अध्याय 21: आश्रययोगाध्यायः

बृहज्जातक · Brihat Jataka, chapter 21 (Planets in their own, exalted, friendly and other signs (ashraya))

10 श्लोक

  1. श्लोक 1कुंडली के 14 नियमकुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभोगिनृपाः स्वभैकवृद्ध्या ।परविभवसुहृत्स्वबन्धुपोष्या गणपबलेशनृपाश्च मित्रभेषु ॥ १ ॥
  2. श्लोक 2कुंडली के 8 नियमजनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरधनसमेतं मित्रयोगाच्च सिद्धम् ।विधनविसुखमूढव्याधितो बन्धतप्तो वधदुरितसमेतः शत्रुनीचर्क्षगेषु ॥ २ ॥
  3. श्लोक 3कुंडली के 1 नियमन कुम्भलग्नं शुभमाह सत्यो न भागभेदाद्यवना वदन्ति ।कस्यांशभेदो न तथास्ति राशेरतिप्रसङ्गस्त्विति विष्णुगुप्तः ॥ ३ ॥
  4. श्लोक 4कुंडली के 2 नियमयातेष्वसत्स्वसमभेषु दिनेशहोरां ख्यातो महोद्यमबलार्थयुतोऽतितेजाः ।चान्द्रीं शुभेषु युजि मार्दवकान्तिसौख्यसौभाग्यधीमधुरवाक्ययुतः प्रजातः ॥ ४ ॥
  5. श्लोक 5कुंडली के 2 नियमतास्वेव होरास्वपरर्क्षगेषु ज्ञेया नराः पूर्वगुणेषु मध्याः ।व्यत्यस्तहोराभवनस्थितेषु मर्त्या भवन्त्युक्तगुणैर्विहीनाः ॥ ५ ॥
  6. श्लोक 6कुंडली के 6 नियमकल्याणरूपगुणमात्मसुहृद्दृकाणे चन्द्रोऽन्यगस्तदधिनाथगुणं करोति ।व्यालोद्यतायुधचतुश्चरणाण्डजेषु तीक्ष्णोऽतिहिंस्रगुरुतल्परतोऽटनश्च ॥ ६ ॥
  7. श्लोक 7कुंडली के 25 नियमस्तेनो भोक्ता पण्डिताढ्यो नरेन्द्रः क्लीबः शूरो विष्टिकृद्दासवृत्तिः ।पापो हिंस्रोऽभीश्च वर्गोत्तमांशेष्वेषामीशा राशिवद्द्वादशांशैः ॥ ७ ॥
  8. श्लोक 8कुंडली के 2 नियमजायान्वितो बलविभूषणसत्त्वयुक्तस्तेजोऽतिसाहसयुतश्च कुजे स्वभागे ।रोगी मृतस्वयुवतिर्विषमोऽन्यदारो दुःखी परिच्छदयुतो मलिनोऽर्कपुत्रे ॥ ८ ॥
  9. श्लोक 9कुंडली के 2 नियमस्वांशे गुरौ धनयशःसुखबुद्धियुक्तास्तेजस्विपूज्यनिरुगुद्यमभोगवन्तः ।मेधाकलाकपटकाव्यविवादशिल्पशास्त्रार्थसाहसयुताःशशिजेऽतिमान्याः ॥ ९ ॥
  10. श्लोक 10कुंडली के 11 नियमस्वे त्रिंशांशे बहुसुतसुखारोग्यभाग्यार्थरूपःशुक्रे तीक्ष्णः सुललितवपुः सुप्रकीर्णेन्द्रियश्च ।शूरस्तब्धौ विषमवधकौ सद्गुणाढ्यौ सुखिज्ञौचार्वङ्गेष्टौ रविशशियुतेष्वारपूर्वांशकेषु ॥ १० ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।