संवत्सरफलम्
जातकाभरण · Jatakabharanam (Birth year of the sixty-year cycle)
60 श्लोक
- श्लोक 1सर्ववस्तुपरिसंग्रहेरतः पुत्रसंततिरतीव सन्मतिः ॥सर्वभोगयुतदीर्घजीवितोजायते प्रभवसंभवः पुमान् ॥ १ ॥
- श्लोक 2उत्पन्नभोक्ताप्रियदर्शनश्च वलाधिशाली चतुरः कलाज्ञः ॥राजाभवेदात्मकुले सुशीलो विद्वान् मनुष्यो विभवाब्दजन्मा ॥२॥
- श्लोक 3सदासहर्षोऽतितरामुदारः सत्पुत्रदारो विभवैः समेतः ॥सद्भाग्यविद्याविनयोपपन्नो नूनं पुमान् शुक्लसमुद्भवः स्यात् ॥३॥
- श्लोक 4दातासुतानन्दयुतोऽतिकान्तः सत्येन नित्यं सहितो गुणीस्यात् ॥दक्षश्च धूर्तः परकार्यकर्ता प्रमोदजन्मा मनुजोभिमानी ॥ ४ ॥
- श्लोक 5दाराभिमानः सुतरां दयालुः कुलानुवृत्तः किलः चारु शीलः ॥देवद्विजार्चाभिरतो विनीतो मर्त्यः प्रजाधीशसमुद्भवः स्यात् ॥५॥
- श्लोक 6कान्तः सुखी भोगयुतश्च मानी प्रियप्रवक्ता बहुपुत्रयुक्तः ॥सुगुप्तबुद्धिः खलु दीर्घजीवी नरोङ्गिरोवत्सरसंभवः स्यात् ॥६॥
- श्लोक 7श्रीमान्प्रतापीबहुशास्त्रवेत्ता सुहृत्प्रियश्चारुमतिर्बलीयान् ॥सत्कीर्तियुक्तो नितरामुदारो भवेन्नरः श्रीमुखसंभवोसौ ॥७॥
- श्लोक 8प्रशस्तचेताः सुतरां यशस्वी गुणान्वितो दानरतो विनीतः ॥सदासहर्षोऽभिमतो बहूनां भावाभिधानोद्भवमानवः स्यात् ॥८॥
- श्लोक 9प्रसन्नमूर्तिर्गुणवान विनीतः शान्तश्चदानाभिरतो नितान्तम् ॥सुधीश्चिरायुर्दृढदेहशाली जातो युवाब्दे पुरुषः सतोषः ॥९॥
- श्लोक 10सर्वलोकगुणगौरवयुक्तः सुन्दरोऽप्यतितरां गुरुभक्तः ।शिल्पशास्त्रकुशलश्च सुशीलो धातृवत्सरभवो हि नरः स्यात् ॥१०
- श्लोक 11तत्कालसंजातमहाप्रकोपो हर्षाभियुक्तो गुणवान्प्रतापी ॥दक्षः कलाकौशलशीलशाली मर्त्यो भवेदीश्वरजातजन्मा ॥११॥
- श्लोक 12व्यापारदक्षः क्षितिपालमानी दानाभिमानी ननु शास्त्रवेत्ता ॥वहुप्रकारैर्वहुधान्यवित्तः स्यान्मानवो वै वहुधान्यजन्मा ॥ १२ ॥
- श्लोक 13रथध्वजच्छत्रतुरंगमाद्यैर्युतश्च शास्त्राभिरतोऽरिहन्ता ॥मन्त्री नरेन्द्रस्य नरः श्रुतज्ञः प्रमाथिसंवत्सरसंभवः स्यात् ॥१३॥
- श्लोक 14अत्युग्रकर्माभिरतो नितान्तमरातिचक्राक्रमणेतिदक्षः ॥शूरश्च धीरोऽतितरामुदारः पराक्रमी विक्रमवर्षजातः ॥१४॥
- श्लोक 15कार्यप्रलापी किल निन्द्यशीलः खलानुयातः परकर्मकर्ता ॥भर्त्ता वहूनां मलिनोऽलसश्च जातो वृषाब्दे मनुजोतिलुब्धः ॥१५
