अध्याय 1: सृष्टिक्रमकथनाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 1 (Srishti Kram)
24 श्लोक
- श्लोक 1अथैकदा मुनिश्रेष्ठं त्रिकालज्ञं पराशरम् ।पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृतांजलिः ॥ 1 ॥
- श्लोक 2भगवन् ! परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् ।त्रिस्कन्धं ज्यौतिषं होरागणितं संहितेति च ॥ 2 ॥
- श्लोक 3एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने ! ।त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥ 3 ॥
- श्लोक 4कथं सृष्टिरियं जाता जगतश्च लयः कथम् ! ।खस्थानां भूस्थितानां च सम्बन्धं वद विस्तरात् ॥ 4 ॥
- श्लोक 5साधु पृष्टं त्वया विप्र ! लोकानुग्रहकारिणा ।अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥ 5 ॥
- श्लोक 6सूर्यं नत्वा ग्रहपतिं जगदुत्पत्तिकारणम् ।वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥ 6 ॥
- श्लोक 7शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने ।आस्तिकाय प्रदातव्यं ततः श्रेयो ह्यवाप्स्यति ॥ 7 ॥
- श्लोक 8न देयं परशिष्याय नास्तिकाय शठाय वा ।दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ 8 ॥
- श्लोक 9एकोऽव्यक्तात्मकोविष्णुरनादिःप्रभुरीश्वरः ।शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ 9 ॥
- श्लोक 10संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।एकांशेन जगत्सर्वं सृजत्यवति लीलया ॥ 10 ॥
- श्लोक 11त्रिपादं तस्य देवस्य ह्यमृतं तत्त्वदर्शिनः ।विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥ 11 ॥
- श्लोक 12व्यक्ताऽव्यक्तात्मकोविष्णुर्वासुदेवस्तुगीयते ।यदव्यक्तात्मको विष्णुः शक्तिद्वयसमन्वितः ॥ 12 ॥
- श्लोक 13व्यक्तात्मकस्त्रिभिर्युक्तःकथ्यतेऽनन्तशक्तिमान् ।सत्त्वप्रधाना श्रीशक्तिर्भूशक्तिश्च रजोगुणा ॥ 13 ॥
- श्लोक 14शक्तिस्तृतीयायाप्रोक्तानीलाख्याध्वान्तरूपिणी ।वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥ 14 ॥
- श्लोक 15वासुदेवश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् ।तमःशक्त्याऽन्वितो विष्णुर्देवः सङ्कर्षणाभिधः ॥ 15 ॥
- श्लोक 16प्रद्युम्नो रजसा शक्त्याऽनिरुद्धः सत्त्वया युतः ।महान् संकर्षणाज्जातः प्रद्युम्नादहंकृतिः ॥ 16 ॥
- श्लोक 17अनिरुद्धात् स्वयं जातो ब्रह्माहंकारमूर्तिधृक् ।सर्वेषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥ 17 ॥
- श्लोक 18अहंकारस्त्रिधा भूत्वा सर्वमेतदविस्तरात् ।सात्विको राजसश्चैव तामसश्चेत्यहंकृतिः ॥ 18 ॥
- श्लोक 19देवावैकारिकाज्जातास्तैजसादिन्द्रियाणि च ।तामसाच्चैव भूतानि खादीनि स्व-स्वशक्तिभिः ॥ 19 ॥
- श्लोक 20श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् ।भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ 20 ॥
- श्लोक 21सर्वेषु चैव जीवेषु परमात्मा विराजते ।सर्वं हि तदिदं ब्रह्मन् ! स्थितं हि परमात्मनि ॥ 21 ॥
- श्लोक 22सर्वेषु चैव जीवेषु स्थितं ह्यंशद्वयं क्वचित् ।जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥ 22 ॥
- श्लोक 23सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः ।एते चान्ये च बहवः परमात्मांशकाधिकाः ॥ 23 ॥
- श्लोक 24शक्तयश्च तथैतेषामधिकांशाः श्रियादयः ।स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥ 24 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।