अध्याय 8: दशान्तर्दशाध्यायः
बृहज्जातक · Brihat Jataka, chapter 8 (Dashas and antardashas)
23 श्लोक
- श्लोक 1कुंडली के 1 नियमउदयरविशशाङ्कप्राणिकेन्द्रादिसंस्थाःप्रथमवयसि मध्येऽन्त्ये च दद्युः फलानि ।न हि न फलविपाकः केन्द्रसंस्थाद्यभावेभवति हि फलपक्तिः पूर्वमापोक्लिमेऽपि ॥ १ ॥
- श्लोक 2कुंडली के 1 नियमआयुः कृतं येन हि यत्तदेव कल्प्या दशा सा प्रबलस्य पूर्वम् ।साम्ये बहूनां बहुवर्षदस्य तेषां च साम्ये प्रथमोदितस्य ॥ २ ॥
- श्लोक 3कुंडली के 1 नियमएकर्क्षगोऽर्द्धमपहृत्य ददाति तु स्वं त्र्यंशं त्रिकोणगृहगः स्मरगः स्वरांशम् ।पादं फलस्य चतुरस्रगतः सहोरास्त्वेवं परस्परगताः परिपाचयन्ति ॥ ३ ॥
- श्लोक 4कुंडली के 1 नियमस्थानान्यथैतानि सवर्णयित्वा सर्वाण्यधश्छेदविवर्जितानि ।दशाब्दपिण्डे गुणका यथांशं छेदस्तदैक्येन दशाप्रभेदः ॥ ४ ॥
- श्लोक 5कुंडली के 1 नियमसम्यग्बलिनः स्वतुङ्गभागे सम्पूर्णा बलवर्जितस्य रिक्ता ।नीचांशगतस्य शत्रुभागे ज्ञेयानिष्टफला दशा प्रसूतौ ॥ ५ ॥
- श्लोक 6कुंडली के 1 नियमभ्रष्टस्य तुङ्गादवरोहिसञ्ज्ञा मध्या भवेत्सा सुहृदुच्चभागे ।आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा ॥ ६ ॥
- श्लोक 7कुंडली के 1 नियमनीचारिभांशे समवस्थितस्य शस्ते गृहे मिश्रफला प्रदिष्टा ।सञ्ज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि यथोपयोगम् ॥ ७ ॥
- श्लोक 8कुंडली के 1 नियमउभयेऽधममध्यपूजिता द्रेष्काणैश्चरभेषु चोत्क्रमात् ।अशुभेष्टसमाः स्थिरे क्रमाद्धोरायाः परिकल्पिता दशा ॥ ८ ॥
- श्लोक 9कुंडली के 1 नियमएकं द्वौ नवविंशतिर्धृतिकृती पञ्चाशदेषां क्रमा-च्चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः ।स्वैः स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशायाः क्रमा-दन्ते लग्नदशा शुभेति यवना नेच्छन्ति केचित्तथा ॥ ९ ॥
- श्लोक 10कुंडली के 1 नियमपाकस्वामिनि लग्नगे सुहृदि वा वर्गेऽस्य सौम्येऽपि वाप्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे ।मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थित-श्चन्द्रः सत्फलबोधनानि कुरुते पापानि चातोऽन्यथा ॥ १० ॥
- श्लोक 11कुंडली के 5 नियमप्रारब्धा हिमगौ दशा स्वगृहगे मानार्थसौख्यावहाकौजे दूषयति स्त्रियं बुधगृहे विद्यासुहृद्वित्तदा ।दुर्गारण्यपथालये कृषिकरी सिंहे सितर्क्षेऽन्नदाकुस्त्रीदा मृगकुम्भयोर्गुरुगृहे मानार्थसौख्यावहा ॥ ११ ॥
- श्लोक 12कुंडली के 1 नियमसौर्यां स्वन्नखदन्तचर्मकनकक्रौर्याध्वभूपाहवै-स्तैक्ष्ण्यं धैर्यमजस्रमुद्यमरतिः ख्यातिः प्रतापोन्नतिः ।भार्यापुत्रधनारिशस्त्रहुतभुग्भूपोद्भवा व्यापद-स्त्यागी पापरतिः स्वभृत्यकलहो हृत्क्रोडपीडामयाः ॥ १२ ॥
