अध्याय 20: भावाध्यायः

बृहज्जातक · Brihat Jataka, chapter 20 (The planets in each house)

11 श्लोक

  1. श्लोक 1कुंडली के 2 नियमशूरः स्तब्धो विकलनयनो निर्घृणोऽर्के तनुस्थेमेषे सस्वस्तिमिरनयनः सिंहसंस्थे निशान्धः ।नीचेऽन्धोऽस्वः शशिगृहगते बुद्बुदाक्षः पतङ्गेभूरिद्रव्यो नृपहृतधनो वक्त्ररोगी द्वितीये ॥ १ ॥
  2. श्लोक 2कुंडली के 4 नियममतिविक्रमवांस्तृतीयगेऽर्के विसुखः पीडितमानसश्चतुर्थे ।असुतो धनवर्जितस्त्रिकोणे बलवाञ्छत्रजितश्च शत्रुयाते ॥ २ ॥
  3. श्लोक 3कुंडली के 6 नियमस्त्रीभिर्गतः परिभवं मदगे पतङ्गे स्वल्पात्मजो निधनगे विकलेक्षणश्च ।धर्मे सुतार्थसुखभाक् सुखशौर्यभाक्खे लाभे प्रभूतधनवान्पतितस्तु रिःफे ॥ ३ ॥
  4. श्लोक 4कुंडली के 6 नियममूकोन्मत्तजडान्धहीनबधिरप्रेष्याः शशाङ्कोदयेस्वर्क्षाजोच्चगते धनी बहुसुतः सस्वः कुटुम्बी धने ।हिंस्रो भ्रातृगते सुखे सतनये तत्प्रोक्तभावान्वितोनैकारिर्मृदुकायवह्निमदनस्तीक्ष्णोऽलसश्चारिगे ॥ ४ ॥
  5. श्लोक 5कुंडली के 6 नियमईर्ष्युस्तीव्रमदो मदे बहुमतिर्व्याध्यर्दितश्चाष्टमेसौभाग्यात्मजमित्रबन्धुधनभाग् धर्मस्थिते शीतगौ ।निष्पत्तिं समुपैति धर्मधनधीशौर्यैर्युतः कर्मगेख्यातो भावगुणान्वितो भवगते क्षुद्रोऽङ्गहीनोव्यये ॥ ५ ॥
  6. श्लोक 6कुंडली के 23 नियमलग्ने कुजे क्षततनुर्धनगे कदन्नो धर्मेऽघवान्दिनकरप्रतिमोऽन्यसंस्थः ।विद्वान्धनी प्रखलपण्डितमन्त्र्यशत्रुर्धर्मज्ञविश्रुतगुणः परतोऽर्कवज्ज्ञे ॥ ६ ॥
  7. श्लोक 7कुंडली के 12 नियमविद्वान्सुवाक्यः कृपणः सुखी च धीमानशत्रुः पितृतोऽधिकश्च ।नीचस्तपस्वी सधनः सलाभः खलश्च जीवे क्रमशो विलग्नात् ॥ ७ ॥
  8. श्लोक 8कुंडली के 12 नियमस्मरनिपुणः सुखितश्च विलग्ने प्रियकलहोऽस्तगते सुरतेप्सुः ।तनयगते सुखितो भृगुपुत्रे गुरुवदतोऽन्यगृहे सधनोऽन्त्ये ॥ ८ ॥
  9. श्लोक 9कुंडली के 12 नियमअदृष्टार्थो रोगी मदनवशगोऽत्यन्तमलिनःशिशुत्वे पीडार्त्तः सवितृसुतलग्ने त्वलसवाक् ।गुरुस्वर्क्षोच्चस्थे नृपतिसदृशो ग्रामपुरपःसुविद्वांश्चार्वङ्गो दिनकरसमोऽन्यत्र कथितः ॥ ९ ॥
  10. श्लोक 10कुंडली के 1 नियमसुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां फलमनुपरिचिन्त्यं लग्नदेहादिभावैः ।समुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतं रिःफषष्ठाष्टमेषु ॥ १० ॥
  11. श्लोक 11कुंडली के 1 नियमउच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः ।शुभं सम्पूर्णपादोनदलपादाल्पनिष्फलम् ॥ ११ ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।