अध्याय 3: ग्रहगुणस्वरूपाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 3 (Grah Gun Swaroop)

87 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1कथितं भवता प्रेम्णा ग्रहावतारणं मुने ! ।तेषां गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥ 1 ॥
  2. श्लोक 2शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् ।आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बान्यनेकशः ॥ 2 ॥
  3. श्लोक 3तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित्‌ ।तानि नक्षत्रनामानि स्थिरस्थानानि यानि वै ॥ 3 ॥
  4. श्लोक 4गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहाः ।भचक्रस्य नगाक्ष्यंशा अश्विन्यादि-समाह्वयाः ॥ 4 ॥
  5. श्लोक 5तद्द्वादशविभागास्तु तुल्या मेषादिसंज्ञकाः ।प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसंज्ञकाः ॥ 5 ॥
  6. श्लोक 6राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम्‌ ।ग्रहयोग-वियोगाभ्यां फलं चिन्त्यं शुभाशुभम्‌ ॥ 6 ॥
  7. श्लोक 7संज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः ।एतच्छास्त्रानुसारेण राशि-खेटफलं ब्रुवे ॥ 7 ॥
  8. श्लोक 8यस्मिन् काले यतः खेटा यान्ति दृग्गणितैक्यताम् ।तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विदा ॥ 8 ॥
  9. श्लोक 9भूकेन्द्रदृग्भवैः साध्यं लग्नं राश्युदयैः स्फुटम्‌ ।अदृष्टफलसिद्ध्यर्थं भबिम्बीयैर्बुधः सदा ॥ 9 ॥
  10. श्लोक 10लग्नं दृष्टफलार्थं तु स्वस्थानीयैर्भवृत्तजैः ।अथादौ वच्मि खेटानां जातिरूपगुणानहम्‌ ॥ 10 ॥
  11. श्लोक 11अथ खेटा रविश्चन्द्रो मंगलश्च बुधस्तथा ।गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम्‌ ॥ 11 ॥
  12. श्लोक 12तत्रार्क-शनि-भूपुत्राः क्षीणेन्दु-राहु-केतवः ।क्रूराः, शेषग्रहाः सौम्याः, क्रूरः क्रूर-युतो बुधः ॥ 12 ॥
  13. श्लोक 13सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः ।सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥ 13 ॥
  14. श्लोक 14देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदायकः ।ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥ 14 ॥
  15. श्लोक 15रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः ।बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥ 15 ॥
  16. श्लोक 16प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ ।एवं क्रमेण वै विप्र ! सूर्यादीन्‌ प्रविचिन्तयेत्‌ ॥ 16 ॥
  17. श्लोक 17रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः ।नात्युच्चांगः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥ 17 ॥
  18. श्लोक 18गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च ।कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥ 18 ॥
  19. श्लोक 19वह्न्यम्बुशिखिजा विष्णुविडौजःशचिका द्विज ! ।सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥ 19 ॥
  20. श्लोक 20क्लीबौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज ।नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥ 20 ॥
