नक्षत्रजन्मफलम्

जातकाभरण · Jatakabharanam (Birth nakshatra)

28 श्लोक

  1. श्लोक 1कुंडली के 1 पठनसदैव सेवाभ्युदितो विनीतः सत्यान्वितः प्राप्तसमस्तसंपत् ॥योषाविभूषात्मजभूरितोषः स्यादश्विनी जन्मनि मानवस्य ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनसदापकीर्तिर्हि महापवादैर्नाना विनोदैश्च विनीतकालः ॥जलातिभीरुश्चपल खलश्च प्राणी प्रणीतो भरणीभजातः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनक्षुधाधिकः सत्यधनैर्विहीनो वृथाटनोत्पन्नमतिः कृतघ्नः ॥कठोरवाग्गर्हितकर्मकृत्स्याच्चेत्कृत्तिका जन्मनि यस्य जन्तोः ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 पठनधर्मकर्मकुशलः कृशीवलश्चारुशीलविलसत्कलेवरः ॥वाग्विलासकलिताखिलाशयो रोहिणी भवति यस्य जन्मभम् ॥
  5. श्लोक 5कुंडली के 1 पठनशरासनाभ्यासरतो विनीतः सदानुरक्तो गुणिनां गणेशु ॥भोक्ता नृपस्नेहभरेण पूर्णः सन्मार्गवृत्तो मृगजातजन्मा ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 पठनक्षुधाधिको रूक्षशरीरकान्तिर्बन्धुप्रियः कोपयुतः कृतघ्नः ॥प्रसूतिकाले च भवेत्किलार्द्रा दयार्द्रचेता न भवेन्मनुष्यः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 पठनप्रभूतमित्रः कृतशास्त्रयत्नः सद्रत्नचामीकरभूषणाढ्यः ॥दाता प्रतापी वसुधावसुश्च पुनर्वसुर्यस्य भवेत्प्रसूतौ ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनप्रसन्नगात्रः पितृमातृभक्तः स्वधर्मसक्तो विनयाभियुक्तः ॥भवेन्मनुष्यः खलु पुष्यजन्मा सन्माननानाधनवाहनाढ्यः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनवृथाटनः स्यादतिदुष्टचेष्टः कष्टप्रदश्चापि वृथा जनानाम् ॥सार्पे सदर्थो हि वृथार्पितार्थः कन्दर्पसंतप्तमना मनुष्यः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनकठोरचित्तः पितृभक्तियुक्तस्तीव्रस्वभावस्त्वनवद्यविद्यः ॥चेज्जन्मभं यस्य मघानघः सन्मतिः सदारातिविघातदक्षः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनशूरस्त्यागी साहसी भूरिभर्त्ता कामार्तोऽपि स्याच्छिरालोतिदक्षः ॥धूर्त्तः क्रूरोऽत्यन्तसंजातगर्वः पूर्वाफाल्गुन्यस्ति चेज्जन्मकाले ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनदाता दयालुः सुतरां सुशीलो विशालकीर्तिर्नृपतिप्रधानः ॥धीरो नरोत्यन्तमृदुर्नरः स्याच्चेदुत्तराफाल्गुनिकाप्रसूतौ ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 पठनदाता मनस्वी सुतरां यशस्वी भूदेवदेवार्चनकृत्प्रयत्नः ॥प्रसूतिकाले यदि यस्य हस्तो हस्तोद्गता तस्य समस्तसंपत् ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 पठनप्रतापसंतापितशत्रुपक्षो नयेतिदक्षश्च विचित्रवासाः ॥प्रसूतिकाले यदि यस्य चित्रा वुद्धिर्विचित्रा खलु तस्य शास्त्रे ॥
