अध्याय 17: चन्द्रराशिशीलाध्यायः

बृहज्जातक · Brihat Jataka, chapter 17 (The Moon in each sign)

13 श्लोक

  1. श्लोक 1कुंडली के 1 नियमवृत्ताताम्रदृगुष्णशाकलघुभुक्क्षिप्रप्रसादोऽटनःकामी दुर्बलजानुरस्थिरधनः शूरोऽङ्गनावल्लभः ।सेवाज्ञः कुनखी व्रणाङ्कितशिरा मानी सहोत्थाग्रजःशक्त्या पाणितलेऽङ्कितोऽतिचपलस्तोये च भीरुः क्रिये ॥ १ ॥
  2. श्लोक 2कुंडली के 1 नियमकान्तः खेलगतिः पृथूरुवदनः पृष्ठास्यपार्श्वाङ्कित-स्त्यागी क्लेशसहः प्रभुः ककुद्वान्कन्याप्रजः श्लेष्मलः ।पूर्वैर्बन्धुधनात्मजैर्विरहितः सौभाग्ययुक्तः क्षमीदीप्ताग्निः प्रमदाप्रियः स्थिरसुहृन्मध्यान्त्यसौख्यो गवि ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमस्त्रीलोलः सुरतोपचारकुशलस्ताम्रेक्षणः शास्त्रविद्-दूतः कुञ्चितमूर्द्धजः पटुमतिर्हास्येङ्गितद्यूतवित् ।चार्वङ्गः प्रियवाक्प्रभक्षणरुचिर्गीतप्रियो नृत्यवित्क्लीबैर्याति रतिं समुन्नतनसश्चन्द्रे तृतीयर्क्षगे ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 नियमआवक्रद्रुतगः समुन्नतकटिः स्त्रीनिर्जितः सत्सुहृद्-दैवज्ञः प्रचुरालयः क्षयधनैः सय्युँज्यते चन्द्रवत् ।ह्रस्वः पीनगलः समेति च वशं साम्ना सुहृद्वत्सल-स्तोयोद्यानरतः स्ववेश्मसहिते जातः शशाङ्के नरः ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 नियमतीक्ष्णः स्थूलहनुर्विशालवदनः पिङ्गेक्षणोऽल्पात्मजःस्त्रीद्वेषी प्रियमांसकाननगः कुप्यत्यकार्ये चिरम् ।क्षुत्तृष्णोदरदन्तमानसरुजा सम्पीडितस्त्यागवान्विक्रान्तः स्थिरधीः सुगर्वितमना मातुर्विधेयोऽर्कभे ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमव्रीडामन्थरचारुवीक्षणगतिः स्रस्तांसबाहुः सुखीश्लक्ष्णः सत्यरतः कलासु निपुणः शास्त्रार्थविद्धार्मिकः ।मेधावी सुरतप्रियः परगृहैर्वित्तैश्च सय्युँज्यतेकन्यायां परदेशगः प्रियवचाः कन्याप्रजोल्पात्मजः ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 नियमदेवब्राह्मणसाधुपूजनरतः प्राज्ञः शुचिः स्त्रीजितःप्रांशुश्चोन्नतनासिकः कृशचलद्गात्रोऽटनोऽर्थान्वितः ।हीनाङ्गः क्रयविक्रयेषु कुशलो देवद्विनामा सरुक्बन्धूनामुपकारकृद्विरुषितस्त्यक्तस्तु तैः सप्तमे ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 नियमपृथुलनयनवक्षा वृत्तजङ्घोरुजानु-र्जनकगुरुवियुक्तः शैशवे व्याधितश्च ।नरपतिकुलपूज्यः पिंगलः क्रूरचेष्टोझषकुलिशखगांकश्छन्नपापोऽलिजातः ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 नियमव्यादिर्घास्यशिरोधरः पितृधनस्त्यागी कविर्वीर्यवान्वक्ता स्थूलरदश्रवाधरनसः कर्मोद्यतः शिल्पवित् ।कुब्जांसः कुनखी समांसलभुजः प्रागल्भ्यवान् धर्मविद्-बन्धुद्विट् न बलात्समेति च वशं साम्नैकसाध्योऽश्वजः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 नियमनित्यं लालयति स्वदारतनयान्धर्मध्वजोऽधःकृशःस्वक्षः क्षामकटिर्गृहीतवचनः सौभाग्ययुक्तोऽलसः ।शीतालुर्मनुजोऽटनश्च मकरे सत्त्वाधिकः काव्यकृ-ल्लुब्धोऽगम्यजराङ्गनासु निरतः सन्त्यक्तलज्जोऽघृणः ॥ १० ॥
  11. श्लोक 11कुंडली के 1 नियमकरभगलः शिरालुः खरलोमशदीर्घतनुःपृथुचरणोरुपृष्ठजघनास्यकटिर्जरठः ।परवनितार्थपापनिरतः क्षयवृद्धियुतःप्रियकुसुमानुलेपनसुहृद्घटजोऽध्वसहः ॥ ११ ॥
  12. श्लोक 12कुंडली के 1 नियमजलपरधनभोक्ता दारवासोऽनुरक्तःसमरुचिरशरीरस्तुङ्गनासो बृहत्कः ।अभिभवति सपत्नान् स्त्रीजितश्चारुदृष्टि-र्द्युतिनिधिधनभोगी पण्डितश्चान्त्यराशौ ॥ १२ ॥
  13. श्लोक 13कुंडली के 1 नियमबलवति राशौ तदधिपतौ च स्वबलयुतः स्याद्यदि तुहिनांशुः ।कथितफलानामविकलदाता शशिवदतोऽन्येप्यनुपरिचिन्त्याः ॥ १३ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।