- श्लोक 16चित्रवस्त्रकुसुमैकमानसो मानसोद्भवचयान्वितः सदा ॥चारु शीलविलसत्कलान्वितश्चित्रभानुजननो हि पूरुषः ॥१६॥
- श्लोक 17अरालकेशः सरल सुकान्तिर्जातारिपक्षो मतिमान्विनीतः ॥प्रसन्नमूर्तिर्विलसद्विभूतिः सुभानुसंवत्सरजो नरः स्यात् ॥१७॥
- श्लोक 18धूर्तश्च शूरश्चपलः कलाज्ञः सुनिष्ठुरो गर्हितकर्मकर्ता ॥उत्पन्नभोक्ताद्रविणेन मुक्तः स्यात्तारणाब्दोद्भवमानवो यः ॥१८॥
- श्लोक 19स्वधर्मकर्माभिरतो नितान्तं सच्छास्त्रपारंगमतामुपेतः ॥कलाकलापे कुशलो विलासी यः पार्थिवाब्दे कुलपार्थिवः स्यात् ॥
- श्लोक 20सौख्येतिरक्तो व्यसनाभिभूतो भीतो न किंचिद् ग्रहणादृणी स्यात् ॥जातः पुमानस्थिरचित्तवृत्तिर्व्ययाभिधाने व्ययकर्मशीलः ॥२०॥
- श्लोक 21राजगौरवमहोत्सवः शुचिर्मानवः पृथु तनुर्महीपतिः ॥वैरिवर्गविजयोद्यतः सदा सर्वजिच्छरदि यस्य संभवः ॥ २१ ॥
- श्लोक 22भूरिभृत्य बहुभोगसंयुतः सुन्दरश्च मधुरान्नभुक् सदा ॥धीरतागुणयुतोऽतिधारणः सर्वधारिणि च यस्य संभवः ॥२२॥
- श्लोक 23वक्ता विदेशाटनतां प्रपन्नः कुटुम्बसौख्यापचयोऽतिधूर्तः ॥जनेन साकं गतसख्यवृत्तिर्विरोधिवर्षप्रभवो नर स्यात् ॥२३॥
- श्लोक 24निर्धनः किल करालतां गतो दीर्घपूर्वबहुगर्वसंयुतः ॥चारुबुद्धिरहितोप्यसौ हृदो मानवोविकृतिवर्षसंभवः ॥ २४ ॥
- श्लोक 25कामातुरो धूसरकायकान्तिः कठोरदीर्घस्वरफल्गुवाक्यः ॥क्लेशी च लज्जाविधिवर्जितः स्यान्नरःखराब्दप्रभवोतिदीर्घः ॥२५॥
- श्लोक 26तडागवापीगृहकूपकर्ता सदान्नदानाभिरुचिः शुचि स्यात् ॥विलासिनीनन्दनजातहर्षो नरो भवेन्नन्दनवर्षजन्मा ॥ ॥२६॥
- श्लोक 27संग्रामधीरः सुतरां सुशीलो भूपालमान्यो वदतां वरेण्यः ॥दातादयालुः किल वैरिहन्ता यस्य प्रसूतिर्विजयाभिधाने ॥२७॥
- श्लोक 28शास्त्रप्रसंगे विदुषा विवादी मान्यो वदान्यो रिपुगर्वहन्ता ॥जयाभिलाषी विषयानुरक्तो जातो जयाब्दे मनुजो महौजाः ॥२८॥
- श्लोक 29भूषाविशेषैः सहितश्च योषा विलासशीलो मृतवाक्कलाज्ञः ॥सङ्गीतनृत्याभिरतश्च भोक्ता यो मन्मथाब्दे जननं प्रपन्नः ॥ २९ ॥
- श्लोक 30क्रूरोद्धतो निन्द्यमतिश्च लुब्धो वक्रास्यबाह्वङ्घ्रिरघप्रियःस्यात् ॥विरुद्ध भावोबहुदुष्टचेष्टो यो हायने दुर्मुखनाम्नि जातः ॥ ३० ॥
- श्लोक 31तुरंगहेमाम्बरधान्यरत्नैर्युतो नितान्तं सुतदारसौख्यः ॥समस्तवस्तुग्रहणैकबुद्धिर्यो हेमलम्बे पुरुषोभिजातः ॥ ३१ ॥
