अध्याय 6: विवाहप्रकरणम्

मुहूर्त चिंतामणि · Muhurta Chintamani (Marriage (with the bride–groom matching, 6.21–36))

108 श्लोक

  1. श्लोक 1कुंडली के 1 पठनभार्या त्रिवर्गकरणं शुभशीलयुक्ताशीलं शुभं भवति लग्नवशेन तस्याः ।तस्माद्विवाहसमयः परिचिंत्यते हितन्निघ्नतामुपगताः सुतशीलधर्माः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 पठनआदौ संपूज्य रत्नादिभिरथ गणकं वेदयेत्स्वस्थचित्तंकन्योद्वाहं दिगीशानलहयविशिखे प्रश्नलग्नाद्यदींदुः ।दृष्टो जीवेन सद्यः परिणयनकरो गोतुलाकर्कटाख्यंवा स्यात्प्रश्नस्य लग्नं शुभखचरयुतालोकितं तद्विदध्यात् ॥ २ ॥
  3. श्लोक 3कुंडली के 1 पठनविषमभांशगतौ शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यतः ।रचयतो वरलाभमिमौ यदा युगलभांशगतौ युवतिप्रदौ ॥ ३ ॥
  4. श्लोक 4षष्ठाष्टस्थः प्रश्नलग्नाद्यदींदुर्लग्ने क्रूरः सप्तमे वा कुजः स्यात् ।मूर्ताविंदुः सप्तमे तस्य भौमो रंडा सा स्यादष्टसंवत्सरेण ॥ ४ ॥
  5. श्लोक 5प्रश्नतनोर्यदि पापनभोगः पंचमगो रिपुदृष्टशरीरः ।नीचगतश्च तदा खलु कन्या सा कुलटा त्वथवा मृतवत्सा ॥५॥
  6. श्लोक 6कुंडली के 1 पठनयदि भवति सितातिरिक्तपक्षे तनुगृहतः समराशिगः शशांकः ।अशुभखचरवीक्षितोऽरिरंध्रे भवति विवाहविनाशकारकोऽयम् ६
  7. श्लोक 7जन्मोत्थं च विलोक्य बालविधवायोगं विधाय व्रतंसावित्र्या उत पैप्पलं हि सुतया दद्यादिमां वा रहः ।सल्लग्नेऽच्युतमूर्तिपिप्पलघटैः कृत्वा विवाहं स्फुटंदद्यात्तां चिरजीविनेऽत्र न भवेद्दोषः पुनर्भूभवः ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 पठनप्रश्नलग्नक्षणे यादृशापत्ययुक्स्वेच्छया कामिनी तत्र चेदाव्रजेत् ।कन्यका वा सुतो वा तदा पंडितै-स्तादृशापत्यमस्या विनिर्दिश्यते ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 पठनशंखभेरीविपंचीरवैर्मंगलंजायते वैपरीत्यं तदा लक्षयेत् ।वायसो वा खरः श्वा शृगालोऽपि वाप्रश्नलग्नक्षणे रौति नादं यदि ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 पठनविश्वस्वातीवैष्णवपूर्वात्रयमैत्रै-र्वस्वाग्नेयैर्वा करपीडोचितऋक्षैः ।वस्त्रालंकारादिसमेतैः फलपुष्पैःसंतोष्यादौ स्यादनु कन्यावरणं हि ॥ १० ॥
  11. श्लोक 11कुंडली के 1 पठनधरणिदेवोऽथवा कन्यकासोदरःशुभदिने गीतवाद्यादिभिः संयुतः ।वरवृतिं वस्त्रयज्ञोपवीतादिनाध्रुवयुतैर्वह्निपूर्वात्रयैराचरेत् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 पठनगुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् ।रविशुद्धिवशाच्छुभो वराणामुभयोश्चंद्रविशुद्धितो विवाहः ॥१२॥
  13. श्लोक 13कुंडली के 1 पठनमिथुनकुंभमृगालिवृषाजगे मिथुनगेऽपि रवौ त्रिलवे शुचेः ।अलिमृगाजगते करपीडनं भवति कार्तिकपौषमधुष्वपि ॥१३॥
