अथाग्रे स्त्रीजातकाध्यायो निगद्यते
जातकाभरण · Jatakabharanam (Stri-jataka: the horoscope of a woman)
30 श्लोक
- श्लोक 1यज्जन्मकालाद्गदितं नराणां होराप्रवीणैः फलमेतदेव ॥स्त्रीणां प्रकल्प्यं खलु चेदयोग्यं तन्नायके तत्परिवेदितव्यम् ॥ १ ॥
- श्लोक 2लग्ने शशाङ्के च वपुर्विचिन्त्यन्तयोः कलत्रे पतिवैभवानि ॥सुताख्यभावे प्रसवोऽवगम्यो वैधव्यमस्याः किल कालगेहे ॥ २ ॥
- श्लोक 3कुंडली के 2 पठनलग्ने च चन्द्रे समराशियाते कान्ता नितांतं प्रकृतिस्थिता स्यात् ॥सद्रत्नभूषासहिताथ सौम्यैर्निरीक्षितौ तौ यदि चारुशीला ॥ ३ ॥
- श्लोक 4कुंडली के 1 पठनतयोः स्थितिश्चेद्विषमाख्यराशौ नारी नराकारधरा कुरूपा ॥पापग्रहालोकनयोगयातौ तौ चेत्कुशीला गुणवर्जितालम् ॥ ४ ॥
- श्लोक 5कुंडली के 3 पठनलग्नेन्द्वोर्बलवान कुजस्य भवने शुक्रस्य खाग्न्यंशकेकन्या स्यादतिनिन्दिता सुरगुरोः साध्वी नितान्तं भवेत ॥दुष्टा भूतनयस्य नूनमुदिता सौम्यस्य मायाविनीदासीतिग्ममरीचिसूनुगगनाग्न्यंशे फलानि क्रमात ॥ ५ ॥
- श्लोक 6कुंडली के 2 पठनतारानायकपुत्रभेऽवनिसुतत्रिंशल्लवे कापटाशौक्रे हीनमनोभवा शशिसुतस्यातीव युक्ता गुणैः ॥देवाधीशपुरोहितस्य हि भवेत्साध्वी नितान्तं तथाखाग्न्यंशेर्कसुतस्य सा निगदिता क्लीवस्य भार्या बुधैः ॥ ६ ॥
- श्लोक 7कुंडली के 3 पठनदेवाचार्यगृहेऽमृतांशुरथवा लग्नं खवह्न्यंशकेभूसूनोर्गुणशालिनी सुरगुरोः ख्याता गुणानां गणैः ॥तारास्वामिसुतस्य चारुविभवा शुक्रस्य साध्वी भवे-न्नूनं भानुसुतस्य चाल्पसुरता कान्ता बुधैः कीर्तिता ॥ ७ ॥
- श्लोक 8कुंडली के 4 पठनदैत्याचार्यगृहे सुरेन्द्रसचिवस्याका शवह्न्यंशकेलग्ने वाप्युडुनायको गुणवती भौमस्य दौष्ट्याधिकासौम्यस्यातिकलाकलापकुशला शुक्रस्यचञ्चद्गुणैर्युक्ताद्यैर्निपुणैर्दिवामणिसुतस्यांशे पुनर्भूरिति ॥ ८ ॥
- श्लोक 9कुंडली के 2 पठनमन्दालये खाग्निलवे कुजस्य दासी च सौम्यस्य खला हि वाला ॥वृहस्पतेःस्यात्पतिदेवता सा बन्ध्या भृगोर्नीचरतार्क सूनोः ॥ ९ ॥
- श्लोक 10कुंडली के 3 पठनलग्ने वा बिधुरर्कमन्दिरगतो भौमस्य खाग्न्यंशकेस्वेच्छासंचरणोद्यताशशिसुतस्यातीव दुष्टाशया ॥देवाधीशपुरोधसो निगदिता सा राजपत्नी भृगोःपौंश्चल्याभिरता शनेरतितरां पुंवत्प्रगल्भाङ्गना ॥ १० ॥
- श्लोक 11कुंडली के 2 पठनचन्द्रागारे खाग्निभागे कुजस्य स्वेच्छावृत्तिर्यस्य शिल्पे प्रवीणा ॥वाचांपत्युःसद्गुणा भार्गवस्य साध्वी मन्दस्य प्रियप्राणहन्त्री ॥ ११ ॥
- श्लोक 12अन्योन्यभागे क्षणगौसितार्की यद्वा सितर्क्षे तनुगे घटांशे ॥कन्दर्पशान्तिं कुरुते नितान्तं नारी नराकारकराङ्गनाभिः ॥ १२ ॥
- श्लोक 13कुंडली के 3 पठनशून्ये मन्मथमन्दिरे शुभखगैर्नालोकिते निर्बलेवालायाः किल नायको मुनिवरैः कापूरुषः कीर्तितः ॥जामित्रं बुधमन्दयोर्यदि गृहं षण्ढो भवेन्निश्चितंराशौ तत्र चरे विदेशनिरतो द्व्यङ्गे च मिश्रस्थितिः ॥ १३ ॥
- श्लोक 14सप्तमे दिनपतौ पतिमुक्ता क्षोणिजे च विधवा खलु वाल्ये ॥पापखेचरविलोकनयाते मन्दगे च युवतिर्जरती स्यात् ॥ १४ ॥
- श्लोक 15खलैः कलत्रे च गतालका स्यात्कान्ताविमिश्रैश्च भवेत्पुनर्भूः ॥कलत्रसंस्थे विवले खलाख्ये सौम्यैरदृष्टे विभुना विमुक्ता ॥ १४ ॥
