अध्याय 11: राजयोगाध्यायः

बृहज्जातक · Brihat Jataka, chapter 11 (Raja yogas)

20 श्लोक

  1. श्लोक 1कुंडली के 1 नियमप्राहुर्यवनाः स्वतुङ्गगैः क्रूरैः क्रूरमतिर्महीपतिः ।क्रूरैस्तु न जीवशर्मणः पक्षे क्षित्यधिपः प्रजायते ॥ १ ॥
  2. श्लोक 2कुंडली के 2 नियमवक्रार्कजार्कगुरुभिः सकलैस्त्रिभिश्च स्वोच्चेषु षोडश नृपाः कथितैकलग्ने ।द्व्येकाश्रितेषु च तथैकतमे विलग्ने स्वक्षेत्रगे शशिनि षोडश भूमिपाः स्युः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमवर्गोत्तमगते लग्ने चन्द्रे वा चन्द्रवर्जितैः ।चतुराद्यैर्ग्रहैर्दृष्टे नृपा द्वाविंशतिः स्मृताः ॥ ३ ॥
  4. श्लोक 4कुंडली के 2 नियमयमे कुम्भेर्केऽजे गवि शशिनि तैरेव तनुगै-र्नृयुक्सिंहालिस्थैः शशिजगुरुवक्रैर्नृपतयः ।यमेन्दू तुङ्गेऽङ्गे सवितृशशिजौ षष्ठभवनेतुलाजेन्दुक्षेत्रैः ससितकुजजीवैश्च नरपौ ॥ ४ ॥
  5. श्लोक 5कुंडली के 3 नियमकुजे तुङ्गेऽर्केन्द्वोर्द्धनुषि यमलग्ने च कुपतिःपतिर्भूमेश्चान्यः क्षितिसुतविलग्ने सशशिनि ।सचन्द्रे सौरेऽस्ते सुरपतिगुरौ चापधरगेस्वतुङ्गस्थे भानावुदयमुपयाते क्षितिपतिः ॥ ५ ॥
  6. श्लोक 6कुंडली के 2 नियमवृषे सेन्दौ लग्ने सवितृगुरुतीक्ष्णांशुतनयैःसुहृज्जायाखस्थैर्भवति नियमान्मानवपतिः ।मृगे मन्दे लग्ने सहजरिपुधर्मव्ययगतैःशशाङ्काद्यैः ख्यातः पृथुगुणयशाः पुङ्गलपतिः ॥ ६ ॥
  7. श्लोक 7कुंडली के 2 नियमहये सेन्दौ जीवे मृगमुखगते भूमितनयेस्वतुङ्गस्थौ लग्ने भृगुजशशिजावत्र नृपती ।सुतस्थौ वक्रार्की गुरुशशिसिताश्चापि हिबुकेबुधे कन्यालग्ने भवति हि नृपोऽन्योऽपि गुणवान् ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 नियमझषे सेन्दौ लग्ने घटमृगमृगेन्द्रेषु सहितै-र्यमारार्कैर्योऽभूत्स खलु मनुजः शास्ति वसुधाम् ।अजे सारे मूर्तौ शशिगृहगते चामरगुरौसुरेज्ये वा लग्ने धरणिपतिरन्योऽपि गुणवान् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 नियमकर्किणि लग्ने तत्स्थे जीवे चन्द्रसितज्ञैरायप्राप्तैः ।मेषगतेऽर्के जातं विन्द्याद्विक्रमयुक्तं पृथ्वीनाथम् ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 नियममृगमुखेऽर्कतनयस्तनुसंस्थः क्रियकुलीरहरयोऽधिपयुक्ताः ।मिथुनतौलिसहितौ बुधशुक्रौ यदि तदा पृथुयशाः पृथिवीशः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 नियमस्वोच्चसंस्थे बुधे लग्ने भृगौ मेषूरणाश्रिते ।सजीवेऽस्ते निशानाथे राजा मन्दारयोः सुते ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 नियमअपि खलकुलजाता मानवा राज्यभाजः किमुत नृपकुलोत्थाः प्रोक्तभूपालयोगैः ।नृपतिकुलसमुत्थाः पार्थिवा वक्ष्यमाणैर्भवति नृपतितुल्यस्तेष्वभूपालपुत्रः ॥ १२ ॥
  13. श्लोक 13कुंडली के 2 नियमउच्चस्वत्रिकोणगैर्बलस्थैस्त्र्याद्यैर्भूपतिवंशजा नरेन्द्राः ।पञ्चादिभिरन्यवंशजाता हीनैर्वित्तयुता न भूमिपालाः ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 नियमलेखास्थेऽर्केऽजेन्दौ लग्ने भौमे स्वोच्चे कुम्भे मन्दे ।चापप्राप्ते जीवे राज्ञः पुत्रं विन्द्यात्पृथ्वीनाथम् ॥ १४ ॥
  15. श्लोक 15कुंडली के 1 नियमस्वर्क्षे शुक्रे पातालस्थे धर्मस्थानं प्राप्ते चन्द्रे ।दुश्चिक्याङ्गप्राप्तिप्राप्तैः शेषैर्जातः स्वामी भूमेः ॥ १५ ॥
  16. श्लोक 16कुंडली के 1 नियमसौम्ये वीर्ययुते तनुयुक्ते वीर्याढ्ये च शुभे शुभयाते ।धर्मार्थोपचयेष्ववशेषैर्धर्मात्मा नृपजः पृथिवीशः ॥ १६ ॥
  17. श्लोक 17कुंडली के 2 नियमवृषोदये मूर्तिधनारिलाभगैः शशाङ्कजीवार्कसुतापरैर्नृपः ।सुखे गुरौ खे शशितीक्ष्णदीधिती यमोदये लाभगतैर्नृपोऽपरैः ॥ १७ ॥
  18. श्लोक 18कुंडली के 2 नियममेषूरणायतनुगाः शशिमन्दजीवा ज्ञारौ धने सितरवी हिबुके नरेन्द्रम् ।वक्रासितौ शशिसुरेज्यसितार्कसौम्या होरासुखास्तशुभखाप्तिगताः प्रजेशम् ॥ १८ ॥
  19. श्लोक 19कुंडली के 1 नियमकर्मलग्नयुतपाकदशायां राज्यलब्धिरथवा प्रबलस्य ।शत्रुनीचगृहयातदशायां छिद्रसंश्रयदशा परिकल्प्या ॥ १९ ॥
  20. श्लोक 20कुंडली के 2 नियमगुरुसितबुधलग्ने सप्तमस्थेऽर्कपुत्रेवियति दिवसनाथे भोगिनां जन्म विन्द्यात् ।शुभबलयुतकेन्द्रैः क्रूरभस्थैश्च पापै-र्व्रजति शवरदस्युस्वामितामर्थभाक्च ॥ २० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।