  14. श्लोक 14कुंडली के 1 पठनआद्यगर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः ।नोचितोऽथ विबुधैः प्रशस्यते चेद्द्वितीयजनुषोः सुतप्रदः ॥१४॥
  15. श्लोक 15कुंडली के 1 पठनज्येष्ठद्वंद्वं मध्यमं संप्रदिष्टं त्रिज्येष्ठं चेन्नैव युक्तं कदापि ।केचित्सूर्यं वह्निगं प्रोह्य चाहुर्नैवान्योन्यं ज्येष्ठयोः स्याद्विवाहः १५
  16. श्लोक 16कुंडली के 1 पठनसुतपरिणयात्षण्मासांतः सुताकरपीडनंन च निजकुले तद्वद्वा मंडनादपि मुंडनम् ।न च सहजयोर्देये भ्रात्रोः सहोदरकन्यकेन सहजसुतोद्वाहोऽब्दार्धे शुभे न पितृक्रिया ॥१६॥
  17. श्लोक 17वध्वा वरस्यापि कुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम् ।मासोत्तरं तत्र विवाह इष्यते शांत्याथवा सूतकनिर्गमे परैः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 पठनचूडा व्रतं चापि विवाहतो व्रताच्चूडा च नेष्टा पुरुषत्रयांतरे ।वधूप्रवेशाच्च सुताविनिर्गमः षण्मासतो वाब्दविभेदतः शुभः १८
  19. श्लोक 19श्वश्रूविनाशमहिजौ सुतरां विधत्तःकन्यासुतौ निर्ऋतिजौ श्वशुरं हतश्च ।ज्येष्ठाभजाततनया स्वधवाग्रजं चशक्राग्निजा भवति देवरनाशकर्त्री ॥ १९ ॥
  20. श्लोक 20द्वीशाद्यपादत्रयजा कन्या देवरसौख्यदा ।मूलांत्यपादसार्पाद्यपादजौ तौ तयोः शुभौ ॥ २० ॥
  21. श्लोक 21कुंडली के 1 पठनवर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् ।गणमैत्रं भकूटं च नाडी चैते गुणाधिकाः ॥ २१ ॥
  22. श्लोक 22कुंडली के 1 पठनद्विजा झषालिकर्कटास्ततो नृपा विशोऽङ्घ्रिजाः ।वरस्य वर्णतोऽधिका वधूर्न शस्यते बुधैः ॥ २२ ॥
  23. श्लोक 23कुंडली के 1 पठनहित्वा मृगेंद्रं नरराशिवश्याः सर्वे तथैषां जलजास्तु भक्ष्याः ।सर्वेऽपि सिंहस्य वशे विनालिं ज्ञेयं नराणां व्यवहारतोऽन्यत् २३
  24. श्लोक 24कुंडली के 1 पठनकन्यर्क्षाद्वरभं यावत्कन्याभं वरभादपि ।गणयेन्नवहृच्छेषे त्रीष्वद्रिभमसत्स्मृतम् ॥ २४ ॥
  25. श्लोक 25कुंडली के 1 पठनअश्विन्यंबुपयोर्हयो निगदितः स्वात्यर्कयोः कासरःसिंहो वस्वजपाद्भयोः समुदितो याम्यांत्ययोः कुंजरः ।मेषो देवपुरोहितानलभयोः कर्णांबुनोर्वानरःस्याद्वैश्वाभिजितोस्तथैव नकुलश्चांद्राब्जयोन्योरहिः ॥ २५ ॥
  26. श्लोक 26कुंडली के 1 पठनज्येष्ठामैत्रभयोः कुरंग उदितो मूलार्द्रयोः श्वा तथामार्जारोऽदितिसार्पयोरथ मघायोन्योस्तथैवोंदुरुः ।व्याघ्रो द्वीशभचित्रयोरपि च गौरार्यम्णबुध्न्यर्क्षयो-र्योनिः पादगयोः परस्परमहावैरं भयोन्योर्भवेत् ॥ २६ ॥
  27. श्लोक 27कुंडली के 1 पठनमित्राणि द्युमणेः कुजेज्यशशिनः शुक्रार्कजौ वैरिणौसौम्यश्चास्य समो विधोर्बुधरवी मित्रे न चास्य द्विषन् ।शेषाश्चास्य समाः कुजस्य सुहृदश्चंद्रेज्यसूर्या बुधःशत्रुः शुक्रशनी समौ च शशभृत्सूनोः सिताहस्करौ ॥२७॥
