अध्याय 28: उपसंहाराध्यायः

बृहज्जातक · Brihat Jataka, chapter 28 (Conclusion)

10 श्लोक

  1. श्लोक 1कुंडली के 1 नियमराशिप्रभेदो ग्रहयोनिभेदो वियोनिजन्माऽथ निषेककालः ।जन्माथ सद्यो मरणं तथायुर्दशाविपाकोऽष्टकवर्गसञ्ज्ञः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 नियमकर्माजीवो राजयोगाः खयोगाश्चान्द्रा योगा द्विग्रहाद्याश्च योगाः ।प्रव्रज्याथो राशिशीलानि दृष्टिर्भावस्तस्मादाश्रयोऽथ प्रकीर्णः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमनेष्टा योगा जातकं कामिनीनां निर्याणं स्यान्नष्टजन्मा दृकाणः ।अध्यायानां विंशतिः पञ्चयुक्ता जन्मन्येतद्यात्रिकं चाभिधास्ये ॥ ३ ॥
  4. श्लोक 4कुंडली के 1 नियमप्रश्नास्तिथिर्भं दिवसः क्षणश्च चन्द्रो विलग्नं त्वथ लग्नभेदः ।शुद्धिर्ग्रहाणामथ चापवादो विमिश्रकाख्यं तनुवेपनं च ॥ ४ ॥
  5. श्लोक 5कुंडली के 1 नियमअतः परं गुह्यकपूजनं स्यात्स्वप्नं ततः स्नानविधिः प्रदिष्टः ।यज्ञो ग्रहाणामथ निर्गमश्च क्रमाच्च दिष्टः शकुनोपदेशः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमविवाहकालः करणं ग्रहाणां प्रोक्तं पृथक्तद्विपुलाऽथ शाखा ।स्कन्धैस्त्रिभिर्ज्योतिषसङ्ग्रहोऽयं मया कृतो दैवविदां हिताय ॥ ६ ॥
  7. श्लोक 7कुंडली के 1 नियमपृथुविरचितमन्यैःशास्त्रमेतत्समस्तं तदनु लघु मयेदं तत्प्रदेशार्थमेव ।कृतमिह हि समर्थं धीविषाणामलत्वे मम यदिह यदुक्तं सज्जनैः क्षम्यतां तत् ॥ ७ ॥
  8. श्लोक 8कुंडली के 1 नियमग्रन्थस्य यत्प्रचरतोऽस्य विनाशमेति लेख्याद्बहुश्रुतमुखाधिगमक्रमेण ।यद्वा मया कुकृतमल्पमिहाकृतं वा कार्यं तदत्र विदुषा परिहृत्य रागम् ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 नियमआदित्यदासतनयस्तदवाप्तबोधः कापित्थके सवितृलब्धवरप्रसादः ।आवन्तिको मुनिमतान्यवलोक्य सम्यग्घोरां वराहमिहिरो रुचिरां चकार ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 नियमदिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनेदम् ।शास्त्रमुपसंगृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥ १० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।