अध्याय 1: राशिप्रभेदाध्यायः
बृहज्जातक · Brihat Jataka, chapter 1 (The signs and their divisions)
20 श्लोक
- श्लोक 1कुंडली के 1 नियममूर्तित्वे परिकल्पितः शशभृतो वर्त्माऽपुनर्जन्मना-मात्मेत्यात्मविदां क्रतुश्च यजतां भर्तामरज्योतिषाम् ।लोकानां प्रलयोद्भवस्थितिविभुश्चानेकधा यः श्रुतौवाचं नः स ददात्वनेककिरणस्त्रैलोक्यदीपो रविः ॥ १ ॥
- श्लोक 2कुंडली के 1 नियमभूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तयेशब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वपि ।होरातन्त्रमहार्णवप्रतरणे भग्नोद्यमानामहंस्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे ॥ २ ॥
- श्लोक 3कुंडली के 1 नियमहोरेत्यहोरात्रविकल्पमेके वाञ्छन्ति पूर्वापरवर्णलोपात् ।कर्मार्जितं पूर्वभवे सदादि यत्तस्य पक्तिं समभिव्यनक्ति ॥ ३ ॥
- श्लोक 4कुंडली के 1 नियमकालाङ्गानि वराङ्गमाननमुरो हृत्क्रोडवासोभृतोवस्तिर्व्यञ्जनमूरुजानुयुगले जङ्घे ततोऽङ्घ्रिद्वयम् ।मेषाश्विप्रथमा नवर्क्षचरणाश्चक्रस्थिता राशयोराशिक्षेत्रगृहर्क्षभानि भवनं चैकार्थसम्प्रत्ययाः ॥ ४ ॥
- श्लोक 5कुंडली के 1 नियममत्स्यौ घटी नृमिथुनं सगदं सवीणंचापी नरोऽश्वजघनो मकरो मृगास्यः ।तौली ससस्यदहना प्लवगा च कन्याशेषाः स्वनामसदृशाः स्वचराश्च सर्वे ॥ ५ ॥
- श्लोक 6कुंडली के 1 नियमक्षितिजसितज्ञचन्द्ररविसौम्यसितावनिजाःसुरगुरुमन्दसौरिगुरवश्च गृहांशकपाः ।अजमृगतौलिचन्द्रभवनादिनवांशविधि-र्भवनसमांशकाधिपतयः स्वगृहात् क्रमशः ॥ ६ ॥
- श्लोक 7कुंडली के 1 नियमकुजरविजगुरुज्ञशुक्रभागाःपवनसमीरणकौर्पिजूकलेयाः ।अयुजि युजि तु भे विपर्ययस्थाःशशिभवनालिझषान्तमृक्षसन्धिः ॥ ७ ॥
- श्लोक 8कुंडली के 1 नियमक्रियताबुरिजितुमकुलीरलेयपाथोनजूककौर्प्याख्याः ।तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम् ॥ ८ ॥
- श्लोक 9कुंडली के 1 नियमदृक्काणहोरानवभागसंज्ञास्त्रिंशांशकद्वादशसंज्ञिताश्च ।क्षेत्रं च यद्यस्य स तस्य वर्गो होरेति लग्नं भवनस्य चार्द्धम् ॥ ९ ॥
- श्लोक 10कुंडली के 1 नियमगोऽजाश्विकर्किमिथुनाः समृगा निशाख्याःपृष्ठोदया विमिथुनाः कथितास्त एव ।शीर्षोदया दिनबलाश्च भवन्ति शेषालग्नं समेत्युभयतः पृथुरोमयुग्मम् ॥ १० ॥
- श्लोक 11कुंडली के 1 नियमक्रूरः सौम्यः पुरुषवनिते ते चरागद्विदेहाःप्रागादीशाः क्रियवृषनृयुक्कर्कटाः सत्रिकोणाः ।मार्तण्डेन्द्वोरयुजि समभे चन्द्रभान्वोश्च होरेदृक्काणाः स्युः स्वभवनसुतत्रित्रिकोणाधिपानाम् ॥ ११ ॥
- श्लोक 12कुंडली के 1 नियमकेचित्तु होरां प्रथमां भपस्य वाञ्छन्ति लाभाधिपतेर्द्वितीयाम् ।द्रेक्काणसंज्ञामपि वर्णयन्ति स्वद्वादशैकादशराशिपानाम् ॥ १२ ॥
- श्लोक 13कुंडली के 1 नियमअजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः ।दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः ॥ १३ ॥
- श्लोक 14कुंडली के 1 नियमवर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यन्ततः शुभफला नवभागसंज्ञाः ।सिंहो वृषः प्रथमषष्ठहयाङ्गतौलिकुम्भास्त्रिकोणभवनानि भवन्ति सूर्यात् ॥ १४ ॥
- श्लोक 15कुंडली के 1 नियमहोरादयस्तनुकुटुम्बसहोत्थवन्धुपुत्रारिपत्निमरणानि शुभास्पदायाः ।रिःफाख्यमित्युपचयान्यरिकर्मलाभदुश्चिक्यसञ्ज्ञितगृहाणि न नित्यमेके ॥ १५ ॥
- श्लोक 16कुंडली के 1 नियमकल्पस्वविक्रमगृहप्रतिभाक्षतानि चित्तोत्थरन्ध्रगुरुमानभवव्ययानि ।लग्नाच्चतुर्थनिधने चतुरस्रसञ्ज्ञे द्यूनं च सप्तमगृहं दशमर्क्षमाज्ञा ॥ १६ ॥
- श्लोक 17कुंडली के 1 नियमकण्टककेन्द्रचतुष्टयसंज्ञाः सप्तमलग्नचतुर्थखभानाम् ।तेषु यथाभिहितेषु वलाढ्याः कीटनराम्बुचराः पशवश्च ॥ १७ ॥
- श्लोक 18कुंडली के 1 नियमकेन्द्रात्परं पणफरं परतश्च सर्वमापोक्लिमं हिबुकमम्बु सुखं च वेश्म ।जामित्रमस्तभवनं सुतभं त्रिकोणं मेषूरणं दशममत्र च कर्म विद्यात् ॥ १८ ॥
- श्लोक 19कुंडली के 1 नियमहोरा स्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्योत्कटाकेन्द्रस्था द्विपदादयोऽह्नि निशि च प्राप्ते च संध्याद्वये ।पूर्वार्द्धे विषयादयः कृतगुणा मानं प्रतीपं च तद्दुश्चिक्यं सहजं तपश्च नवमं त्र्याद्यं त्रिकोणं च तत् ॥ १९ ॥
- श्लोक 20कुंडली के 1 नियमरक्तः श्वेतः शुकतनुनिभः पाटलो धूम्रपाण्डु-श्चित्रः कृष्णः कनकसदृशः पिङ्गलः कर्बुरश्च ।बभ्रुः स्वच्छः प्रथमभवनाद्येषु वर्णाः प्लवत्वंस्वाम्याशाख्यं दिनकरयुताद्भाद्द्वितीयं च वेशिः ॥ २० ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।