  28. श्लोक 28कुंडली के 1 पठनमित्रे चास्य रिपुः शशी गुरुशनिक्ष्माजाः समा गीष्पते-र्मित्राण्यर्ककुजेंदवो बुधसितौ शत्रू समः सूर्यजः ।मित्रे सौम्यशनी कवेः शशिरवी शत्रू कुजेज्यौ समौमित्रे शुक्रबुधौ शनेः शशिरविक्ष्माजाः परेऽन्यः समः ॥ २८ ॥
  29. श्लोक 29कुंडली के 1 पठनरक्षोनरामरगणाः क्रमतो मघाहि-वास्विंद्रमूलवरुणानलतक्षराधाः ।पूर्वोत्तरात्रयविधातृयमेशभानिमैत्रादितींदुहरिपौष्णमरुल्लघूनि ॥ २९ ॥
  30. श्लोक 30कुंडली के 1 पठननिजनिजगणमध्ये प्रीतिरत्युत्तमा स्या-दमरमनुजयोः सा मध्यमा संप्रदिष्टा ।असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टोदनुजविबुधयोः स्याद्वैरमेकांततोऽत्र ॥ ३० ॥
  31. श्लोक 31कुंडली के 1 पठनमृत्युः षट्काष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे ।द्विर्द्वादशे निर्धनत्वं द्वयोरन्यत्र सौख्यकृत् ॥ ३१ ॥
  32. श्लोक 32कुंडली के 3 पठनप्रोक्ते दुष्टभकूटके परिणयस्त्वेकाधिपत्ये शुभो-ऽथो राशीश्वरसौहृदेऽपि गदितो नाड्यृक्षशुद्धिर्यदि ।अन्यर्क्षेऽंशपयोर्बलित्वसखिते नाड्यृक्षशुद्धौ तथाताराशुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः ॥ ३२ ॥
  33. श्लोक 33कुंडली के 2 पठनमैत्र्यां राशिस्वामिनोरंशनाथद्वंद्वस्यापि स्याद्गणानां न दोषः ।खेटारित्वं नाशयेत्सद्भकूटं खेटप्रीतिश्चापि दुष्टं भकूटम् ॥ ३३ ॥
  34. श्लोक 34कुंडली के 1 पठनज्येष्ठार्यम्णेशनीराधिपभयुगयुगं दास्रभं चैकनाडीपुष्येंदुत्वाष्ट्रमित्रांतकवसुजलभं योनिबुध्न्ये च मध्या ।वाय्वग्निव्यालविश्वोडुयुगयुगमथो पौष्णभं चापरा स्या-द्दंपत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः ॥३४॥
  35. श्लोक 35कुंडली के 1 पठनअकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् ।सर्पाखुमृगावीनां निजपंचमवैरिणामष्टौ ॥ ३५ ॥
  36. श्लोक 36कुंडली के 2 पठनराश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव ।नाडीदोषो नो गणानां च दोषो नक्षत्रैक्ये पादभेदे शुभं स्यात् ३६
  37. श्लोक 37कुंडली के 1 पठनकुजशुक्रसौम्यशशिसूर्यचंद्रजाः कविभौमजीवशनिसौरयो गुरुः ।इह राशिपाः क्रियमृगास्यतौलिकेंदुभतो नवांशविधिरुच्यते बुधैः ॥
  38. श्लोक 38कुंडली के 1 पठनसमगृहमध्ये शशिरविहोरा ।विषमभमध्ये रविशशिनोः सा ॥ ३८ ॥
  39. श्लोक 39कुंडली के 1 पठनशुक्रज्ञजीवशनिभूतनयस्य बाण-शैलाष्टपंचविशिखाः समराशिमध्ये ।त्रिंशांशको विषमभे विपरीतमस्मा-द्रेष्काणकाः प्रथमपंचनवाधिपानाम् ॥ ३९ ॥
  40. श्लोक 40कुंडली के 1 पठनस्याद्द्वादशांश इह राशित एव गेहंहोराथ दृक्कनवमांशकसूर्यभागाः ।त्रिंशांशकश्च षडिमे कथितास्तु वर्गाःसौम्यैः शुभं भवति चाशुभमेव पापैः ॥ ४० ॥
