अध्याय 18: राशिशीलाध्यायः

बृहज्जातक · Brihat Jataka, chapter 18 (The planets in each sign)

20 श्लोक

  1. श्लोक 1कुंडली के 2 नियमप्रथितश्चतुरोऽटनोऽल्पवित्तः क्रियगे त्वायुधभृद्वितुङ्गभागे ।गवि वस्त्रसुगन्धपण्यजीवी वनिताद्विट् कुशलश्च गेयवाद्ये ॥ १ ॥
  2. श्लोक 2कुंडली के 4 नियमविद्याज्योतिषवित्तवान्मिथुनगे भानौ कुलीरे स्थितेतीक्ष्णोऽस्वः परकार्यकृच्छ्रमपथक्लेशैश्च संयुज्यते ।सिंहस्थे वनशैलगोकुलरतिर्वीर्यान्वितोऽज्ञः पुमान्कन्यास्थे लिपिलेख्यकाव्यगणितज्ञानान्वितः स्त्रीवपुः ॥ २ ॥
  3. श्लोक 3कुंडली के 4 नियमजातस्तौलिनि शौण्डिकोऽध्वनिरतो हैरण्यको नीचकृत्क्रूरः साहसिको विषार्जितधनःशस्त्रान्तगोऽलिस्थिते ।सत्पूज्यो धनवान्धनुर्द्धरगते तीक्ष्णो भिषक्कारुकोनीचोऽज्ञः कुवणिङ्मृगेऽल्पधनवाँल्लुब्धोऽन्यभाग्ये रतः ॥ ३ ॥
  4. श्लोक 4कुंडली के 3 नियमनीचो घटे तनयभाग्यपरिच्युतोऽस्वस्तोयोत्थपण्यविभवो वनितादृतोऽन्त्ये ।नक्षत्रमानवतनुप्रतिमे विभागे लक्ष्मादिशेत्तुहिनरश्मिदिनेशयुक्ते ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 नियमनरपतिसत्कृतोऽटनश्चमूपवणिक्सधनाःक्षततनुचौरभूरिविषयांश्च कुजः स्वगृहे ।युवतिजितान् सुहृत्सु विषमान् परदाररतान्कुहकसुवेषभीरुपरुषान सितभे जनयेत् ॥ ५ ॥
  6. श्लोक 6कुंडली के 2 नियमबौधेऽसहस्तनयवान्विसुहृत्कृतज्ञो गान्धर्वयुद्धकुशलः कृपणोऽभयोऽर्थी ।चान्द्रेऽर्थवान्सलिलयानसमर्जितस्वः प्राज्ञश्च भूमितनये विकलः खलश्च ॥ ६ ॥
  7. श्लोक 7कुंडली के 4 नियमनिःस्वः क्लेशसहो वनान्तरचरः सिंहेऽल्पदारात्मजोजैवे नैकरिपुर्नरेन्द्रसचिवः ख्यातोऽभयोऽल्पात्मजः ।दुःखार्तो विधनोऽटनोऽनृतरतस्तीक्ष्णश्च कुम्भस्थितेभौमे भूरिधनात्मजो मृगगतेभूपोऽथ वा तत्समः ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 नियमद्यूतर्णपानरतनास्तिकचौरनिःस्वाः कुस्त्रीककूटकृदसत्यरताः कुजर्क्षे ।आचार्यभूरिसुतदारधनार्जनेष्टाः शौक्रे वदान्यगुरुभक्तिरताश्च सौम्ये ॥ ८ ॥
  9. श्लोक 9कुंडली के 2 नियमविकत्थनः शास्त्रकलाविदग्धः प्रियंवदः सौख्यरतस्तृतीये ।जलार्जितस्वः स्वजनस्य शत्रुः शशाङ्कजे शीतकरर्क्षयुक्ते ॥ ९ ॥
  10. श्लोक 10कुंडली के 2 नियमस्त्रीद्वेष्यो विधनसुखात्मजोऽटनोऽज्ञः स्त्रीलोलः स्वपरिभवोऽर्कराशिगे ज्ञे ।त्यागी ज्ञः प्रचुरगुणः सुखी क्षमावान् युक्तिज्ञो विगतभयश्च षष्ठराशौ ॥ १० ॥
