अध्याय 23: अनिष्टाध्यायः

बृहज्जातक · Brihat Jataka, chapter 23 (Misfortune (anishta) yogas)

17 श्लोक

  1. श्लोक 1कुंडली के 3 नियमलग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथवालोकितेचन्द्राद्वा यदि सम्पदस्ति हि तयोर्ज्ञेयोऽन्यथासम्भवः ।पाथोनोदयगे रवौ रविसुतो मीनस्थितो दारहापुत्रस्थानगतश्च पुत्रमरणं पुत्रोऽवनेर्यच्छति ॥ १ ॥
  2. श्लोक 2उग्रग्रहैः सितचतुरस्रसंस्थितैर्मध्यस्थिते भृगुतनयेऽथवोग्रयोः ।सौम्यग्रहैरसहितसंनिरीक्षिते जायावधो दहननिपातपाशजः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमलग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म ।द्यूनस्थयोर्नवमपञ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ॥ ३ ॥
  4. श्लोक 4कुंडली के 2 नियमकोणोदये भृगुतनयेऽस्तचक्रसन्धौ वन्ध्यापतिर्यदि न सुतर्क्षमिष्टयुक्तम् ।पापग्रहैर्व्ययमदलग्नराशिसंस्थैः क्षीणे शशिन्यसुतकलत्रजन्म धीस्थे ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 नियमअसितकुजयोर्वर्गेऽस्तस्थे सिते तदवेक्षितेपरयुवतिगस्तौ चेत्सेन्दुस्त्रिया सह पुंश्चलः ।भृगुजशशिनोरस्तेऽभार्यो नरो विसुतोऽपि वापरिणततनू नृस्त्र्योर्दृष्टौ शुभैः प्रमदापती ॥ ५ ॥
  6. श्लोक 6कुंडली के 3 नियमवंशच्छेत्ता खमदसुखगैश्चन्द्रदैत्येज्यपापैःशिल्पी त्र्यंशे शशिसुतयुते केन्द्रसंस्थार्किदृष्टे ।दास्यां जातो दितिसुतगुरौ रिःफगे सौरभागेनीचोऽर्केन्द्वोर्मदनगतयोर्दृष्टयोः सूर्यजेन ॥ ६ ॥
  7. श्लोक 7कुंडली के 4 नियमपापालोकितयोः सितावनिजयोरस्तस्थयोर्वाध्यरुक्चन्द्रे कर्कटवृश्चिकांशकगते पापैर्युते गुह्यरुक् ।श्वित्री रिःफधनस्थयोरशुभयोश्चन्द्रोदयेऽस्ते रवौचन्द्रे खेऽवनिजेऽस्तगे च विकलो यद्यर्कजो वेशिगः ॥ ७ ॥
  8. श्लोक 8कुंडली के 3 नियमअन्तः शशिन्यशुभयोर्मृगगे पतङ्गे श्वासक्षयप्लिहकविद्रधिगुल्मभाजः ।शोषी परस्परगृहांशगयो रवीन्द्वोः क्षेत्रेऽथवा युगपदेकगयोः कृशो वा ॥ ८ ॥
  9. श्लोक 9कुंडली के 1 नियमचन्द्रेऽश्विमध्यझषकर्किमृगाजभागे कुष्ठी समन्दरुधिरे तदवेक्षिते वा ।यातैस्त्रिकोणमलिकर्किवृषैर्मृगे च कुष्ठी च पापसहितैरवलोकितैर्वा ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 नियमनिधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा ।बलवद्ग्रहदोषकारणैर्मनुजानां जनयन्त्यनेत्रताम् ॥ १० ॥
  11. श्लोक 11कुंडली के 2 नियमनवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः ।नियमाच्छ्रवणोपघातदा रदवैकृत्यकराश्च सप्तमे ॥ ११ ॥
  12. श्लोक 12कुंडली के 2 नियमउदयत्युडुपेऽसुरास्यगे सपिशाचोऽशुभयोस्त्रिकोणयोः ।सोपप्लवमण्डले रवावुदयस्थे नयनापवर्जितः ॥ १२ ॥
  13. श्लोक 13कुंडली के 3 नियमसंस्पृष्टः पवनेन मन्दगयुते द्यूने विलग्ने गुरौसोन्मादोऽवनिजे स्थितेऽस्तभवने जीवे विलग्नाश्रिते ।तद्वत्सूर्यसुतोदयेऽवनिसुते धर्मात्मजद्यूनगेजातो वा ससहस्ररश्मितनये क्षीणे व्यये शीतगौ ॥ १३ ॥
  14. श्लोक 14राश्यंशपोष्णकरशीतकरामरेज्यैर्नीचाधिपांशकगतैररिभागगैर्वा ।एभ्योऽल्पमध्यबहुभिः क्रमशः प्रसूता ज्ञेयाः स्युरभ्युपगमक्रयगर्भदासाः ॥ १४ ॥
  15. श्लोक 15कुंडली के 5 नियमविकृतदशनः पापैर्दृष्टे वृषाजहयोदयेखलतिरशुभक्षेत्रे लग्ने हये वृषभेऽपि वा ।नवमसुतगे पापैर्दृष्टे रवावदृढेक्षणोदिनकरसुते नैकव्याधिः कुजे विकलः पुमान् ॥ १५ ॥
  16. श्लोक 16कुंडली के 5 नियमव्ययसुतधनधर्मगैरसौम्यैर्भवनसमाननिबन्धनं विकल्प्यम् ।भुजगनिगडपाशभृद्दृकाणैर्बलवदसौम्यनिरीक्षितैश्च तद्वत् ॥ १६ ॥
  17. श्लोक 17कुंडली के 5 नियमपरुषवचनोऽपस्मारार्तः क्षयी च निशापतौसरवितनये वक्रालोकं गते परिवेषगे ।रवियमकुजैः सौम्यादृष्टैर्नभस्स्थलमाश्रितै-र्भृतकमनुजः पूर्वोद्दिष्टैर्वराधममध्यमाः ॥ १७ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।