  41. श्लोक 41कुंडली के 1 पठनज्येष्ठापौष्णभसार्पभांत्यघटिकायुग्मं च मूलाश्विनी-पित्र्यादौ घटिकाद्वयं निगदितं तद्भस्य गंडांतकम् ।कर्काल्यंडजभांततोऽर्धघटिका सिंहाश्वमेषादिगा-पूर्णांते घटिकात्मकं त्वशुभदं नंदातिथेश्चादिगम् ॥ ४१ ॥
  42. श्लोक 42कुंडली के 1 पठनलग्नात्पापावृज्वनृजू व्ययार्थस्थौ यदा तदा ।कर्तरी नाम सा ज्ञेया मृत्युदारिद्र्यशोकदा ॥ ४२ ॥
  43. श्लोक 43कुंडली के 1 पठनचंद्रे सूर्यादिसंयुक्ते दारिद्र्यं मरणं शुभम् ।सौख्यं सापत्न्यं वैराग्यं पापद्वययुते मृतिः ॥ ४३ ॥
  44. श्लोक 44कुंडली के 1 पठनजन्मलग्नभयोर्मृत्युराशौ नेष्टः करग्रहः ।एकाधिपत्ये राशीशे मैत्रे वा नैव दोषकृत् ॥ ४४ ॥
  45. श्लोक 45कुंडली के 1 पठनमीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेहदोषकृत् ।अन्योन्यमित्रत्ववशेन सा वधूर्भवेत्सुतायुर्गृहसौख्यभागिनी ४५
  46. श्लोक 46कुंडली के 1 पठनमृतिभवनांशो यदि च विलग्ने तदधिपतिर्वा न शुभकरः स्यात् ।व्ययभवनं वा भवति तदंशस्तदधिपतिर्वा कलहकरः स्यात् ४६
  47. श्लोक 47कुंडली के 1 पठनखरामतों ३० ऽत्यादितिवह्निपित्र्यभेखवेदतः ४० के रदत ३२ श्च सार्पभे ।खबाणतो ५० श्वे धृतितो १८ ऽर्यमांबुपेकृते २० र्भगत्वाष्ट्रभविश्वजीवभे ॥ ४७ ॥
  48. श्लोक 48कुंडली के 1 पठनमनो १४ र्द्विदैवानिलसौम्यशाक्रभेकुपक्षतः २१ शैवकरेऽष्टितो १६ ऽजभे ।युगाश्वितो २४ बुध्न्यभतोययाम्यभेखचंद्रतो १० मित्रभवासवश्रुतौ ॥ ४८ ॥
  49. श्लोक 49कुंडली के 1 पठनमूलेऽङ्गबाणा ५६ द्विषनाडिकाः कृतावर्ज्याः शुभेऽथो विषनाडिका ध्रुवाः ।निघ्ना भभोगेन खतर्क ६० भाजिताःस्फुटा भवेयुर्विषनाडिकास्तथा ॥ ४९ ॥
  50. श्लोक 50कुंडली के 1 पठनगिरिशभुजगमित्राः पित्र्यवस्वंबुविश्वे-ऽभिजिदथ च विधातापींद्र इंद्रानलौ च ।निर्ऋतिरुदकनाथोऽप्यर्यमाथो भगः स्युःक्रमश इह मुहूर्ता वासरे बाणचंद्राः ॥ ५० ॥
  51. श्लोक 51कुंडली के 1 पठनशिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवकौ ।विष्ण्वर्कत्वष्ट्रमरुतो मुहूर्ता निशि कीर्तिताः ॥ ५१ ॥
  52. श्लोक 52कुंडली के 1 पठनरवावर्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चाभिजित्स्यात् ।गुरौ तोयरक्षौ भृगौ ब्राह्मपित्र्ये शनावीशसार्पौ मुहूर्ता निषिद्धाः ॥
  53. श्लोक 53कुंडली के 1 पठननिर्वेधैः शशिकरमूलमैत्र्यपित्र्य-ब्राह्मांत्योत्तरपवनैः शुभो विवाहः ।रिक्तामारहिततिथौ शुभेऽह्नि वैश्व-प्रांत्यांघ्रिश्रुतितिथिभागतोऽभिजित्स्यात् ॥ ५३ ॥
  54. श्लोक 54कुंडली के 1 पठनवेधोऽन्योन्यमसौ विरिंच्यभिजितोर्याम्यानुराधर्क्षयो-र्विश्वेंद्वोर्हरिपित्र्ययोर्ग्रहकृतो हस्तोत्तराभाद्रयोः ।स्वातीवारुणयोर्भवेन्निर्ऋतिभादित्योस्तथोपांत्ययोःखेटे तत्र गते तुरीयचरणाद्योर्वा तृतीयद्वयोः ॥ ५४ ॥
