अध्याय 1: शुभाशुभप्रकरणम्
मुहूर्त चिंतामणि · Muhurta Chintamani (Auspicious and inauspicious elements)
19 श्लोक · 38 श्लोक (अभी जाँच बाकी) यहाँ नहीं दिखाए
- श्लोक 3कुंडली के 15 पठनतिथीशा वह्निकौ गौरी गणेशोऽहिर्गुहो रविः ।शिवो दुर्गांतको विश्वे हरिः कामः शिवः शशी ॥ ३ ॥
- श्लोक 4कुंडली के 5 पठननंदा च भद्रा च जया च रिक्ता पूर्णेति तिथ्योऽशुभमध्यशस्ताः ।सितेऽसिते शस्तसमाधमाः स्युः सितज्ञभौमार्किगुरौ च सिद्धाः ४
- श्लोक 5कुंडली के 5 पठननंदा भद्रा नंदिकाख्या जया च रिक्ता भद्रा चैव पूर्णा मृतार्कात् ।याम्यं त्वाष्ट्रं वैश्वदेवं धनिष्ठार्यम्णं ज्येष्ठांत्यं रवेर्दग्धभं स्यात् ॥ ५ ॥
- श्लोक 23आनंदाख्यः कालदंडश्च धूम्रो धाता सौम्यो ध्वांक्षकेतू क्रमेण ।श्रीवत्साख्यो वज्रकं मुद्गरश्च छत्रं मित्रं मानसं पद्मलुंबौ ॥ २३ ॥
- श्लोक 24उत्पातमृत्यू किल काणसिद्धी शुभोऽमृताख्यो मुसलो गदश्च ।मातंगरक्षश्चरसुस्थिराख्यप्रवर्धमानाः फलदाः स्वनाम्ना ॥ २४ ॥
- श्लोक 25दास्रादर्के मृगादिंदौ सार्पाद्भौमे कराद्बुधे ।मैत्राद्गुरौ भृगौ वैश्वाद्गण्या मंदे च वारुणात् ॥ २५ ॥
- श्लोक 26ध्वांक्षे वज्रे मुद्गरे चेषुनाड्यो वर्ज्या वेदाः पद्मलुंबे गदेऽश्वाः ।धूम्रे काणे मौसले भूर्द्वयं द्वे रक्षोमृत्यूत्पातकालाश्च सर्वे ॥ २६ ॥
- श्लोक 30द्वीशात्तोयाद्वासवात्पौष्णभाच्च ब्राह्मात्पुष्यादर्यमर्क्षाद्युगर्क्षैः ।स्यादुत्पातो मृत्युकाणौ च सिद्धिर्वारेऽर्काद्ये तत्फलं नामतुल्यम् ॥
- श्लोक 32सर्वस्मिन्विधुपापयुक्ततनुलवावर्धे निशाह्नोर्घटी-त्र्यंशं वै कुनवांशकं ग्रहणतः पूर्वं दिनानां त्रयम् ।उत्पातग्रहतोऽग्र्यहांश्च शुभदोत्पातैश्च दुष्टं दिनंषण्मासं ग्रहभिन्नभं त्यज शुभे यौद्धं तथोत्पातभम् ॥ ३२ ॥
- श्लोक 33नेष्टं ग्रहर्क्षं सकलार्धपादग्रासे क्रमात्तर्कगुणेंदुमासान् ।पूर्वं परस्तादुभयोस्त्रिघस्रा ग्रस्तेऽस्तगे वाभ्युदितेऽर्धखंडे ॥ ३३ ॥
- श्लोक 34कुंडली के 4 पठनजन्मर्क्षमासतिथयो व्यतिपातभद्रा-वैधृत्यमापितृदिनानि तिथिक्षयर्द्धी ।न्यूनाधिमासकुलिकप्रहरार्धपाताविष्कंभवज्रघटिकात्रयमेव वर्ज्यम् ॥ ३४ ॥
- श्लोक 35कुंडली के 5 पठनपरिघार्धं पंच शूले षट् च गंडातिगंडयोः ।व्याघाते नव नाड्यश्च वर्ज्याः सर्वेषु कर्मसु ॥ ३५ ॥
- श्लोक 36वेदांगाष्टनवार्केंद्रपक्षरन्ध्रतिथौ त्यजेत् ।वस्वंकमनुतत्त्वाशाशरा नाडीः पराः शुभाः ॥ ३६ ॥
- श्लोक 43कुंडली के 1 पठनशुक्ले पूर्वार्धेऽष्टमीपंचदश्योर्भद्रैकादश्यां चतुर्थ्यां परार्धे ।कृष्णेंऽत्यार्धे स्यात्तृतीयादशम्योः पूर्वे भागे सप्तमीशंभुतिथ्योः ॥
- श्लोक 44कुंडली के 1 पठनपंचद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शराविष्टेरास्यमसद्गजेंदुरसरामाद्र्यश्विबाणाब्धिषु ।यामेष्वंत्यघटीत्रयं शुभकरं पुच्छं तथा वासरेविष्टिस्तिथ्यपरार्धजा शुभकरी रात्रौ तु पूर्वार्धजा ॥ ४४ ॥
- श्लोक 45कुंडली के 1 पठनकुंभकर्कद्वये मर्त्येऽब्जे स्वर्गेऽजात्रयेऽलिगे ।स्त्रीधनुर्जूकनक्रेऽधो भद्रा तत्रैव तत्फलम् ॥ ४५ ॥
- श्लोक 54पादोनरेखापरपूर्वयोजनैः पलैर्युतोनास्तिथयो दिनार्धतः ।ऊनाधिकास्तद्विवरोद्भवैः पलैरूर्ध्वं तथाधो दिनपप्रवेशनम् ५४
- श्लोक 55वारादेर्घटिका द्विघ्नाः स्वाक्षहृच्छेषवर्जिताः ।सैकास्तष्टा नगैः कालहोरेशा दिनपात्क्रमात् ॥ ५५ ॥
- श्लोक 56वारे प्रोक्तं कालहोरासु तस्यधिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य ।कुर्याद्दिक्शूलादि चिंत्यं क्षणेषुनैवोल्लंघ्यः पारिघश्चापि दंडः ॥ ५६ ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।