अध्याय 9: अष्टकवर्गाध्यायः

बृहज्जातक · Brihat Jataka, chapter 9 (Ashtakavarga)

8 श्लोक

  1. श्लोक 1कुंडली के 1 नियमस्वादर्कः प्रथमायबन्धुनिधनद्व्याज्ञातपोद्यूनगोवक्रात्स्वादिव तद्वदेव रविजाच्छुक्रात्स्मरान्त्यारिषु ।जीवाद्धर्मसुतायशत्रुषु दशत्र्यायारिगः शीतगो-रेष्वेवान्त्यतपःसुतेषु च बुधाल्लग्नात्सबन्ध्वन्त्यगः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 नियमलग्नात्षट्त्रिदशायगः सधनधीधर्मेषु चाराच्छशीस्वात्सास्तादिषु साष्टसप्तसु रवेः षट्त्र्यायधीस्थो यमात् ।धीत्र्यायाष्टमकण्टकेषु शशिजाज्जीवाद्व्ययायाष्टगःकेन्द्रस्थश्च सितात्तु धर्मसुखधीत्र्यायास्पदानङ्गगः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमवक्रस्तूपचयेष्विनात्सतनयेष्वाद्याधिकेषूदया-च्चन्द्राद्दिग्विफलेषु केन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः ।धर्मायाष्टमकेन्द्रगोऽर्कतनयाज्ज्ञात्षट्त्रिधीलाभगःशुक्रात्षड्व्ययलाभमृत्युषु गुरोः कर्मान्त्यलाभारिषु ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 नियमद्व्याद्यायाष्टतपःसुखेषु भृगुजात्सत्र्यात्मजेष्विन्दुजःसाज्ञास्तेषु यमारयोर्व्ययरिपुप्राप्त्यष्टगो वाक्पतेः ।धर्मायारिसुतव्ययेषु सवितुः स्वात्साद्यकर्मत्रिगःषट्स्वायाष्टसुखास्पदेषु हिमगोः साद्येषु लग्नाच्छुभः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 नियमदिक्स्वाद्याष्टमदायबन्धुषु कुजात्स्वात्सत्रिकेष्वङ्गिराःसूर्यात्सत्रिनवेषु धीस्वनवदिग्लाभारिगो भार्गवात् ।जायायार्थनवात्मजेषु हिमगोर्मन्दात्त्रिषड्धीव्ययेदिग्धीषट्स्वसुखायपूर्वनवगो ज्ञात्सस्मरश्चोदयात् ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमलग्नादासुतलाभरन्ध्रनवगः सान्त्यः शशाङ्कात्सितःस्वात्साज्ञेषु सुखत्रिधीनवदशच्छिद्राप्तिगः सूर्यजात् ।रन्ध्रायव्ययगो रवेर्नवदशप्राप्त्यष्टधीस्थो गुरो-र्ज्ञाद्धीत्र्यायनवारिगस्त्रिनवषट्पुत्रायसान्त्यः कुजात् ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 नियममन्दः स्वात्त्रिसुतायशत्रुषु शुभः साज्ञान्त्यगो भूमिजात्केन्द्रायाष्टधनेष्विनादुपचयेष्वाद्ये सुखे चोदयात् ।धर्मायारिदशान्त्यमृत्युषु बुधाच्चन्द्रात्त्रिषड्लाभगःषष्ठायान्त्यगतः सितात्सुरगुरोः प्राप्त्यन्त्यधीशत्रुषु ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 नियमइति निगदितमिष्टं नेष्टमन्यद्विशेषादधिकफलविपाकं जन्मभात्तत्र दद्युः ।उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् ॥ ८ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।