अध्याय 22: प्रकीर्णाध्यायः

बृहज्जातक · Brihat Jataka, chapter 22 (Miscellaneous)

6 श्लोक

  1. श्लोक 1कुंडली के 1 नियमस्वर्क्षतुङ्गमूलत्रिकोणगाः कण्टकेषु यावन्त आश्रिताः ।सर्व एव तेऽन्योन्यकारकाः कर्मगस्तु तेषां विशेषतः ॥ १ ॥
  2. श्लोक 2कुंडली के 1 नियमकर्कटोदयगते यथोडुपे स्वोच्चगाः कुजयमार्कसूरयः ।कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्बराम्बुगः ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमस्वत्रिकोणोच्चगो हेतुरन्योन्यं यदि कर्मगः ।सुहृत्तद्गुणसम्पन्नः कारकश्चापि स स्मृतः ॥ ३ ॥
  4. श्लोक 4कुंडली के 3 नियमशुभं वर्गोत्तमे जन्म वेशिस्थाने च सद्ग्रहे ।अशून्येषु च केन्द्रेषु कारकाख्यग्रहेषु च ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 नियममध्ये वयसः सुखप्रदाः केन्द्रस्था गुरुजन्मलग्नपाः ।पृष्ठोभयकोदयर्क्षगास्त्वन्तेऽन्तः प्रथमेषु पाकदाः ॥ ५ ॥
  6. श्लोक 6कुंडली के 1 नियमदिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ ।रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालम् ॥ ६ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।