अध्याय 27: द्रेष्काणस्वरूपाध्यायः
बृहज्जातक · Brihat Jataka, chapter 27 (The forms of the 36 drekkanas)
36 श्लोक
- श्लोक 1कुंडली के 1 नियमकट्यां सितवस्त्रवेष्टितः कृष्णः शक्त इवाभिरक्षितुम् ।रौद्रः परशुं समुद्यतं धत्ते रक्तविलोचनः पुमान् ॥ १ ॥
- श्लोक 2कुंडली के 1 नियमरक्ताम्बरा भूषणभक्ष्यचित्ता कुम्भाकृतिर्वाजिमुखी तृषार्त्ता ।एकेन पादेन च मेषमध्ये द्रेष्काणरूपं यवनोपदिष्टम् ॥ २ ॥
- श्लोक 3कुंडली के 1 नियमक्रूरः कलाज्ञः कपिलः क्रियार्थी भग्नव्रतोऽभ्युद्यतदण्डहस्तः ।रक्तानि वस्त्राणि बिभर्ति चण्डो मेषे तृतीयः कथितस्त्रिभागः ॥ ३ ॥
- श्लोक 4कुंडली के 1 नियमकुञ्चितलूनकचा घटदेहा दग्धपटा तृषिताशनचित्ता ।आभरणान्यभिवाञ्छति नारी रूपमिदं वृषभे प्रथमस्य ॥ ४ ॥
- श्लोक 5कुंडली के 1 नियमक्षेत्रधान्यगृहधेनुकलाज्ञो लाङ्गले सशकटे कुशलश्च ।स्कन्धमुद्वहति गोपतितुल्यं क्षुत्परोऽजवदनो मलवासाः ॥ ५ ॥
- श्लोक 6कुंडली के 1 नियमद्विपसमकायः पाण्डुरदंष्ट्रः शरभसमाङ्घ्रिः पिङ्गलमूर्तिः ।अविमृगलोभव्याकुलचित्तो वृषभवनस्य प्रान्तगतोऽयम् ॥ ६ ॥
- श्लोक 7कुंडली के 1 नियमसूच्याश्रयं समभिवाञ्छति कर्म नारी रूपान्विताभरणकार्यकृतादरा च ।हीनप्रजोच्छ्रितभुजर्तुमती त्रिभागमाद्यन्तृतीयभवनस्य वदन्ति तज्ज्ञाः ॥ ७ ॥
- श्लोक 8कुंडली के 1 नियमउद्यानसंस्थः कवची धनुष्माञ्छूरोऽस्त्रधारी गरुडाननश्च ।क्रीडात्मजालङ्करणार्थचिन्तां करोति मध्ये मिथुनस्य राशेः ॥ ८ ॥
- श्लोक 9कुंडली के 1 नियमभूषितो वरुणवद्बहुरत्नो बद्धतूणकवचः सधनुष्कः ।नृत्यवादितकलासु च विद्वान् काव्यकृन्मिथुनराश्यवसाने ॥ ९ ॥
- श्लोक 10कुंडली के 1 नियमपत्रमूलफलभृद्द्विपकायः कानने मलयगः शरभाङ्घ्रिः ।क्रोडतुल्यवदनो हयकण्ठः कर्कटे प्रथमरूपमुशन्ति ॥ १० ॥
- श्लोक 11कुंडली के 1 नियमपद्मार्चिता मूर्धनि भोगियुक्ता स्त्री कर्कशारण्यगता विरौति ।शाखां पलाशस्य समाश्रिता च मध्ये स्थिता कर्कटकस्य राशेः ॥ ११ ॥
- श्लोक 12कुंडली के 1 नियमभार्याभरणार्थमर्णवं नौस्थो गच्छति सर्पवेष्टितः ।हेमैश्च युतो विभूषणैश्चिपिटास्योऽन्त्यगतश्च कर्कटे ॥ १२ ॥
- श्लोक 13कुंडली के 1 नियमशाल्मलेरुपरि गृध्रजम्बुकौ श्वा नरश्च मलिनाम्बरान्वितः ।रौति मातृपितृविप्रयोजितः सिंहरूपमिदमाद्यमुच्यते ॥ १३ ॥
- श्लोक 14कुंडली के 1 नियमहयाकृतिः पाण्डुरमाल्यशेखरो बिभर्ति कृष्णाजिनकम्बलं नरः ।दुरासदः सिंह इवात्तकार्मुको नताग्रनासो मृगराजमध्यमः ॥ १४ ॥
- श्लोक 15कुंडली के 1 नियमऋक्षाननो वानरतुल्यचेष्टो बिभर्ति दण्डं फलमामिषं च ।कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्त्यगतस्त्रिभागः ॥ १५ ॥
- श्लोक 16कुंडली के 1 नियमपुष्पप्रपूर्णेन घटेन कन्या मलप्रदिग्धाम्बरसंवृताङ्गी ।वस्त्रार्थसँय्योगमभीप्समाना गुरोः कुलं वाञ्छति कन्यकाद्यः ॥ १६ ॥
- श्लोक 17कुंडली के 1 नियमपुरुषः प्रगृहीतलेखनिः श्यामो वस्त्रशिरा व्ययायकृत् ।विपुलं च बिभर्ति कार्मुकं रोमव्याप्ततनुश्च मध्यमः ॥ १७ ॥
- श्लोक 18कुंडली के 1 नियमगौरी सुधौताग्रदुकूलगुप्ता समुच्छ्रिता कुम्भकटच्छुहस्ता ।देवालयं स्त्री प्रयता प्रवृत्ता वदन्ति कन्यान्त्यगतस्त्रिभागः ॥ १८ ॥
