अध्याय 1: संज्ञाध्यायः
लघुपाराशरी · Laghu Parashari, chapter 1 (Definitions and functional nature)
13 श्लोक
- श्लोक 1सिद्धान्तमौपनिषदं शुद्धान्तं परमेष्ठिनः ॥शोणाधरं महः किञ्चिद्वीणाधरमुपास्महे ॥ १ ॥
- श्लोक 2वयं पाराशरीहोरामनुसृत्य यथामति ॥उडुदायप्रदीपाख्यं कुर्म्मो दैवविदां मुदे ॥ २ ॥
- श्लोक 3फलानि नक्षत्रदशाप्रकारेण विवृण्महे ॥दशाविंशोत्तरीचात्र ग्राह्या नाष्टोत्तरी मता ॥ ३ ॥
- श्लोक 4बुधैर्भावादयः सर्वे ज्ञेयाः सामान्यशास्त्रतः ॥एतच्छास्त्रानुसारेण संज्ञां ब्रूमो विशेषतः ॥ ४ ॥
- श्लोक 5पश्यन्ति सप्तमं सर्वे शनिजीवकुजादयः ॥विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥ ५ ॥
- श्लोक 6कुंडली के 2 नियमसर्वे त्रिकोणनेतारो ग्रहाः शुभफलप्रदाः ॥पतय स्त्रिषडायानां यदि पापफलप्रदाः ॥ ६ ॥
- श्लोक 7कुंडली के 2 नियमन दिशन्ति शुभं नृणां सौम्याः केन्द्राधिपा यदि॥क्रूराश्चेदशुभंह्येते प्रवलाश्चोत्तरोत्तराः ॥ ७ ॥
- श्लोक 8कुंडली के 1 नियमलग्नाद्व्ययद्वितीयेशौ परेषां साहचर्य्यतः ॥स्थानान्तरानुगुण्येन भवतः फलदायकौ ॥ ८ ॥
- श्लोक 9कुंडली के 2 नियमभाग्यव्ययाधिपत्येन रन्ध्रेशो न शुभप्रदः ॥स एव शुभसन्धाता लग्नाधीशोऽपिचेत्स्वयम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 नियमकेन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः ॥मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥ १० ॥
- श्लोक 11कुंडली के 2 नियमबुधस्तदनु चन्द्रोऽपि भवेत्तदनु तद्विधः ॥न रन्ध्रेशत्वदोषस्तु सूर्य्याचन्द्रमसोर्भवेत् ॥ ११ ॥
- श्लोक 12कुंडली के 1 नियमकुजस्य कर्म्मनेतृत्वप्रयुक्ता शुभकारिता ॥त्रिकोणस्यापि नेतृत्वे न कर्म्मेशत्वमात्रतः ॥ १२ ॥
- श्लोक 13कुंडली के 1 नियमयद्यद्भावगतौ वापि यद्यद्भावेशसंयुतौ ॥तत्तत्फलानि प्रवलौ प्रदिशेतां तमोग्रहौ ॥ १३ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।