  55. श्लोक 55कुंडली के 1 पठनशाक्रेज्ये शतभानिले जलशिवे पौष्णार्यमर्क्षे वसु-द्वीशे वैश्वसुधांशुभे हयभगे सार्पानुराधे तथा ।हस्तोपांतिमभे विधातृविधिभे मूलादिती त्वष्ट्रभा-जांघ्री याम्यमघे कृशानुहरिभे विद्धेऽद्रिरेखे मिथः ॥५५॥
  56. श्लोक 56कुंडली के 1 पठनऋक्षाणि क्रूरविद्धानि क्रूरमुक्तादिकानि च ।भुक्त्वा चंद्रेण मुक्तानि शुभार्हाणि प्रचक्षते ॥ ५६ ॥
  57. श्लोक 57कुंडली के 1 पठनज्ञराहुपूर्णेंदुसिताः स्वपृष्ठे भं सप्तगोजातिशरैर्मितं हि ।संलत्तयंतेऽर्कशनीज्यभौमाः सूर्याष्टतर्काग्निमितं पुरस्तात् ॥ ५७ ॥
  58. श्लोक 58कुंडली के 1 पठनहर्षणवैधृतिसाध्यव्यतिपातकगंडशूलयोगानाम् ।अंते यन्नक्षत्रं पातेन निपातितं तत्स्यात् ॥ ५८ ॥
  59. श्लोक 59कुंडली के 1 पठनपंचास्याजौ गोमृगौ तौलिकुंभौ कन्यामीनौ कर्क्यली चापयुग्मे ।तत्रान्योन्यं चंद्रभान्वोर्निरुक्तं क्रांतेः साम्यं नो शुभं मंगलेषु ५९
  60. श्लोक 60कुंडली के 1 पठनव्याघातगंडव्यतिपातपूर्वशूलांत्यवज्रे परिघातिगंडे ।एकार्गलाख्यो ह्यभिजित्समेतो दोषः शशी चेद्विषमर्क्षगोऽर्कात् ६०
  61. श्लोक 61कुंडली के 1 पठनशराष्टदिक्शक्रनगातिधृत्यस्तिथिर्धृतिश्च प्रकृतेश्च पंच ।उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबाह्लिकानाम् ६१
  62. श्लोक 62कुंडली के 1 पठनपातोपग्रहलत्तासु नेष्टोंऽघ्रिः खेटपत्समः ।वारस्त्रिघ्नोऽष्टभिस्तष्टः सैकः स्यादर्धयामकः ॥ ६२ ॥
  63. श्लोक 63कुंडली के 1 पठनशक्रार्कदिग्वसुरसाब्ध्यश्विनः कुलिका रवेः ।रात्रौ निरेकास्तिथ्यंशाः शनौ चांत्योऽपि निंदिताः ॥ ६३ ॥
  64. श्लोक 64कुंडली के 1 पठनचापांत्यगे गोघटगे पतंगे कर्काजगे स्त्रीमिथुनस्थिते च ।सिंहालिगे नक्रधटे समाः स्युस्तिथ्यो द्वितीयाप्रमुखाश्च दग्धाः ६४
  65. श्लोक 65कुंडली के 1 पठनलग्नाच्चंद्रान्मदनभवनगे खेटे न स्यादिह परिणयनम् ।किंवा बाणाशुगमितलवगे जामित्रं स्यादशुभकरमिदम् ॥ ६५ ॥
  66. श्लोक 66कुंडली के 1 पठनएकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयास्तदोषाः ।नश्यंति चंद्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा ॥ ६६ ॥
  67. श्लोक 67कुंडली के 1 पठनउपग्रहर्क्षं कुरुबाह्लिकेषु कलिंगवंगेषु च पातितं भम् ।सौराष्ट्रशाल्वेषु च लत्तितं भं त्यजेत्तु विद्धं किल सर्वदेशे ॥ ६७ ॥
  68. श्लोक 68कुंडली के 1 पठनशशांकसूर्यर्क्षयुतेर्भशेषे खभूयुगांगानि दशेशतिथ्यः ।नागेंद्वोर्केंदुमिता नखाश्चेद्भवंति चैते दशयोगसंज्ञाः ॥ ६८ ॥
