अध्याय 12: नाभसयोगाध्यायः

बृहज्जातक · Brihat Jataka, chapter 12 (Nabhasa yogas)

19 श्लोक

  1. श्लोक 1कुंडली के 1 नियमनवदिग्वसवस्त्रिकाग्निवेदैर्गुणिता द्वित्रिचतुर्विकल्पजाः स्युः ।यवनैस्त्रिगुणा हि षट्शती सा कथिता विस्तरतोऽत्र तत्समासः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 नियमरज्जुर्मुशलं नलश्चराद्यैः सत्यश्चाश्रयजाञ्जगाद योगान् ।केन्द्रैः सदसद्युतैर्दलाख्यौ स्रक्सर्पौ कथितौ पराशरेण ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमयोगा व्रजन्त्याश्रयजाः समत्वं यवाब्जवज्राण्डजगोलकाद्यैः ।केन्द्रोपगैः प्रोक्तफलौ दलाख्यावित्याहुरन्ये न पृथक्फलौ तौ ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 नियमआसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः खबन्ध्वोः ।शृङ्गाटकं नवमपञ्चमलग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 नियमशकटाण्डजवच्छुभाशुभैर्वज्रं तद्विपरीतगैर्यवः ।कमलं तु विमिश्रसंस्थितैर्वापी तद्यदि केन्द्रबाह्यतः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमपूर्वशास्त्रानुसारेण मया वज्रादयः कृताः ।चतुर्थे भवने सूर्याज्ज्ञसितौ भवतः कथम्? ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 नियमकण्टकादिप्रवृत्तैस्तु चतुर्गृहगतैर्ग्रहैः ।यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 नियमनौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितैः ।अर्द्धचन्द्रस्तु नावाद्यैः प्रोक्तस्त्वन्यर्क्षसंस्थितैः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 नियमएकान्तरगतैरर्थात्समुद्रः षड्गृहाश्रितैः ।विलग्नादिस्थितैश्चक्रमित्याकृतिजसंग्रहः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 नियमसङ्ख्यायोगाः स्युः सप्त सप्तर्क्षसंस्थैरेकापायाद्वल्लकी दामिनी च ।पाशः केदारः शूलयोगो युगं च गोलश्चान्यान्पूर्वमुक्तान्विहाय ॥ १० ॥
  11. श्लोक 11कुंडली के 5 नियमईर्ष्युर्विदेशनिरतोऽध्वरुचिश्च रज्ज्वांमानी धनी च मुशले बहुकृत्यसक्तः ।व्यङ्गः स्थिराढ्यनिपुणो नलजः स्रगुत्थोभोगान्वितो भुजगजो बहुदुःखभाक्स्यात् ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 नियमआश्रयोक्तास्तु विफला भवन्त्यन्यैर्विमिश्रिताः ।मिश्रा यैस्ते फलं दद्युरमिश्राः स्वफलप्रदाः ॥ १२ ॥
  13. श्लोक 13कुंडली के 5 नियमयज्वार्थभाक्सततमर्थरुचिर्गदायांतद्वृत्तिभुक्छकटजः सरुजः कुदारः ।दूतोऽटनः कलहकृद्विहगे प्रदिष्टःशृङ्गाटके चिरसुखी कृषिकृद्धलाख्ये ॥ १३ ॥
  14. श्लोक 14कुंडली के 4 नियमवज्रेऽन्त्यपूर्वसुखिनः सुभगोऽतिशूरोवीर्यान्वितोऽप्यथ यवे सुखितो वयोऽन्तः ।विख्यातकीर्त्यमितसौख्यगुणश्च पद्मेवाप्यां तनुस्थिरसुखो निधिकृन्न दाता ॥ १४ ॥
  15. श्लोक 15कुंडली के 3 नियमत्यागात्मवान्क्रतुवरैर्यजते च यूपे हिंस्रोऽथ गुप्त्यधिकृतः शरकृच्छराख्ये ।नीचोऽलसः सुखधनैर्वियुतश्च शक्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्त्यवृत्तिः ॥ १५ ॥
  16. श्लोक 16कुंडली के 4 नियमकीर्त्या युतश्चलसुखः कृपणश्च नौजःकूटेऽनृतप्लवनबन्धनपश्च जातः ।छत्रोद्भवः स्वजनसौख्यकरोऽन्त्यसौख्यःशूरश्च कार्मुकभवः प्रथमान्त्यसौख्यः ॥ १६ ॥
  17. श्लोक 17कुंडली के 4 नियमअर्धेन्दुजः सुभगकान्तवपुः प्रधानस्तोयालये नरपतिप्रतिमस्तु भोगी ।चक्रे नरेन्द्रमुकुटद्युतिरञ्जिताङ्घ्रिर्वीणोद्भवश्च निपुणः प्रियगीतनृत्यः ॥ १७ ॥
  18. श्लोक 18कुंडली के 4 नियमदातान्यकार्यनिरतः पशुपश्च दाम्नि पाशे धनार्जनविशीलसभृत्यबन्धुः ।केदारजः कृषिकरः सुबहूपयोज्यः शूरः क्षतो धनरुचिर्विधनश्च शूले ॥ १८ ॥
  19. श्लोक 19कुंडली के 3 नियमधनविरहितः पाखण्डी वा युगे त्वथ गोलकेविधनमलिनोऽज्ञानोपेतः कुशिल्प्यलसोऽटनः ।इति निगदिता योगाः सार्द्धं फलैरिह नाभसानियतफलदाश्चिन्त्या ह्येते समस्तदशास्वपि ॥ १९ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।