  11. श्लोक 11कुंडली के 3 नियमपरकर्मकृदस्वशिल्पबुद्धि ऋणवान्विष्टिकरो बुधेऽर्कजर्क्षे ।नृपसत्कृतपण्डिताप्तवाक्यो नवमेऽन्त्ये जितसेवकोऽन्त्यशिल्पः ॥ ११ ॥
  12. श्लोक 12कुंडली के 3 नियमसेनानीर्बहुवित्तदारतनयो दाता सुभृत्यः क्षमीतेजोदारगुणान्वितः सुरगुरौ ख्यातः पुमान्कौजभे ।कल्पाङ्गः सधनार्थमित्रतनयस्त्यागी प्रियः शौक्रभेबौधे भूरिपरिच्छदात्मजसुहृत्साचिव्ययुक्तः सुखी ॥ १२ ॥
  13. श्लोक 13कुंडली के 5 नियमचान्द्रे रत्नसुतस्वदारविभवप्रज्ञासुखैरन्वितःसिंहे स्याद्बलनायकः सुरगुरौ प्रोक्तं च यच्चन्द्रभे ।स्वर्क्षे माण्डलिको नरेन्द्रसचिवः सेनापतिर्वा धनीकुम्भे कर्कटवत्फलानि मकरे नीचोऽल्पवित्तोऽसुखी ॥ १३ ॥
  14. श्लोक 14कुंडली के 2 नियमपरयुवतिरतस्तदर्थवादैर्हृतविभवः कुलपांसनः कुजर्क्षे ।स्वबलमतिधनो नरेन्द्रपूज्यः स्वजनविभुः प्रथितोऽभयः सिते स्वे ॥ १४ ॥
  15. श्लोक 15कुंडली के 3 नियमनृपकृत्यकरोऽर्थवान्कलाविन्मिथुने षष्ठगतेऽतिनीचकर्मा ।रविजर्क्षगतेऽमरारिपूज्ये सुभगः स्त्रीविजितो रतः कुनार्याम् ॥ १५ ॥
  16. श्लोक 16कुंडली के 4 नियमद्विभार्योऽर्थी भीरुः प्रबलमदशोकश्च शशिभेहरौ योषाप्तार्थः प्रवरयुवतिर्मन्दतनयः ।गुणैः पूज्यः सस्वस्तुरगसहिते दानवगुरौझषे विद्वानाढ्यो नृपजनितपूजोऽतिसुभगः ॥ १६ ॥
  17. श्लोक 17कुंडली के 3 नियममूर्खोऽटनः कपटवान्विसुहृद्यमेऽजे कीटे तु बन्धवधभाक् चपलोऽघृणश्च ।निर्ह्रीसुखार्थतनयः स्खलितश्च लेख्ये रक्षापतिर्भवति मुख्यपतिश्च बौधे ॥ १७ ॥
  18. श्लोक 18कुंडली के 4 नियमवर्ज्यस्त्रीष्टो न बहुविभवो भूरिभार्यो वृषस्थेख्यातः स्वोच्चे गणपुरबलग्रामपूज्योऽर्थवांश्च ।कर्किण्यस्वो विकलदशनो मातृहीनोऽसुतोऽज्ञःसिंहेऽनार्यो विसुखतनयो विष्टिकृत्सूर्यपुत्रे ॥ १८ ॥
  19. श्लोक 19कुंडली के 2 नियमस्वन्तः प्रत्ययितो नरेन्द्रभवने सत्पुत्रजायाधनोजीवक्षेत्रगतेऽर्कजे पुरबलग्रामाग्रनेताऽथ वा ।अन्यस्त्रीधनसंवृतः पुरबलग्रामाग्रणीर्मन्ददृक्स्वक्षेत्रे मलिनःस्थिरार्थविभवो भोक्ता च जातः पुमान् ॥ १९ ॥
  20. श्लोक 20कुंडली के 1 नियमशिशिरकरसमागमेक्षणानां सदृशफलं प्रवदन्ति लग्नजातम् ।फलमधिकमिदं यदत्र भावाद्भवनभनाथगुणैर्विचिन्तनीयाः ॥ २० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।