  69. श्लोक 69कुंडली के 1 पठनवाताभ्राग्निमहीपचोरमरणं रुग्वज्रवादाः क्षति-र्योगांके दलिते समे मनुयुतेऽथौजे तु सैकेऽर्धिते ।भं दास्रादथ संमितास्तु मनुभी रेखाः क्रमात्संलिखे-द्वेधोऽस्मिन्ग्रहचंद्रयोर्न शुभदः स्यादेकरेखास्थयोः ॥ ६९ ॥
  70. श्लोक 70कुंडली के 1 पठनलग्नेनाढ्या याततिथ्योंऽकतष्टाः शेषे नागद्व्यब्धितर्केंदुसंख्ये ।रोगो वह्नी राजचौरौ च मृत्युर्बाणश्चायं दाक्षिणात्यप्रसिद्धः ७०
  71. श्लोक 71कुंडली के 1 पठनरसगुणशशिनागाब्ध्याढ्यसंक्रांतियातां-शकमिति रथतष्टांकैर्यदा पंच शेषाः ।रुगनलनृपचौरा मृत्युसंज्ञश्च बाणोनवहृतशरशेषे शेषकैक्ये सशल्यः ॥ ७१ ॥
  72. श्लोक 72कुंडली के 1 पठनरात्रौ चौररुजौ दिवाऽग्निनृपती त्याज्यौ सदा संध्ययो-र्मृत्युश्चाथ शनौ नृपो विदि मृतिर्भौमेऽग्निचौरौ रवौ ।रोगोऽथ व्रतगेहगोपनृपसेवायानपाणिग्रहेवर्ज्याश्च क्रमतो बुधे रुगनलक्ष्मापालचौरा मृतिः ॥ ७२ ॥
  73. श्लोक 73कुंडली के 1 पठनत्र्याशं त्रिकोणं चतुरस्रमस्तं पश्यंति खेटाश्चरणाभिवृद्ध्या ।मंदो गुरुर्भूमिसुतः परे च क्रमेण संपूर्णदृशो भवंति ॥ ७३ ॥
  74. श्लोक 74कुंडली के 1 पठनयदा लग्नांशेशो लवमथ तनुं पश्यति युतोभवेद्वायं वोढुः शुभफलमनल्पं रचयति ।लवद्यूनस्वामी लवमदनभं लग्नमदनंप्रपश्येद्वा वध्वाः शुभमितरथा ज्ञेयमशुभम् ॥ ७४ ॥
  75. श्लोक 75कुंडली के 1 पठनलवेशो लवं लग्नपो लग्नगेहंप्रपश्येन्मिथो वा शुभं स्याद्वरस्य ।लवद्यूनपोंऽशद्युनं द्यूनपोऽस्तंमिथोऽवेक्षते स्याच्छुभं कन्यकायाः ॥ ७५ ॥
  76. श्लोक 76कुंडली के 1 पठनलवपतिशुभमित्रं वीक्षतेंऽशं तनुं वापरिणयनकरस्य स्याच्छुभं शास्त्रदृष्टम् ।मदनलवपमित्रं सौम्यमंशद्युनं वातनुमदनगृहं चेद्वीक्षते शर्म वध्वाः ॥ ७६ ॥
  77. श्लोक 77कुंडली के 1 पठनविषुवायनेषु परपूर्वमध्यमान्दिवसांस्त्यजेदितरसंक्रमेषु हि ।घटिकास्तु षोडश शुभक्रियाविधौ परतोऽपि पूर्वमपि संत्यजेद्बुधः ॥
  78. श्लोक 78कुंडली के 1 पठनदेवद्व्यंकर्तवोऽष्टाष्टौ नाड्योंऽकाः खनृपाः क्रमात् ।वर्ज्याः संक्रमणेऽर्कादेः प्रायोऽर्कस्यातिनिंदिताः ॥ ७८ ॥
  79. श्लोक 79कुंडली के 1 पठनघस्रे तुलाली बधिरौ मृगाश्वौ रात्रौ च सिंहाजवृषा दिवांधाः ।कन्यानृयुक्कर्कटका निशांधा दिने घटोऽन्त्यो निशि पंगुसंज्ञः ॥ ७९ ॥
  80. श्लोक 80कुंडली के 1 पठनबधिरा धन्वितुलालयोऽपराह्णे मिथुनं कर्कटकोंऽगना निशांधाः ।दिवसांधा हरिगोक्रियास्तु कुब्जा मृगकुंभांतिमभानि संध्ययोर्हि ॥
  81. श्लोक 81कुंडली के 1 पठनदारिद्र्यं बधिरतनौ दिवांधलग्ने वैधव्यं शिशुमरणं निशांधलग्ने ।पंग्वंगे निखिलधनानि नाशमीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः ॥
  82. श्लोक 82कार्मुकतौलिककन्यायुग्मलवे झषगे वा ।यर्हि भवेदुपयामस्तर्हि सती खलु कन्या ॥ ८२ ॥
