अध्याय 2: ग्रहयोनिप्रभेदाध्यायः

बृहज्जातक · Brihat Jataka, chapter 2 (The planets: natures, bodies, friendships and strengths)

21 श्लोक

  1. श्लोक 1कुंडली के 1 नियमकालात्मा दिनकृन्मनस्तुहिनगुः सत्त्वं कुजो ज्ञो वचोजीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ।राजानौ रविशीतगू क्षितिसुतो नेता कुमारो बुधःसूरिर्दानवपूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 नियमहेलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हेम्ना विज्ञो बोधनश्चेन्दुपुत्रः ।आरो वक्रः क्रूरदृक्चावनेयः कोणो मन्दः सूर्यपुत्रोऽसितश्च ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमजीवोऽङ्गिराः सुरगुरुर्वचसां पतीज्यः शुक्रो भृगुर्भृगुसुतः सित आस्फुजिच्च ।राहुस्तमोऽगुरसुरश्च शिखीति केतुः पर्यायमन्यमुपलभ्य वदेच्च लोकात् ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 नियमरक्तश्यामो भास्करो गौर इन्दुर्नात्युच्चाङ्गो रक्तगौरश्च वक्रः ।दूर्वाश्यामो ज्ञो गुरुर्गौरगात्रः श्यामः शुक्रो भास्करिः कृष्णदेहः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 नियमवर्णास्ताम्रसितातिरक्तहरितव्यापीतचित्रासितावह्न्यम्ब्वग्निजकेशवेन्द्रशचिकाः सूर्यादिनाथाः क्रमात् ।प्रागाद्या रविशुक्रलोहिततमःसौरेन्दुवित्सूरयःक्षीणेन्द्वर्कमहीसुतार्कतनयाः पापा बुधस्तैर्युतः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमबुधसूर्यसुतौ नपुंसकाख्यौ शशिशुक्रौ युवती नराश्च शेषाः ।शिखिभूखपयोमरुद्गणानां वशिनो भूमिसुतादयः क्रमेण ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 नियमविप्रादितः शुक्रगुरू कुजार्कौ शशी बुधश्चेत्यसितोऽन्त्यजानाम् ।चन्द्रार्कजीवा ज्ञसितौ कुजार्की यथाक्रमं सत्त्वरजस्तमांसि ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 नियममधुपिङ्गलदृक्चतुरस्रतनुः पित्तप्रकृतिः सविताल्पकचः ।तनुवृत्ततनुर्वहुवातकफः प्राज्ञश्च शशी मृदुवाक्छुभदृक् ॥ ८ ॥
  9. श्लोक 9कुंडली के 2 नियमक्रूरदृक्तरुणमूर्तिरुदारः पैत्तिकः सुचपलः कृशमध्यः ।श्लिष्टवाक्सततहास्यरुचिर्ज्ञः पित्तमारुतकफप्रकृतिश्च ॥ ९ ॥
  10. श्लोक 10कुंडली के 2 नियमबृहत्तनुः पिङ्गलमूर्द्धजेक्षणो बृहस्पतिः श्रेष्ठमतिः कफात्मकः ।भृगुः सुखी कान्तवपुः सुलोचनः कफानिलात्मासितवक्रमूर्द्धजः ॥ १० ॥
  11. श्लोक 11कुंडली के 2 नियममन्दोऽलसः कपिलदृक्कृशदीर्घगात्रः स्थूलद्विजः परुषरोमकचोऽनिलात्मा ।स्नाय्वस्थ्यसृक्त्वगथ शुक्रवसे च मज्जामन्दार्कचन्द्रबुधशुक्रसुरेज्यभौमाः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 नियमदेवाम्ब्वग्निविहारकोशशयनक्षित्युत्करेशाः क्रमाद्वस्त्रं स्थूलमभुक्तमग्निकहतं मध्यं दृढं स्फाटितम् ।ताम्रं स्यान्मणिहेमयुक्तिरजतान्यर्काच्च मुक्तायसीद्रेष्काणैः शिशिरादयः शशुरुचज्ञग्वादिषूद्यत्सु वा ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 नियमत्रिदशत्रिकोणचतुरस्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धितः ।रविजामरेज्यरुधिराः परे च ये क्रमशो भवन्ति किल वीक्षणेऽधिकाः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 नियमअयनक्षणवासरर्तवो मासोऽर्द्धं च समाश्च भास्करात् ।कटुकलवणतिक्तमिश्रिता मधुराम्लौ च कषाय इत्यपि ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 नियमजीवो जीवबुधौ सितेन्दुतनयौ व्यर्का विभौमाः क्रमा-द्वीन्द्वर्का विकुजेन्द्विनाश्च सुहृदः केषाञ्चिदेवं मतम् ।सत्योक्ते सुहृदस्त्रिकोणभवनात्स्वात्स्वान्त्यधीधर्मपाःस्वोच्चायुःसुखपाः स्वलक्षणविधेर्नान्यैर्विरोधादिति ॥ १५ ॥
  16. श्लोक 16शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवे-स्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः ।जीवेन्दूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौमित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥ १६ ॥
  17. श्लोक 17सूरेः सौम्यसितावरी रविसुतो मध्योऽपरे त्वन्यथासौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी ।शुक्रज्ञौ सुहृदौ समः सुरगुरुः सौरस्य चान्येऽरयोये प्रोक्ताः स्वत्रिकोणभादिषु पुनस्तेऽमी मया कीर्तिताः ॥ १७ ॥
  18. श्लोक 18कुंडली के 1 नियमअन्योन्यस्य धनव्ययायसहजव्यापारबन्धुस्थिता-स्तत्काले सुहृदः स्वतुङ्गभवनेऽप्येकेऽरयस्त्वन्यथा ।द्व्येकानुक्तभपान् सुहृत्समरिपून्सञ्चिन्त्य नैसर्गिकां-स्तत्काले च पुनस्तु तानधिसुहृन्मित्रादिभिः कल्पयेत् ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 नियमस्वोच्चसुहृत्स्वत्रिकोणनवांशैः स्थानवलं स्वगृहोपगतैश्च ।दिक्षु बुधाङ्गिरसौ रविभौमौ सूर्यसुतः सितशीतकरौ च ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 नियमउदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः ।विपुलकरा युधि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः परिकल्प्याः ॥ २० ॥
  21. श्लोक 21कुंडली के 1 नियमनिशि शशिकुजसौराः सर्वदा ज्ञोऽह्नि चान्येवहुलसितगताः स्युः क्रूरसौम्याः क्रमेण ।द्व्ययनदिवसहोरामासपैः कालवीर्यंशरुबुगुशुचसाद्या वृद्धितो वीर्यवन्तः ॥ २१ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।