  15. श्लोक 15कुंडली के 1 पठनकन्दर्परूपः प्रभयासमेतः कान्तापरप्रीतिरतिप्रसन्नः ॥स्वाती प्रसूतौ मनुजस्य यस्य महीपतिप्राप्तविभूतियुक्तः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 पठनसदानुरक्तोग्निसुरक्रियायां धातुक्रियायामपि चौग्रसौम्यः ॥यस्य प्रसूतौ च भवेद्विशाखा सखा न कस्यापि भवेन्मनुष्यः ॥ १६ ॥
  17. श्लोक 17कुंडली के 1 पठनसत्कान्तिकीर्तिश्च सदोत्सवः स्याज्जेतारिपूर्णां च कलाप्रवीणः ।स्यात्संभवे यस्य किलानुराधा संपद्विशाला विविधा च तस्य ॥
  18. श्लोक 18कुंडली के 1 पठनसत्कीर्तिकांतिर्विभुतासमेतो वित्तान्वितोत्यन्तलसत्प्रतापः ॥श्रेष्ठः प्रतिष्ठो वदतां वरिष्ठो ज्येष्ठोद्भवः स्यात्पुरुषो विशेषात् ॥ १८ ॥
  19. श्लोक 43कुंडली के 1 पठनसुखेन युक्तो धनवाहनाढ्यो हिंस्रो वलाढ्यःस्थिरकर्मकर्ता ॥प्रतापितारातिजनो मनुष्यो मूले कृती स्याज्जननं प्रपन्नः ॥ ४३ ॥
  20. श्लोक 44कुंडली के 1 पठनभूयो भूयस्तोयपानानुरक्तो भोक्ता चञ्चद्वाग्विलासः सुशीलः ॥नूनं संपज्जायते तस्य गाढा पूर्वाषाढा जन्मभं यस्य पुंसः ॥ ४४
  21. श्लोक 45कुंडली के 1 पठनदाता दयावान् विजयी विनीतः सत्कर्म कर्ता विभुतासमेतः ॥कान्तासुतावाप्तसुखोनितांतं वैश्वे सुवेषः पुरुषोऽभिमानी ॥ ४५ ॥
  22. श्लोक 46कुंडली के 1 पठनअतिसुललितकान्तिः संमतःसज्जनानां ॥ननुभवतिविनीतश्चारुकीर्तिःसुरूपः ॥द्विजवरसुरभक्तिर्व्यक्तवाङ्मानवःस्या ॥दभिजिति यदि सूतिर्भूपतिः स स्ववंशे ॥ ४६ ॥
  23. श्लोक 47कुंडली के 1 पठनशास्त्रानुरक्तो वहुपुत्रमित्रः सत्पात्रभक्तिर्विजितारिपक्षः ॥प्राणी पुराणश्रवणप्रवीणश्चेज्जन्मकाले श्रवणं हि यस्य ॥ ४७ ॥
  24. श्लोक 48कुंडली के 1 पठनआचारदानादरचारुशीलो धनाधिशाली वलवान् कृपालुः ॥यस्य प्रसूतौ च भवेद्धनिष्ठा महाप्रतिष्ठासहितोनरः स्यात् ॥ ४८ ॥
  25. श्लोक 49कुंडली के 1 पठनशीतभीरुरतिसाहसी सदा निष्ठुरो हि चतुरो नरो भवेत् ॥वैरिणामतिशयेन दारुणो वारुणोडु यदि यस्य संभवे ॥ ४९ ॥
  26. श्लोक 50कुंडली के 1 पठनजितेन्द्रियः सर्वकलासु दक्षो जितारिपक्षःखलु तस्य नित्यम् ॥भवेन्मनीषा सुतरामपूर्वा पूर्वा यदा भाद्रपदा प्रसूतौ ॥ ५० ॥
  27. श्लोक 51कुंडली के 1 पठनकुलस्य मध्येधिकभूषणं च नात्युच्चदेहः शुभकर्मकर्ता ॥यस्योत्तराभाद्रपदा च जन्यां धन्यो भवेन्मानधनो वदान्यः ॥ ५१ ॥
  28. श्लोक 52कुंडली के 1 पठनचारुशीलविभवो जितेन्द्रियः सद्धनानुभवनैकमानसः ॥मानवोननु भवेन्महामती रेवती भवति यस्य जन्मभम् ॥ ५२ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।