- श्लोक 16अन्योन्यांशावस्थितौ भौमशुक्रौ स्यातां कान्तासंगतान्येन नूनम् ॥चन्द्रोपेतौ शुक्रवक्रौ स्मरस्थावज्ञेव स्यात्स्वामिनश्चामनन्ति ॥ १६ ॥
- श्लोक 17लग्ने सितेन्दू कुजमन्दभस्थौ क्रूरेक्षितौ सान्यरता निरुक्ता ॥स्मरे कुजे सार्कसुतेन दृष्टे विनष्टयोनिश्च शुभा शुभाङ्गे ॥ १७ ॥
- श्लोक 18कुंडली के 7 पठनभानोर्भेयदि वा लवः स्मरगृहे संभोगमन्दः पतिश्चन्द्रस्यातिमदो मृदुः क्षितिसुतस्य स्त्रीप्रियः क्रोधयुक् ॥विद्वान् ज्ञस्य गुरोर्वशी गुणयुतः शुक्रस्य भाग्यान्वितोमन्दस्य प्रवयास्तु गूढमतिरित्युक्तो बुधैर्होरिकैः ॥ १८ ॥
- श्लोक 19कुंडली के 5 पठनशुक्रेन्दू स्मरगौ स्त्रियं प्रकुरुतः सेर्ष्यां सुखेनान्वितांसौम्येन्दू च कलासुखोत्तमगुणां शुक्रेन्दुपुत्रावथ ॥चञ्चद्भाग्यकलाज्ञताभिरुचिरां सौम्यग्रहेन्द्रास्तनौनानाभूषणसद्गुणाम्बरसुखाम्पापग्रहैस्त्वन्यथा ॥ १९ ॥
- श्लोक 20वैधव्यं स्यात्पापखेटेऽष्टमस्थे रन्ध्रस्वामीसंस्थितो यस्य चांशे ॥मृत्युः पाके तस्य वाच्योऽङ्गनायाः सौम्यैरर्थस्थानगैःस्यात्स्वयंहि ।
- श्लोक 21सूर्यारौ खजलाश्रितौ हिमवतः शैलाग्रपातान्मृतिर्भौमेन्द्वर्कसुताःस्वसप्तजलगाः स्यात्कूपवाप्यादितः ॥सूर्याचन्द्रमसौ खलेक्षितयुतौ कन्यास्थितौ बन्धनात्तौ चेद्व्यङ्गविलग्नसंस्थितिकरौ तोये विलग्नाः स्वतः ॥ २१ ॥
- श्लोक 22रविसुतो यदि कर्कमुपागतो हिमकरो मकरोपगतो भवेत् ॥किल जलोदरसंजनिता तदा निधनता वनितासु च कीर्तिता ॥ २२ ॥
- श्लोक 23कुंडली के 1 पठननिशाकरः पापखगान्तरस्थः शस्त्राग्निमृत्युं कुजभे करोति ॥पापेस्मरस्थेन्यखगे च धर्मे किलांगना प्रव्रजितत्वमेति ॥ २३ ॥
- श्लोक 24कुंडली के 2 पठनकन्यालिगे सिंहगते शशांके पंकेरुहाक्षी खलु साल्पपुत्रा ॥पुत्रालयं चेत्खलु खेचरेन्द्रैर्दृष्टं युतं वा बहुता च तेषाम् ॥ २४ ॥
- श्लोक 25कुंडली के 1 पठनशुक्रेन्दुसौम्याविबला भवेयुः शनैश्चरोमध्यबलो यदि स्यात ॥शेषाः सवीर्या विषमे च लग्ने योषाविशेषात्पुरुषप्रगल्भा ॥ २५ ॥
- श्लोक 26कुंडली के 1 पठनसमे विलग्ने यदि संस्थिताः स्युर्बलान्विताः शुक्रबुधेन्दुजीवाः ॥स्यात्कामिनी ब्रह्मविचारचर्चा परागमज्ञानविराजमाना ॥ २६ ॥
- श्लोक 27पूर्वैर्यन्मुनिभिः सविस्तरतया स्त्रीजातके कीर्तितंसम्यग्वाप्यशुभं च यन्मतिमता वाच्यं विदित्वा वलम् ॥योगानां च नियोजयेत्फलमिदं पृच्छाविलग्ने तथापाणिप्रग्रहणे तथा च वरणे संभूतिकालेपि च ॥ २७ ॥
- श्लोक 28कुंडली के 3 पठननारीचक्रे मस्तके त्रीणि भानि वक्त्रेभानां सप्तकं स्थापनीयम् ॥प्रत्येकं स्युर्वेदतारा उरोजे तिस्रस्तारा हृत्प्रदेशे निवेश्याः ॥ २८ ॥
- श्लोक 29कुंडली के 3 पठननाभौ देयं भत्रयं त्रीणि गुह्ये भानोर्धिष्ण्याच्चन्द्रधिष्ण्यावधीत्थम् ॥सत्संतापः शीर्षभे वक्त्रसंस्थे नित्यं मिष्टान्नानि सौख्योपलब्धिः ॥ २९ ॥
- श्लोक 30कुंडली के 2 पठनकामं स्वामिप्रेमवृद्धिस्तनस्थे वक्षोदेशावस्थितेऽत्यन्तहर्षः ॥पत्युश्चिन्तानन्तवृद्धिश्च नाभौ गुह्यस्थे स्यान्मन्मथाधिक्यमुच्चैः ॥ ३० ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।