- श्लोक 32धूर्त्तोतिलुब्धो लसतां प्रपन्नः श्लेष्माधिकः सत्वविवर्जितश्च ॥प्रारब्धकार्ये नितरां प्रलापी विलम्बसंवत्सरसंभवः स्यात् ॥ ३२ ॥
- श्लोक 33दुराग्रही सर्वकलाप्रवीणः सुसंग्रही चञ्चलधीश्च धूर्तः ॥अनल्पजल्पः ससुहृद्विकल्पो विकारि संवत्सरजो नरः स्यात् ॥ ३३ ॥
- श्लोक 34वणिक्क्रियायां कुशलो विलासी नैवानुकूलश्च सुहृज्जनानाम् ॥अनेकविद्याभ्यसनानुरक्तः संवत्सरे शार्वरिनाम्नि जातः ॥ ३४ ॥
- श्लोक 35कामी प्रकामं धनवांश्च शश्वत्सेवादरोदारहृतार्थततः ॥सुगुप्तबुद्धिश्चपलस्वभावः प्लवाभिधानाब्दभवो नरः स्यात् ॥ ३५ ॥
- श्लोक 36सौभाग्यविद्याविनयैः समेतः पुण्यैरगण्यैरपि दीर्घजीवी ॥स्यान्मानवः सूनुधनोरुसंपद्यस्य प्रसूतिः शुभकृत्समासु ॥ ३६ ॥
- श्लोक 37सर्वोन्नतश्चारुगुणो दयालुः सत्कर्मकर्ता विजयी विशेषात् ॥कान्तो विनीतः शुभदृक्प्रवीणो यः शोभकृद्वत्सरसंभवः स्यात् ॥
- श्लोक 38क्ररेक्षणः क्रूरतरस्वभावः स्त्रीवल्लभः पर्वततुल्यगर्वः ॥स्यादन्तरायः परकार्यकाले क्रोधी भवेत्क्रोधिशरत्प्रसूतः ॥ ३८ ॥
- श्लोक 39सुपुत्रदारः सुतरामुदारो नरः सदाचाररतोऽतिधीरः ॥मिष्टान्नभुक् सर्वगुणाभिरामो विश्वावसौ यस्य भवेत्प्रसूतिः ॥ ३९ ॥
- श्लोक 40धनस्य धान्यस्य च नैव किंचित्सुसंग्रहोत्यन्तकठोरवाक्यः ॥आचारताल्पत्वशठत्वयुक्तो पराभवे यस्य भवेत्प्रसूतिः ॥ ४० ॥
- श्लोक 41भवेदलं चञ्चलचित्तवृत्तिर्न स्यात्प्रवृत्तः खलु साधुकार्ये ॥धूर्तः सदाचारविचारहीनः प्लवंगजो वै मनुजः कृशांग ॥ ४१ ॥
- श्लोक 42रूपेण मध्यः प्रियवाग्दयालुर्जलाभिलाषी त्वनुवेलमेव ॥स्थूलाङ्घ्रिसन्मौलिरलं बलीयान्किलारिकीलः किलके प्रसूतः ॥
- श्लोक 43पण्डितो हि धनवान्बहुभोगी देवतातिथिरुचिः शुचिरुच्चैः ॥सात्त्विकः कृशकलेवरयष्टि, सौम्यवत्सरभवो हि नरः स्यात् ॥ ४३ ॥
- श्लोक 44इतस्ततः संचलनानुरक्तो लिपिक्रियायां कुशलो विवेकी ॥क्रोधी शुचिर्भोगनिवृत्तचेताः प्राणीति साधारणजः प्रणीतः ॥ ४४ ॥
- श्लोक 45महेश्वराराधनतत्परः स्यात् क्रोधी विरोधी सततं वहूनाम् ॥पराङ्मुखस्तातवचस्यतीवविरोधकृन्नाम्नि च यस्य जन्म ॥ ४५ ॥
- श्लोक 46विद्वान् सुशीलश्च कलाप्रवीणः सुधीश्च मान्यो वसुधाधिपानाम् ॥व्यापारसंप्राप्तमहाप्रतिष्ठः पुमान् भवेद्वै परिधावि जन्मा ॥ ४६ ॥
