अध्याय 4: गोचरप्रकरणम्
मुहूर्त चिंतामणि · Muhurta Chintamani (Transits)
19 श्लोक
- श्लोक 1कुंडली के 10 पठनसूर्यो रसांत्ये खयुगेऽग्निनंदे शिवाक्षयोर्भौमशनी तमश्च ।रसांकयोर्लाभशरे गुणांत्ये चंद्रोऽम्बराब्धौ गुणनंदयोश्च ॥ १ ॥
- श्लोक 2कुंडली के 6 पठनलाभाष्टमे चाद्यशरे रसांत्ये नगद्वये ज्ञो द्विशरेऽब्धिरामे ।रसांकयोर्नागविधौ खनागे लाभव्यये देवगुरुः शराब्धौ ॥ २ ॥
- श्लोक 3कुंडली के 4 पठनद्व्यंत्ये नवांशेऽद्रिगुणे शिवाहौ शुक्रः कुनागे द्विनगेऽग्निरूपे ।वेदांबरे पंचनिधौ गजेषौ नंदेशयोर्भानुरसे शिवाग्नौ ॥ ३ ॥
- श्लोक 4कुंडली के 4 पठनक्रमाच्छुभो विद्ध इति ग्रहः स्यात्पितुः सुतस्यात्र न वेधमाहुः ।दुष्टोऽपि खेटो विपरीतवेधाच्छुभो द्विकोणे शुभदः सितेऽब्जः ॥४॥
- श्लोक 5कुंडली के 2 पठनस्वजन्मराशेरिह वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः ।हिमाद्रिविंध्यांतर एव वेधो न सर्वदेशेष्विति कश्यपोक्तिः ॥५॥
- श्लोक 6कुंडली के 2 पठनजन्मर्क्षे निधनं ग्रहे जनिभतो घातः क्षतिः श्रीर्व्यथाचिंतासौख्यकलत्रदौःस्थ्यमृतयः स्युर्माननाशः सुखम् ।लाभोऽपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगो-दानं शांतिरथो ग्रहं त्वशुभदं नो वीक्ष्यमाहुः परे ॥ ६ ॥
- श्लोक 7कुंडली के 1 पठनपापांतः पापयुग्द्यूने पापाच्चन्द्रः शुभोऽप्यसन् ।शुभांशे चाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सन् ॥ ७ ॥
- श्लोक 8कुंडली के 1 पठनसितासितादौ सद्दुष्टे चन्द्रे पक्षौ शुभाशुभौ ।व्यत्यासे चाशुभौ प्रोक्तौ संकटेऽब्जबलं त्विदम् ॥ ८ ॥
- श्लोक 9कुंडली के 1 पठनवज्रं शुक्रेऽब्जे सुमुक्ता प्रवालं भौमेऽगौ गोमेदमार्कौ सुनीलम् ।केतौ वैडूर्यं गुरौ पुष्पकं ज्ञे पाचिः प्राङ्माणिक्यमर्के तु मध्ये ॥९॥
- श्लोक 10कुंडली के 2 पठनमाणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं पुष्पकवज्रनीलम् ।गोमेदवैडूर्यकमर्कतः स्यू रत्नान्यथो ज्ञस्य मुदे सुवर्णम् ॥ १० ॥
- श्लोक 11कुंडली के 2 पठनधार्यं लाजावर्तकं राहुकेत्वो रौप्यं शुक्रेंद्वोश्च मुक्ता गुरोस्तु ।लोहं मंदस्यारभान्वोः प्रवालं ताराजन्मर्क्षात्त्रिरावृत्तितः स्यात् ११
- श्लोक 12कुंडली के 1 पठनजन्माख्यसंपद्विपदः क्षेमप्रत्यरिसाधकाः ।वधमैत्रातिमैत्राः स्युस्तारा नामसदृक्फलाः ॥ १२ ॥
- श्लोक 13कुंडली के 2 पठनमृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मस्वथोदद्यात्प्रत्यरितारकासु लवणं सर्वो विपत्प्रत्यरिः ।मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयेऽंशकानादिप्रांत्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः १३
- श्लोक 14कुंडली के 1 पठनषष्टि ६० घ्नं गतभं भुक्तघटीयुक्तं युगा ४ हतम् ।शराब्धि ४५ हृल्लब्धतोऽर्कशेषेऽवस्थाः क्रियाद्विधोः ॥१४॥
- श्लोक 15कुंडली के 1 पठनप्रवासनाशौ मरणं जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः ।ज्वराख्यकंपस्थिरता अवस्था मेषात्क्रमान्नामसदृक्फलाः स्युः १५
- श्लोक 16कुंडली के 2 पठनलाजाकुष्ठबलाप्रियंगुघनसिद्धार्थैर्निशादारुभिःपुंखालोध्रयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाघहृत् ।धेनुः कंब्वरुणो वृषश्च कनकं पीतांबरं घोटकःश्वेतो गौरसितामहासिरज इत्येता रवेर्दक्षिणाः ॥ १६ ॥
- श्लोक 17कुंडली के 1 पठनसूर्यारसौम्यास्फुजितोक्षनागसप्ताद्रिघस्रान्विधुरग्निनाडीः ।तमोयमेज्यास्त्रिरसाश्विमासान्गंतव्यराशेः फलदाः पुरस्तात् १७
- श्लोक 18कुंडली के 1 पठनदुष्टे योगे हेम चंद्रे च शंखं धान्यं तिथ्यर्धे तिथौ तंडुलांश्च ।वारे रत्नं भे च गां हेम नाड्यां दद्यात्सिंधूत्थं च तारासु राजा १८
- श्लोक 19कुंडली के 2 पठनराश्यादिगौ रविकुजौ फलदौ सितेज्यौमध्ये सदा शशिसुतश्चरमेऽब्जमंदौ ।अध्वान्नवह्निभयसन्मतिवस्त्रसौख्य-दुःखानि मासि जनिभे रविवासरादौ ॥ १९ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।