अध्याय 2: अवतारकथनाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 2 (Avatar Kathan)
13 श्लोक
- श्लोक 1रामकृष्णादयो ये ये ह्यवतारा रमापतेः ।तेऽपि जीवांशसंयुक्ताः किं वा ब्रूहि मुनीश्वर ॥ 1 ॥
- श्लोक 2रामः कृष्णश्च भो विप्र ! नृसिंहः सूकरस्तथा ।एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥ 2 ॥
- श्लोक 3अवताराण्यनेकानि ह्यजस्य परमात्मनः ।जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥ 3 ॥
- श्लोक 4दैत्यानां बलनाशाय देवानां बलवृद्धये ।धर्मसंस्थापनार्थाय ग्रहाज्जाताः शुभाः क्रमात् ॥ 4 ॥
- श्लोक 5रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः ।नृसिंहो भूमिपुत्रस्य बुधः सोमसुतस्य च ॥ 5 ॥
- श्लोक 6वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च ।कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः ॥ 6 ॥
- श्लोक 7केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः ।परात्मांशोऽधिको येषु ते सर्वे खेचराभिधाः ॥ 7 ॥
- श्लोक 8जीवांशो ह्यधिको येषु जीवास्ते वै प्रकीर्तिताः ।सूर्यादिभ्यो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥ 8 ॥
- श्लोक 9रामकृष्णादयः सर्वे ह्यवतारा भवन्ति वै ।तत्रैव ते विलीयन्ते पुनः कार्योत्तरे सदा ॥ 9 ॥
- श्लोक 10जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः ।तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥ 10 ॥
- श्लोक 11इदं ते कथितं विप्र ! सर्वं यस्मिन् भवेदिति ।भूतान्यपि भविष्यन्ति तत्तज्जानन्ति तद्विदः ॥ 11 ॥
- श्लोक 12विना तज्ज्यौतिषं नान्योज्ञातुं शक्नोति कर्हिचित् ।तस्मादवश्यमध्येयं ब्राह्मणैश्च विशेषतः ॥ 12 ॥
- श्लोक 13यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति ।रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥ 13 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।