- श्लोक 47दुष्टाभिमानी कलहानुरक्तो लुब्धः कुटुम्बाभिरतश्च दीनः ॥स्यादल्पधीर्गर्हितकर्मकर्ता प्रमादिजन्मा मनुजः प्रमादी ॥ ४७ ॥
- श्लोक 48स्याद्भूरिदारश्चतुरोऽतिदक्षः शश्वत्सुतानन्दभरप्रपूरः ॥प्राज्ञः कृतज्ञः सुतरां विनीतोप्यानन्दजातो मनुजो वदान्यः ॥ ४८ ॥
- श्लोक 49क्रूरस्त्वकर्मा कलहानुरक्तः संत्यक्तसद्धर्मविचारसारः ॥दयाविहीनश्च ससाहसोऽपि भवेन्नरो राक्षसजातजन्मा ॥ ४९ ॥
- श्लोक 50सद्बुद्धिशाली जलसस्यसंपद्वैश्यानुवृत्तौ कुशलः सुशीलः ॥स्यादल्पवित्तो वहुपालकश्च जातोऽनलाब्दे चपलो मनुष्यः ॥ ५० ॥
- श्लोक 51पिङ्गेक्षणो गर्हितकर्मकर्ता स्यादुद्धतश्चञ्चलवैभवाढ्यः ॥त्यागी शठोत्यन्तकठोरवाक्यो जातो नरः पिङ्गलनामधेये ॥ ५१ ॥
- श्लोक 52अनल्पजल्पः प्रियतामुपेतस्त्वसाधुबुद्धिर्विधिना वियुक्तः ॥कलिप्रसंगे किल कालरूपो यः कालयुक्तप्रभवः कृशांग ॥ ५२ ॥
- श्लोक 53उदारचेता विलसत्प्रसादो रणांगणप्राप्तयशाः सुवेषः ॥नरेन्द्रमन्त्री बहुपूजितार्थी सिद्धार्थिजातो मनुजः समर्थः ॥ ५३ ॥
- श्लोक 54भयंकरः पालयिता पशूनां शश्वत्परीवादपरोऽतिधूर्तः ॥जातापकीर्तिः खलचित्तवृत्तिर्नरोतिरौद्रः खलु रौद्रजन्मा ॥ ५४ ॥
- श्लोक 55स्ववाक्यनिर्वाहमहाभिमानः प्रसन्नताहीनतरो नरः स्यात् ॥कामीप्रकामं दुरितप्रवृत्तिर्यो दुर्मतिर्दुर्मतिवर्षजातः ॥ ५५ ॥
- श्लोक 56नित्यं नरेन्द्रादरगौरवः स्याद्गजाश्वभूहेमसमन्वितश्च ॥तौर्यत्रिकप्रीतिरतीव जातश्चेन्मानवो दुन्दुभिनामधेये ॥ ५६ ॥
- श्लोक 57आरक्ताक्षः क्वचिदपि महाकामलाद्यामयानांप्रादुर्भावादतिकृशतनुर्जायतेत्यन्तरोषः ।पादद्वन्द्वे भवति कुनखो हस्तयुग्मेथवा स्या-च्छस्त्राद्दुःखं व्रजति रुधिरोद्गारिजन्मा मनुष्यः ॥ ५७ ॥
- श्लोक 58आचारधर्माभिरतो नितान्तं मनोभवोत्कर्षतरो नरः स्यात् ॥अन्याधिकत्वं सहते न किंचिद्रक्ताक्षिजातोऽक्षिरुजान्वितश्च ॥
- श्लोक 59स्यादन्तरायोहि परस्य कार्ये तमोगुणाधिक्य भयंकरश्च ॥परस्य बुद्धिं प्रहरेत्प्रकामं यो हायने क्रोधननाम्नि जातः ॥ ५९ ॥
- श्लोक 60उपार्जितार्थव्ययकृन्नितान्तं सेवारतो निष्टुरचित्तवृत्तिः ॥सत्कर्मताल्पत्वमनः प्रवृत्तिः क्षयाभिधाने जननं हि यस्य ॥ ६० ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।