अध्याय 24: स्त्रीजातकाध्यायः

बृहज्जातक · Brihat Jataka, chapter 24 (Women's charts)

16 श्लोक

  1. श्लोक 1कुंडली के 1 नियमयद्यत्फलं नरभवेऽक्षममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम् ।तासां तु भर्तृमरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ १ ॥
  2. श्लोक 2कुंडली के 2 नियमयुग्मेषु लग्नशशिनोःप्रकृतिस्थिता स्त्री सच्छीलभूषणयुता शुभदृष्टयोश्च ।ओजःस्थयोश्च मनुजाकृतिशीलयुक्ता पापा च पापयुतवीक्षितयोर्गुणोना ॥ २ ॥
  3. श्लोक 3कन्यैव दुष्टा व्रजतीह दास्यं साध्वी समाया कुचरित्रयुक्ता ।भूम्यात्मजर्क्षे क्रमशोंऽशकेषु वक्रार्किजीवेन्दुजभार्गवानाम् ॥ ३ ॥
  4. श्लोक 4कुंडली के 4 नियमदुष्टा पुनर्भूः सगुणा कलाज्ञा ख्याता गुणैश्चासुरपूजितर्क्षे ।स्यात्कापटी क्लीबसमा सती च बौधे गुणाढ्या प्रविकीर्णकामा ॥ ४ ॥
  5. श्लोक 5कुंडली के 10 नियमस्वच्छन्दा पतिघातिनी बहुगुणा शिल्पिन्यसाध्वीन्दुभेन्राचारा कुलटार्कभे नृपवधू' पुञ्चेष्टितागम्यगा ।जैवे नैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सतीदासी नीचरतार्किभे पतिरता दुष्टाऽप्रजा स्वांशकैः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमशशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् ।बलाबलविकल्पेन तयोरुक्तं विचिन्तयेत् ॥ ६ ॥
  7. श्लोक 7दृक्संस्थावसितसितौ परस्परांशे शौक्रे वा यदि घटराशिसम्भवोंऽशः ।स्त्रीभिः स्त्रीमदनविषानलप्रदीप्तं संशान्तिं नयति नराकृतिस्थिताभिः ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 नियमशून्ये कापुरुषोऽबलेऽस्तभवने सौम्यग्रहावीक्षितेक्लीबोऽस्ते बुधमन्दयोश्चरगृहे नित्यं प्रवासान्वितः ।उत्सृष्टा रविणा कुजेन विधवा बाल्येऽस्तराशिस्थितेकन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां गच्छति ॥ ८ ॥
  9. श्लोक 9आग्नेयैर्विधवास्तराशिसहितैर्मिश्रैः पुनर्भूर्भवेत्क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रोज्झिता ।अन्योन्यांशगयोः सितावनिजयोरन्यप्रसक्ताङ्गनाद्यूने वा यदि शीतरश्मिसहितौ भर्तुस्तदानुज्ञया ॥ ९ ॥
  10. श्लोक 10कुंडली के 2 नियमसौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं बन्धकी पापदृष्टे ।कौजेऽस्तांशे सौरिणा व्याधियोनिश्चारुश्रोणी वल्लभा सद्ग्रहांशे ॥ १० ॥
  11. श्लोक 11कुंडली के 4 नियमवृद्धो मूर्खः सूर्यजर्क्षेऽंशके वा स्त्रीलोलः स्यात्क्रोधनश्चावनेये ।शौक्रे कान्तोऽतीवसौभाग्ययुक्तो विद्वान्भर्ता नैपुणज्ञश्च बौधे ॥ ११ ॥
  12. श्लोक 12कुंडली के 3 नियममदनवशगतो मृदुश्च चान्द्रे त्रिदशगुरौ गुणवान् जितेन्द्रियश्च ।अतिमृदुरतिकर्मकृच्च सौर्ये भवति गृहेऽस्तमयस्थितेंऽशके वा ॥ १२ ॥
  13. श्लोक 13कुंडली के 4 नियमईर्ष्यान्विता सुखपरा शशिशुक्रलग्ने ज्ञेन्द्वोः कलासु निपुणा सुखिता गुणाढ्याशुक्रज्ञयोस्तु रुचिरा सुभगा कलाज्ञा त्रिष्वप्यनेकवसुसौख्यगुणा शुभेषु ॥ १३ ॥
  14. श्लोक 14कुंडली के 1 नियमक्रूरेऽष्टमे विधवता निधनेश्वरोंऽशेयस्य स्थितो वयसि तस्य समे प्रदिष्टा ।सत्स्वर्थगेषु मरणं स्वयमेव तस्याःकन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ ॥ १४ ॥
  15. श्लोक 15कुंडली के 2 नियमसौरे मध्यबले बलेन रहितैः शीतांशुशुक्रेन्दुजैःशेषैर्वीर्यसमन्वितैः पुरुषिणी यद्योजराश्युद्गमः ।जीवारास्फुजिदैन्दवेषु बलिषु प्राग्लग्नराशौ समेविख्याता भुवि नैकशास्त्रनिपुणा स्त्री ब्रह्मवादिन्यपि ॥ १५ ॥
  16. श्लोक 16कुंडली के 2 नियमपापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन ।उद्वाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतत् ॥ १६ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।