- श्लोक 19कुंडली के 1 नियमवीथ्यन्तरापणगतः पुरुषस्तुलावानुन्मानमानकुशलः प्रतिमानहस्तः ।भाण्डं विचिन्तयति तस्य च मूल्यमेतद्रूपं वदन्ति यवनाः प्रथमं तुलायाः ॥ १९ ॥
- श्लोक 20कुंडली के 1 नियमकलशं परिगृह्य विनिष्पतितुं समभीप्सति गृध्रमुखः पुरुषः ।क्षुधितस्तृषितश्च कलत्रसुतान् मनसैति तुलाधरमध्यगतः ॥ २० ॥
- श्लोक 21कुंडली के 1 नियमविभीषयँस्तिष्ठति रत्नचित्रितो वने मृगान्काञ्चनतूणवर्मभृत् ।फलामिषं वानररूपभृन्नरस्तुलावसाने यवनैरुदाहृतः ॥ २१ ॥
- श्लोक 22कुंडली के 1 नियमवस्त्रैर्विहीनाभरणैश्च नारी महासमुद्रात्समुपैति कूलम् ।स्थानच्युता सर्पनिबद्धपादा मनोरमा वृश्चिकराशिपूर्वः ॥ २२ ॥
- श्लोक 23कुंडली के 1 नियमस्थानसुखान्यभिवाञ्छतिनारी भर्तृकृते भुजगावृतदेहा ।कच्छपकुम्भसमानशरीरा वृश्चिकमध्यमरूपमुशन्ति ॥ २३ ॥
- श्लोक 24कुंडली के 1 नियमपृथुलचिपिटकूर्मतुल्यवक्त्रः श्वमृगवराहशृगालभीषकारी ।अवति च मलयाकरप्रदेशं मृगपतिरन्त्यगतस्य वृश्चिकस्य ॥ २४ ॥
- श्लोक 25कुंडली के 1 नियममनुष्यवक्त्रोऽश्वसमानकायो धनुर्विगृह्यायतमाश्रमस्थः ।क्रतूपयोज्यानि तपस्विनश्च ररक्ष आद्यो धनुषस्त्रिभागः ॥ २५ ॥
- श्लोक 26कुंडली के 1 नियममनोरमा चम्पकहेमवर्णा भद्रासने तिष्ठति मध्यरूपा ।समुद्ररत्नानि विघट्टयन्ती मध्यत्रिभागो धनुषः प्रदिष्टः ॥ २६ ॥
- श्लोक 27कुंडली के 1 नियमकूर्ची नरो हाटकचम्पकाभो वरासने दण्डधरो निषण्णः ।कौशेयकान्युद्वहतेऽजिनं च तृतीयरूपं नवमस्य राशेः ॥ २७ ॥
- श्लोक 28कुंडली के 1 नियमरोमचितो मकरोपमदंष्ट्रः सूकरकायसमानशरीरः ।योक्त्रकजालकबन्धनधारी रौद्रमुखो मकरप्रथमस्तु ॥ २८ ॥
- श्लोक 29कुंडली के 1 नियमकलास्वभिज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गमाणा ।विभूषणालङ्कृतलोहकर्णा योषा प्रदिष्टा मकरस्य मध्ये ॥ २९ ॥
- श्लोक 30कुंडली के 1 नियमकिन्नरोपमतनुः सकम्बलस्तूणचापकवचैः समन्वितः ।कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं मकरराशिपश्चिमः ॥ ३० ॥
- श्लोक 31कुंडली के 1 नियमस्नेहमद्यजलभोजनागमव्याकुलीकृतमनाः सकम्बलः ।कोशकारवसनोऽजिनान्वितो गृध्रतुल्यवदनो घटादिगः ॥ ३१ ॥
- श्लोक 32कुंडली के 1 नियमदग्धे शकटे सशाल्मले लोहान्याहरतेऽङ्गना वने ।मलिनेन पटेन संवृता भाण्डैर्मूर्ध्नि गतैश्च मध्यमः ॥ ३२ ॥
- श्लोक 33कुंडली के 1 नियमश्यामः सरोमश्रवणः किरीटी त्वक्पत्रनिर्यासफलैर्बिभर्ति ।भाण्डानि लोहव्यतिमिश्रितानि सञ्चारयत्यन्तगतो घटस्य ॥ ३३ ॥
- श्लोक 34कुंडली के 1 नियमस्रुग्भाण्डमुक्तामणिशङ्खमिश्रैर्व्याक्षिप्तहस्तः सविभूषणश्च ।भार्याविभूषार्थमपां निधानं नावा प्लवत्यादिगतो झषस्य ॥ ३४ ॥
- श्लोक 35कुंडली के 1 नियमअत्युच्छ्रितध्वजपताकमुपैति पोतं कूलं प्रयाति जलधेः परिवारयुक्ता ।वर्णेन चम्पकमुखा प्रमदा त्रिभागो मीनस्य चैष कथितो मुनिभिर्द्वितीयः ॥ ३५ ॥
- श्लोक 36कुंडली के 1 नियमश्वभ्रान्तिके सर्पनिवेष्टिताङ्गो वस्त्रैर्विहीनः पुरुषस्त्वटव्याम् ।चौरानलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य ॥ ३६ ॥
संपूर्ण व्यक्तिगत कुंडली — ₹39950+ पृष्ठ: भाव-फल, योग, दशा और गोचर — इन्हीं ग्रंथों के श्लोकों सेव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।