  21. श्लोक 21अग्नि भूमिनभस्तोयवायवः क्रमतो द्विज ! ।भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम्‌ ॥ 21 ॥
  22. श्लोक 22गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज ! ।शशिसौम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम ॥ 22 ॥
  23. श्लोक 23जीवसूर्येन्दवः सत्त्वं बुधशुक्रौ रजस्तथा ।सूर्यपुत्रधरापुत्रौ तमःप्रकृतिकौ द्विज ॥ 23 ॥
  24. श्लोक 24मधुपिंगलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज ! ।पित्तप्रकृतिको धीमान्‌ पुमानल्पकचो द्विज ॥ 24 ॥
  25. श्लोक 25बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विज ।शुभदृङ्मधुवाक्यश्च चंचलो मदनातुरः ॥ 25 ॥
  26. श्लोक 26क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः ।पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥ 26 ॥
  27. श्लोक 27वपुःश्रेष्ठः श्लिष्टवाक्‌, च ह्यतिहास्यरुचिर्बुधः ।पित्तवान्‌ कफवान्‌ विप्र ! मारुतप्रकृतिस्तथा ॥ 27 ॥
  28. श्लोक 28बृहद्गात्रो गुरुश्चैव पिंगलो मूर्धजेक्षणैः ।कफप्रकृतिको धीमान्‌ सर्वशास्त्रविशारदः ॥ 28 ॥
  29. श्लोक 29सुखी कान्तवपुः श्रेष्ठः सुनेत्रश्च भृगोः सुतः ।काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥ 29 ॥
  30. श्लोक 30कृशदीर्घतनुः सौरिः पिंगदृगनिलात्मकः ।स्थूलदन्तोऽलसः पङ्गुः खररोमकचो द्विज ॥ 30 ॥
  31. श्लोक 31धूम्राकारो नीलतनुर्वनस्थोऽपि भयंकरः ।वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥ 31 ॥
  32. श्लोक 32अस्थि रक्तस्तथा मज्जा त्वग्‌ वसा वीर्यमेव च ।स्नायुरेषामधीशाश्च क्रमात्‌ सूर्यादयो द्विज ॥ 32 ॥
  33. श्लोक 33देवालयजलं वह्निक्रीडादीनां तथैव च ।कोशशय्योत्कराणां तु नाथाः सूर्यादयः क्रमात्‌ ॥ 33 ॥
  34. श्लोक 34अयनक्षणवारर्तुमासपक्षसमा द्विज ! ।सूर्यादीनां क्रमाज्ज्ञेया निर्विशंकं द्विजोत्तम ॥ 34 ॥
  35. श्लोक 35कटु-क्षार-तिक्त-मिश्र-मधुराम्ल-कषायकाः ।क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥ 35 ॥
  36. श्लोक 36बुधेज्यौ बलिनौ पूर्वे रवि-भौमौ च दक्षिणे ।पश्चिमे सूर्यपुत्रश्च सित-चन्द्रौ तथोत्तरे ॥ 36 ॥
  37. श्लोक 37निशायां बलिनश्चन्द्र-कुज-सौरा भवन्ति हि ।सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥ 37 ॥
  38. श्लोक 38कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते ।सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥ 38 ॥
  39. श्लोक 39वर्षमासाहहोराणां पतयो बलिनस्तथा ।शमंबुगुशुचंराद्या वृद्धितो वीर्यवत्तराः ॥ 39 ॥
  40. श्लोक 40सूर्यो जनयति स्थूलान्‌ दुर्भगान्‌ सूर्यपुत्रकः ।क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान्‌ धरासुतः ॥ 40 ॥
  41. श्लोक 41पुष्पवृक्षं भृगोः पुत्रो गुरुज्ञौ सफलाफलौ ।नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥ 41 ॥
  42. श्लोक 42शिखि स्वर्भानुमन्दानां वल्मीकं स्थानमुच्यते ।चित्रकन्था फणीन्द्रस्य केतोश्छिद्रयुतो द्विज ॥ 42 ॥
  43. श्लोक 43सीसं राहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ।गुरोः पीताम्बरं विप्र ! भृगोः क्षौमं तथैव च ॥ 43 ॥
