अध्याय 4: राशिस्वरूपाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 4 (Rashi Swaroop)

38 श्लोक · 4 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1यदव्यक्तात्मको विष्णुः कालरूपोजनार्दनः ।तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराशयः ॥ 1 ॥
  2. श्लोक 2अहोरात्रस्य पूर्वान्त्यलोपाद्‌ होरेति प्रोच्यते ।तस्य विज्ञानमात्रेण जातकर्मफलं वदेत्‌ ॥ 2 ॥
  3. श्लोक 3मेषो वृषश्च मिथुनः कर्कसिंह कुमारिकाः ।तुलाली च धनुर्नक्रे कुम्भो मीनस्ततः परम्‌ ॥ 3 ॥
  4. श्लोक 4शीर्षाननौ तथा बाहू हृत्क्रोडकटिबस्तयः ।गुह्योरुजानुयुग्मे वै युगले जंघकं तथा ॥ 4 ॥
  5. श्लोक 5चरणौ द्वौ तथा लग्नाज्ज्ञेया शीर्षादयः क्रमात्‌ ।चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥ 5 ॥
  6. श्लोक 6पित्तानिलत्रिधा त्वैक्यं श्लेष्मिकाश्च क्रियादयः ।रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥ 6 ॥
  7. श्लोक 7पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ 7 ॥
  8. श्लोक 8श्वेतः शुक्राधिपो दीर्घः चतुष्पाच्छर्वरी बली ।याम्येट्‌ ग्राम्यो वणिग्भूमिः रजी पृष्ठोदयी वृषः ॥ 8 ॥
  9. श्लोक 9शीर्षोदयी नृमिथुनं सगदं च सवीणकम् ।प्रत्यक्स्वामिद्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥ 9 ॥
  10. श्लोक 10समगात्रो हरिद्वर्णो मिथुनाख्यो बुधाधिपः ।पाटलो वनचारी च ब्राह्मणो निशिवीर्यवान्‌ ॥ 10 ॥
  11. श्लोक 11बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली ।पृष्ठोदयी कर्कराशिर्मृगांकाधिपतिः स्मृतः ॥ 11 ॥
  12. श्लोक 12सिंहः सूर्याधिपः सत्त्वी चतुष्पात्क्षत्रियो बली ।शीर्षोदयी बृहद्गात्रः पाण्डुः पूर्वेट् द्युवीर्यवान् ॥ 12 ॥
  13. श्लोक 13पार्वतीयोऽथ कन्याख्यो राशिर्दिनबलान्वितः ।शीर्षोदयश्च मध्यमांगो द्विपाद्याम्यचरः स्मृतः ॥ 13 ॥
  14. श्लोक 14ससस्यदहना वैश्या चित्रवर्णा प्रभंजिनी ।कुमारी तमसा युक्ता बालभावा बुधाधिपः ॥ 14 ॥
  15. श्लोक 15शीर्षोदयी द्युवीर्याढ्यस्तुलः शूद्रो रजोगुणी ।पश्चिमेट्‌ भूचरः शुक्राधिपो मध्यतनुर्द्विपात्‌ ॥ 15 ॥
  16. श्लोक 16शीर्षोदयोऽथ स्वल्पांगो बहुपाद्ब्राह्मणो बिली ।सौम्यस्थो दिनवीर्याढ्यः पिशंगो जलभूचरः ॥ 16 ॥
  17. श्लोक 17रोमस्वाढ्योऽतितीक्ष्णांगो वृश्चिकश्च कुजाधिपः ।पृष्ठोदयोऽश्वजङ्घोऽथ गुर्वीशः सात्त्विको धनुः ॥ 17 ॥
  18. श्लोक 18पिंगलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपात्‌ ।आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥ 18 ॥
  19. श्लोक 19पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः ।मन्दाधिपस्तमी भौमी याम्येट्‌ च निशि वीर्यवान्‌ ॥ 19 ॥
  20. श्लोक 20पृष्ठोदयी बृहद्गात्रः मकरो जलेभूचरः ।आदौ चतुष्पदोऽन्ते तु‌ विपदो जलगो मतः ॥ 20 ॥
  21. श्लोक 21कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनु द्विपात्‌ ।द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥ 21 ॥
  22. श्लोक 22शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।मीनौ पुच्छास्य संलग्नौ मीनराशिर्दिवाबली ॥ 22 ॥
  23. श्लोक 23जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः ।अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥ 23 ॥
  24. श्लोक 24सुराचार्याधिपश्चास्य राशीनां गदिता गुणाः ।त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥ 24 ॥
  25. श्लोक 25दिवा शीर्षोदयश्चैव सन्ध्यायामुभयोदयाः ।नक्तं पृष्ठोदयाश्चैव बलाधिक्या उदीरिताः ॥ 25 ॥
  26. श्लोक 26अथातः सम्प्रवक्ष्यामि श्रृणुष्व मुनिपुंगव ।जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥ 26 ॥
  27. श्लोक 27तदहं संप्रवक्ष्यामि मैत्रेय त्वं विधारय ।जन्म लग्नात्‌ परिज्ञानं निषेकं सर्व जन्तुषु ॥ 27 ॥
  28. श्लोक 28यस्मिन्भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम्‌ ।लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥ 28 ॥
  29. श्लोक 29मासादि तन्मितं ज्ञेयं जन्मतः प्राक्‌ निषेकजम्‌ ।यद्यदृश्यदलेऽङ्गेशस्तदेन्दोर्भुक्तभागयुक्‌ ॥ 29 ॥
  30. श्लोक 30तत्काले साधयेल्लग्नं शोधयेत्पूर्ववत्‌ तनुम्‌ ।तस्माल्लग्नात्फलं वाच्यं गर्भस्थस्य विशेषतः ॥ 30 ॥
  31. श्लोक 31शुभाशुभं वदेत्‌ पित्रोर्जीवनं मरणं तथा ।एवं निषेकलग्नेन सम्यक्‌ ज्ञेयं स्वकल्पनात्‌ ॥ 31 ॥
  32. श्लोक 32द्रवत्वं प्रथमे मासि कललाख्यं प्रजायते ।द्वितीये तु घनः पिण्डः पेशीप्रच्छन्नबुद्बुदः ॥ 32 ॥
  33. श्लोक 33पुंस्त्री नपुंसकानां हि प्रागवस्था क्रमादिमाः ।तृतीये त्वङ्कुराद्यंगकरांघ्रि शिरसो मतम्‌ ॥ 33 ॥
  34. श्लोक 34अंग प्रत्यंगभागाश्च सूक्ष्मा स्युर्युगपत्तथा ।चतुर्थे व्यक्तता तेषां भागानामपि जायते ॥ 34 ॥
  35. श्लोक 35पुंसो शौर्यादयो भावा भीरुत्वाद्यास्तु योषिताम्‌ ।नपुंसकानां संकीर्णां भवन्तीति प्रचक्षते ॥ 35 ॥
  36. श्लोक 36मातृजान् चास्य हृदयं विषयानतिकांक्षति ।अतो मातुर्मनोऽभीष्टं कुर्याद् गर्भसमृद्धये ॥ 36 ॥
  37. श्लोक 38षष्ठेऽस्थिस्नायुनखरकेशो रोमविविक्तता ।बलवर्णौ चोपचितौ सप्तमे त्वंगपूर्णता ॥ 38 ॥
  38. श्लोक 41अष्टमे त्वक्श्रुती स्यातामोजश्चैतन्य हृद्भवम्‌ ।शुद्धमेतच्च रक्तं च निमित्तं जीवितं मतम्‌ ॥ 41 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।