- श्लोक 13कुंडली के 1 नियमइन्दोः प्राप्य दशां फलानि लभते मन्त्रद्विजात्युद्भवा-नीक्षुक्षीरविकारवस्त्रकुसुमक्रीडातिलान्नश्रमैः ।निद्रालस्यमृदुद्विजामररतिः स्त्रीजन्म मेधाविताकीर्त्यर्थोपचयक्षयौ च बलिभिर्वैरं स्वपक्षेण च ॥ १३ ॥
- श्लोक 14कुंडली के 1 नियमभौमस्यारिविमर्दभूपसहजक्षित्याविकाजैर्धनंप्रद्वेषः सुतमित्रदारसहजैर्विद्वद्गुरुद्वेष्टृता ।तृष्णासृग्ज्वरपित्तभङ्गजनिता रोगाः परस्त्रीकृताःप्रीतिः पापरतैरधर्मनिरतिः पारुष्यतैक्ष्ण्यानि च ॥ १४ ॥
- श्लोक 15कुंडली के 1 नियमबौध्यां दौत्यसुहृद्गुरुद्विजधनं विद्वत्प्रशंसा यशोयुक्तिद्रव्यसुवर्णवेसरमहीसौभाग्यसौख्याप्तयः ।हास्योपासनकौशलं मतिचयो धर्मक्रियासिद्धयःपारुष्यं श्रमबन्धमानसशुचः पीडा च धातुत्रयात् ॥ १५ ॥
- श्लोक 16कुंडली के 1 नियमजैव्यां मानगुणोदयो मतिचयः कान्तिप्रतापोन्नति-र्माहात्म्योद्यममन्त्रनीतिनृपतिस्वाध्यायमन्त्रैर्धनम् ।हेमाश्वात्मजकुञ्जराम्बरचयः प्रीतिश्च सद्भूमिपैःसूक्ष्मोहागहनाश्रमः श्रवणरुग्वैरं विधर्माश्रितैः ॥ १६ ॥
- श्लोक 17कुंडली के 1 नियमशौक्र्यां गीतरतिप्रमोदसुरभिद्रव्यान्नपानाम्बर-स्त्रीरत्नद्युतिमन्मथोपकरणज्ञानेष्टमित्रागमः ।कौशल्यं क्रयविक्रये कृषिनिधिप्राप्तिर्धनस्यागमोवृन्दोर्वीशनिषादधर्मरहितैर्वैरं शुचः स्नेहतः ॥ १७ ॥
- श्लोक 18कुंडली के 1 नियमसौरीं प्राप्य खरोष्ट्रपक्षिमहिषीवृद्धाङ्गनावाप्तयःश्रेणीग्रामपुराधिकारजनिता पूजा कुधान्यागमः ।श्लेष्मेर्ष्यानिलकोपमोहमलिनव्यापत्तितन्द्राश्रमा-न्भृत्यापत्यकलत्रभर्त्सनमपि प्राप्नोति च व्यङ्गताम् ॥ १८ ॥
- श्लोक 19कुंडली के 1 नियमदशासु शस्तासु शुभानि कुर्वन्त्यनिष्टसञ्ज्ञास्वशुभानि चैवम् ।मिश्रासु मिश्राणि दशाफलानि होराफलं लग्नपतेः समानम् ॥ १९ ॥
- श्लोक 20कुंडली के 1 नियमसञ्ज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यश्च यस्योपदिष्टः ।भावस्थानालोकयोगोद्भवं च तत्तत्सर्वं तस्य योज्यं दशायाम् ॥ २० ॥
- श्लोक 21कुंडली के 1 नियमछायां महाभूतकृतां च सर्वेऽभिव्यञ्जयन्ति स्वदशामवाप्य ।कम्ब्वग्निवाय्वम्बरजान्गुणांश्च नासास्यदृक्त्वक्छ्रवणानुमेयान् ॥ २१ ॥
- श्लोक 22कुंडली के 1 नियमशुभफलददशायां तादृगेवान्तरात्माबहु जनयति पुंसां सौख्यमर्थागमं च ।कथितफलविपाकैस्तर्कयेद्वर्तमानांपरिणमति फलोक्तिः स्वप्नचिन्तास्ववीर्यैः ॥ २२ ॥
- श्लोक 23कुंडली के 1 नियमएकग्रहस्य सदृशे फलयोर्विरोधेनाशं वदेद्यदधिकं परिपच्यते तत् ।नान्यो ग्रहः सदृशमन्यफलं हिनस्तिस्वां स्वां दशामुपगताः स्वफलप्रदाः स्युः ॥ २३ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।