  44. श्लोक 44रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ।बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च ।वस्त्रं चित्रं शनेर्विप्र ! पट्टवस्त्रं तथैव च ॥ 44 ॥
  45. श्लोक 45भृगोर्ऋतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः ।चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥ 45 ॥
  46. श्लोक 46हेमन्तोऽपिगुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज ! ।अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥ 46 ॥
  47. श्लोक 47राह्वार पंगुचन्द्राश्च विज्ञेया धातुखेचराः ।मूलग्रहौ सूर्यशुक्रौ अपरा जीवसंज्ञकाः ॥ 47 ॥
  48. श्लोक 48ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः ।नैसर्गिके बहुसमान्‌ ददाति द्विजसत्तम ॥ 48 ॥
  49. श्लोक 49मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला ।सूर्यादीनां क्रमादेते कथिता उच्चराशयः ॥ 49 ॥
  50. श्लोक 50भागादशत्रयोऽष्टाश्व्य स्तिथ्योऽक्षाभमिता नखाः ।उच्चात्‌ सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम्‌ ॥ 50 ॥
  51. श्लोक 51रवेः सिंहे नखांशाश्च त्रिकोणमपरे गृहम्‌ ।उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ॥ 51 ॥
  52. श्लोक 52मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम्‌ ।उच्चं बुधस्य कन्यायामुक्तं पंचदशांशकम्‌ ॥ 52 ॥
  53. श्लोक 53ततः पंचांशकाः प्रोक्तं त्रिकोणमपरे गृहम् ।चापे दशांशा जीवस्य त्रिकोणांशाः परे मताः ॥ 53 ॥
  54. श्लोक 54तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे गृहम्‌ ।शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम्‌ ॥ 54 ॥
  55. श्लोक 55रवेः समोज्ञः सितसूर्यपुत्रावरी परे तु सुहृदो भवेयुः ।चन्द्रस्य नारी रविचन्द्रपुत्रौ मित्रे समाः शेष नभश्चराः स्युः ॥ 55 ॥
  56. श्लोक 56समौ सितार्की शशिजश्च शत्रुर्मित्राणि शेषाः पृथिवीसुतस्य ।शत्रुः शशी सूर्यसितौ च मित्रे समाः परे स्युः शशिनन्दनस्य ॥ 56 ॥
  57. श्लोक 57गुरोर्ज्ञशुक्रौ रिपुसंज्ञकौ तु शनिः समोऽन्ये सुहृदो भवन्ति ।शुक्रस्य मित्रे बुधसूर्यपुत्रौ समौ कुजार्यावितरावरी तौ ॥ 57 ॥
  58. श्लोक 58शनेः समो वाक्पतिरिन्दुसूनुशुक्रौ च मित्रे रिपवः परेपि ।ध्रुवं ग्रहाणां चतुराननेन शत्रुत्वमित्रत्वसमत्वमुक्तम्‌ ॥ 58 ॥
  59. श्लोक 59दशायबन्धुसहजस्वान्त्यस्थास्ते परस्परम्‌ ।तत्काले सुहृदोऽन्यत्र संस्थिताः रिपवो मताः ॥ 59 ॥
  60. श्लोक 60तत्काले च निसर्गे च मित्रं स्यादधिमित्रकम्‌ ।मित्रं मित्रसमत्वेतु शत्रुः शत्रुसमत्वके ॥ 60 ॥
  61. श्लोक 61समो मित्ररिपुत्वे तूभयत्राधिरिपू रिपौ ।एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥ 61 ॥
  62. श्लोक 62स्वोच्चे शुभं बलं पूर्ण त्रिकोणे पादवर्जितम्‌ ।स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम्‌ ॥ 62 ॥
  63. श्लोक 63पादार्धं समभे प्रोक्तं शून्यं नीचास्त शत्रुभे ।तद्वद्‌ दुष्टफलं ब्रूयाद्‌ व्यत्ययेन विचक्षणः ॥ 63 ॥
  64. श्लोक 64चत्वारो राशयो भानौ सत्रिभागास्त्रयोदश ।युक्त्वा धूमो महादोषः सर्वकर्मविनाशकः ॥ 64 ॥
  65. श्लोक 65धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः ।सषड्भोऽत्र व्यतीपातः परिवेषस्तु दोषकृत् ॥ 65 ॥