  83. श्लोक 83कुंडली के 1 पठनअंत्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा ।नो चरलग्ने चरलवयोगं तौलिमृगस्थे शशभृति कुर्यात् ॥ ८३ ॥
  84. श्लोक 84कुंडली के 1 पठनव्यये शनिः खेऽवनिजस्तृतीये भृगुस्तनौ चंद्रखला न शस्ताः ।लग्नेट्कविर्ग्लौश्च रिपौ मृतौ ग्लौर्लग्नेट्शुभाराश्च मदे च सर्वे ८४
  85. श्लोक 85कुंडली के 1 पठनत्र्यायाष्टषट्सु रविकेतुतमोर्कपुत्रा-स्त्र्यायारिगः क्षितिसुतो द्विगुणायगोऽब्जः ।सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्ट-त्रिद्यूनषड्व्ययगृहान्परिहृत्य शस्तः ॥ ८५ ॥
  86. श्लोक 86कुंडली के 1 पठनपापौ कर्तरिकारकौ रिपुगृहे नीचेऽस्तगौ कर्तरी-दोषो नैव सितेऽरिनीचगृहगे तत्षष्ठदोषोऽपि न ।भौमेऽस्ते रिपुनीचगे न हि भवेद्भौमोऽष्टमो दोषकृ-न्नीचे नीचनवांशके शशिनि रिःफाष्टारिदोषोऽपि न ॥ ८६ ॥
  87. श्लोक 87कुंडली के 1 पठनअब्दायनर्तुतिथिमासभपक्षदग्ध-तिथ्यंधकाणबधिरांगमुखाश्च दोषाः ।नश्यंति विद्गुरुसितेष्विह केंद्रकोणेतद्वच्च पापविधुयुक्तनवांशदोषः ॥ ८७ ॥
  88. श्लोक 88कुंडली के 1 पठनकेंद्रे कोणे जीव आये रवौ वा लग्ने चंद्रे वापि वर्गोत्तमे वा ।सर्वे दोषा नाशमायांति चंद्रे लाभे तद्वद्दुर्मुहूर्तांशदोषाः ॥ ८८ ॥
  89. श्लोक 89कुंडली के 1 पठनत्रिकोणे केंद्रे वा मदनरहिते दोषशतकंहरेत्सौम्यः शुक्रो द्विगुणमपि लक्षं सुरगुरुः ।भवेदाये केंद्रेऽङ्गप उत लवेशो यदि तदासमूहं दोषाणां दहन इव तूलं शमयति ॥ ८९ ॥
  90. श्लोक 90कुंडली के 1 पठनद्वौ द्वौ ज्ञभृग्वोः पंचेंदौ रवौ सार्धत्रयो गुरौ ।रामा मंदागुकेत्वारे सार्धैकैकं विशोपकाः ॥ ९० ॥
  91. श्लोक 91कुंडली के 1 पठनश्वश्रूः सितोऽर्कः श्वशुरस्तनुस्तनुर्जामित्रपः स्याद्दयितो मनः शशी ।एतद्बलं संप्रतिभाव्य तांत्रिकस्तेषां सुखं संप्रवदेद्विवाहतः ॥ ९१ ॥
  92. श्लोक 92कृष्णे पक्षे सौरिकुजार्केऽपि च वारेवर्ज्ये नक्षत्रे यदि वा स्यात्करपीडा ।संकीर्णानां तर्हि सुतायुर्धनलाभ-प्रीतिप्राप्त्यै सा भवतीह स्थितिरेषा ॥ ९२ ॥
  93. श्लोक 93कुंडली के 1 पठनगांधर्वादिविवाहेऽर्काद्वेद४नेत्र२गुणें३दवः १ ।कु१युगां४गा६ग्नि३भू१रामा३स्त्रिपद्यामशुभाः शुभाः ॥ ९३ ॥
  94. श्लोक 94कुंडली के 1 पठनविधोर्बलमवीक्ष्य वा दलनकंडनं वारकंगृहांगणविभूषणान्यथ च वेदिकामंडपान् ।विवाहविहितोडुभिर्विरचयेत्तथोद्वाहतोन पूर्वमिदमाचरेत्रिनवषण्मिते वासरे ॥ ९४ ॥
  95. श्लोक 95कुंडली के 1 पठनहस्तोच्छ्राया वेदहस्तैः समंतात्तुल्या वेदी सद्मनो वामभागे ।युग्मे घस्रे षष्ठहीने च पंच सप्ताहे स्यान्मंडपोद्वासनं सत् ॥ ९५ ॥
  96. श्लोक 96कुंडली के 1 पठनसूर्येंऽगनासिंहघटेषु शैवे स्तंभोऽलिकोदंडमृगेषु वायौ ।मीनाजकुंभे निर्ऋतौ विवाहे स्थाप्योऽग्निकोणे वृषयुग्मकर्के ॥ ९६ ॥
