्षमी ॥भुज्यते विभवस्तस्य नित्यमर्थिजनैः परैः ॥ ९ ॥
- श्लोक 10कुंडली के 1 पठनभालं तुलायां तु भवेत्सुरत्नैः श्रीकान्यकुब्जाधिपतिर्भवेत्सः ॥भद्रोद्भवः पुत्रकलत्रसौख्यो जीवेन्नृपालः शरदामशीतिम् ॥ १० ॥
- श्लोक 11कुंडली के 1 पठनरक्तास्योन्नतनासिकः सुचरणो हंसो प्रसन्नेन्द्रियोगौरः पीनकपोलरक्तकरजो हंसस्वनः श्लेष्मलः ॥शंखाब्जाङ्कुशमत्स्यदामयुगलैःखट्वाङ्गमालाघटै-श्चञ्चत्पादकरस्थलो- मधुनिभे नेत्रे सुवृत्तं शिरः ॥ ११ ॥
- श्लोक 12कुंडली के 1 पठनजलाशयप्रीतिरतीव कामी न याति तृप्तिं वनितासु नूनम् ।उच्चोङ्गुलैर्वै षडशीतितुल्यैरायुर्भवेत्षण्णवतिः समानाम् ॥ १२ ॥
- श्लोक 13कुंडली के 1 पठनबाह्लीकदेशान्तरशूरसेनगान्धर्वगंगायमुनान्तरालान् ॥भुक्त्वा वनान्ते निधनं प्रयाति हंसोयमुक्तो मुनिभिः पुराणैः ॥ १३ ॥
- श्लोक 14कुंडली के 1 पठनअस्थूलौष्ठोथ विषमवपुर्नैव रिक्तांगसन्धि-र्मध्ये क्षामः शशधररुचिर्हस्तिनासः सुगण्डः ॥सद्दीप्ताक्षः समसितरदो जानुदेशाप्तपाणि-र्मालव्योयं विलसति नृपः सप्ततिर्वत्सराणाम् ॥ १४ ॥
- श्लोक 15कुंडली के 1 पठनवक्त्रं त्रयोदशमिताङ्गुलमस्य दीर्घंतिर्यग्दशाङ्गुलमितं श्रवणान्तरालम् ॥मालव्यसंज्ञनृपतिः स भुनक्ति नूनंलाटांश्च मालवकसिन्धुसुपारियात्रान् ॥ १५ ॥
- श्लोक 16कुंडली के 1 पठनलघुद्विजास्यो द्रुतगः सकोपः शठोतिशूरो विजन प्रचारः ॥वनाद्रिदुर्गेषु नदीषु सक्तः प्रियातिथिर्नाति लघुः प्रसिद्धः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठननानासेनानिचयनिरतोदन्तुरश्चापि किंचिद्धातोर्वादे भवति कुशलश्चञ्चलः कोलनेत्र ॥स्त्रीसंसक्तः परधनहरो मातृभक्तः सुजङ्घोमध्ये क्षामः सुललितमतीरन्ध्रवेधी परेषाम् ॥ १७ ॥
- श्लोक 18कुंडली के 1 पठनपर्यङ्कशङ्खशरशस्त्रमृदंगमालावीणो पमाः खलु करे चरणे च रेखाः ॥वर्षाणि सप्ततिमितानि करोति राज्यंसम्यक् शशाख्यनृपतिः कथितो मुनीन्द्रैः ॥ १८ ॥
- श्लोक 19कुंडली के 1 पठनकेन्द्रोच्चगा यद्यपि भूसुताद्या मार्तण्डशीतांशुयुता भवन्ति ॥कुर्वन्ति नोर्वीपतिमात्मपाके यच्छन्ति ते केवलसत्फलानि ॥ १९ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।