  66. श्लोक 66परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः ।वित्र्यंशात्यष्टिभागाढ्यश्चापः केतुः खगोऽशुभः ॥ 66 ॥
  67. श्लोक 67एकराशियुतः केतुः सूर्यतुल्यः प्रजायते ।अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥ 67 ॥
  68. श्लोक 68सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम्‌ ।इति धूमादि दोषाणां स्थितिः पद्मासनोदिता ॥ 68 ॥
  69. श्लोक 69रविवारादिशन्यन्तं गुलिकादि निरूप्यते ।दिवसानष्टधा कृत्वा वारेशाद् गणयेत् क्रमात् ॥ 69 ॥
  70. श्लोक 70अष्टमोऽंशो निरीशः स्याच्छन्यंशो गुलिकः स्मृतः ।रात्रिमप्यष्टधाकृत्वा वारेशात्पंचमादितः ॥ 70 ॥
  71. श्लोक 71गणयेदष्टमः खण्डो निरीशः परिकीर्तितः ।शन्यंशो गुलिकः प्रोक्तो रव्यंशः कालसंज्ञकः ॥ 71 ॥
  72. श्लोक 72भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्टकः ।सौम्यांशोऽर्धप्रहरकः स्पष्टकर्मप्रदेशकः ॥ 72 ॥
  73. श्लोक 73गुलिकारम्भकाले यत्‌ स्फुटं यज्जन्मकालिकम्‌ ।गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत्‌ ।नामान्तरं तु तस्यैव मान्दिरित्यभिधीयते ॥ 73 ॥
  74. श्लोक 74भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात्‌ ।उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत्‌ ॥ 74 ॥
  75. श्लोक 75स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत्‌ ।चरागद्विभगे भागे भानौ युङ्‌ नवमे सुते ॥ 75 ॥
  76. श्लोक 76स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम ।लग्नाद्‌ द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥ 76 ॥
  77. श्लोक 77शुभं जन्म विजानीयात्‌ तथैवैकादशेऽपि च ।अन्य स्थाने स्थितं चेत्‌ स्यात्‌ तदा जन्माशुभं वदेत्‌ ॥ 77 ॥
  78. श्लोक 78घटी चतुर्गुणा कार्या तिथ्याप्तश्च पलैर्युता ।दिनकरेणापहृतं शेषं प्राणपदं स्मृतम्‌ ॥ 78 ॥
  79. श्लोक 79शेषात्पलान्ताद्‌ द्विगुणीविधाय राश्यंशसूर्यक्षनियोजिताय ।तत्रापि तद्राशिचरान्‌ क्रमेण लग्नांश प्राणांश पदैक्यता स्यात्‌ ॥ 79 ॥
  80. श्लोक 80यदैतत् जन्म लग्नं वै तन्निषेकस्य चन्द्रमाः ।जन्मचन्द्रस्य राश्यादि तल्लग्नं वै निषेकजम् ॥ 80 ॥
  81. श्लोक 82लब्धमाधानगतभं जन्मपूर्वकं मासकम्‌ ।शिष्टा संख्यातु विप्रेन्द्र ! खरसघ्ना तु भाजिता ॥ 82 ॥
  82. श्लोक 83खशून्य वसुभिश्चैव ह्याधानसमकालकम् ।यस्मिन् काले भयुक्तं तन्मध्यमेष्टं तदेव हि ॥ 83 ॥
  83. श्लोक 84तस्मात्‌ प्रसाधयेत्‌ सूर्य भोग्यकालं ततो नयेत्‌ ।जन्मचन्द्रस्य भुक्तं वै कालमानीय यत्नतः ॥ 84 ॥
  84. श्लोक 85जन्मकालीन चन्द्रस्तु गर्भलग्नं विदुर्बुधाः ।लग्नस्पष्टं ततः कुर्यात्‌ सुविचार्य तपोधन ॥ 85 ॥
  85. श्लोक 86अस्य लग्नस्य राश्यादि जन्मेन्दोश्च तथैव हि ।मैत्रेय ! सुमहाप्राज्ञ ! समासन्नगतं भवेत्‌ ॥ 86 ॥
  86. श्लोक 87आधान चन्द्रस्पष्टं च जन्मलग्न समं भवेत्‌ ।एवं संसाधनीयं च गर्भजन्म भवं फलम्‌ ॥ 87 ॥
  87. श्लोक 88यावत्‌ साम्यं भवेदेतत्‌ तावत्कुर्यादतन्द्रितः ।इष्टशोधनमेतत्तु यथा शम्भुप्रणोदितम्‌ ।साधारणं सुसम्प्रोक्तं ज्ञेयं विस्तरमन्यतः ॥ 88 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।