  97. श्लोक 97कुंडली के 1 पठननास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिंतानो वा वारो न च लवविधिर्नो मुहूर्तस्य चर्चा ।नो वा योगो न मृतिभवनं नैव जामित्रदोषोगोधूलिः सा मुनिभिरुदिता सर्वकार्येषु शस्ता ॥ ९७ ॥
  98. श्लोक 98कुंडली के 1 पठनपिंडीभूते दिनकृति हेमंतर्तौ स्यादर्धास्ते तपसमये गोधूलिः ।संपूर्णास्ते जलधरमालाकाले त्रेधा योज्या सकलशुभाख्ये कार्ये ॥
  99. श्लोक 99कुंडली के 1 पठनअस्तं याते गुरुदिवसे सौरे सार्केलग्नान्मृत्यौ रिपुभवने लग्ने वेंदौ ।कन्यानाशस्तनुमदमृत्युस्थे भौमेवोढुर्लाभे धनसहजे चंद्रे सौख्यम् ॥ ९९ ॥
  100. श्लोक 100कुंडली के 1 पठनमेषादिगेऽर्केऽष्टशरा ५८ नगाक्षाः ५७सप्तेषवः ५७ सप्तशरा ५७ गजाक्षाः ५८ ।गोक्षाः ५९ खतर्काः ६० कुरसाः ६१ कुतर्काः ६१कंगानि ६१ षष्टि ६० र्नवपंच ५९ भुक्तिः ॥ १०० ॥
  101. श्लोक 101कुंडली के 1 पठनसंक्रांतियातघस्राद्यैर्गतिर्निघ्नी खषट् ६० हृता ।लब्धेनांशादिना योज्यं यातर्क्षं स्पष्टभास्करः ॥ १०१ ॥
  102. श्लोक 102कुंडली के 1 पठनतनोरिष्टांशकात्पूर्वं नवांशा दशसंगुणाः ।रामाप्ता लब्धमंशाद्यं तनोर्वर्गादिसाधने ॥ १०२ ॥
  103. श्लोक 103कुंडली के 1 पठनअर्काल्लग्नात्सायनाद्भोग्यभुक्तैर्भागैर्निघ्नात्स्वोदयात्खाग्निभक्तात् ।भोग्यं भुक्तं चांतरालोदयाढ्यं षष्ट्या भक्तं स्वेष्टनाड्यो भवेयुः ॥
  104. श्लोक 104कुंडली के 1 पठनचेल्लग्नार्कौ सायनावेकराशौ तद्विश्लेषघ्नोदयः खाग्निभक्तः ।स्वेष्टः कालो लग्नमूनं यदार्काद्रात्रेः शेषोऽर्कात्सषड्भान्निशायाम् ॥
  105. श्लोक 105कुंडली के 1 पठनउत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथाचंद्रेज्योशनसामथास्तमयनं तिथ्याः क्षयर्द्धी तथा ।गंडांतं च सविष्टिसंक्रमदिनं तन्वंशपास्तं तथातन्वंशेशविधूनथाष्टरिपुगान्पापस्य वर्गांस्तथा ॥ १०५ ॥
  106. श्लोक 106कुंडली के 1 पठनसेंदुक्रूरखगोदयांशमुदयास्ताशुद्धिचंडायुधा-न्खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् ।वाणोपग्रहपापकर्तरि तथा तिथ्यृक्षवारोत्थितंदुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ॥ १०६ ॥
  107. श्लोक 107कुंडली के 1 पठनक्रूराक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभंत्रेधोत्पातहतं च केतुहतभं संध्योदितं भं तथा ।तद्वच्च ग्रहभिन्नयुद्धगतभं सर्वानिमान्संत्यजे-दुद्वाहे शुभकर्मसु ग्रहकृताँल्लग्नस्य दोषानपि ॥ १०७ ॥
  108. श्लोक 108कुंडली के 1 पठनमेषादिराशिजवधूवरयोर्बटोश्चतैलादिलापनविधौ कथितात्र संख्या ।शैलादिशःशरदिगक्षनगाद्रिबाणा-बाणाक्षबाणगिरयो विबुधैस्तु कैश्चित् ॥ १०८ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।