अध्याय 5: विशेषलग्नाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 5 (Vishesh Lagna)
16 श्लोक
- श्लोक 1अथ वक्ष्याम्यहं विप्र ! कल्पनात्मकलग्नकान् ।भावहोराघटीसंज्ञः प्रभृतीति यथाक्रमम् ॥ 1 ॥
- श्लोक 2सूर्योदयात्समारभ्य घटीपंच प्रमाणतः ।जन्मेष्टकालपर्यन्तं गणनीयं प्रयत्नतः ॥ 2 ॥
- श्लोक 3इष्टं घट्यादिकं यत्तु पंचभिर्भादिकं फलम् ।योज्यमौदयिके सूर्ये भावलग्नं स्फुटं तदा ॥ 3 ॥
- श्लोक 4होरालग्नं प्रवक्ष्येऽहं शृणु त्वं द्विजपुंगव ।सार्धद्विघटिका तुल्यं तथा सूर्योदयात् सदा ॥ 4 ॥
- श्लोक 5प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ।इष्ट घट्यादिकं द्विघ्नं पंचाप्तं भादिकं फलम् ।योज्यमौदयिके सूर्ये होरा लग्नं स्फुटं भवेत् ॥ 5 ॥
- श्लोक 6कथयामि घटीलग्नं शृणु त्वं द्विजसत्तम ।सूर्योदयात्समारभ्य जन्मकालावधिक्रमात् ॥ 6 ॥
- श्लोक 7एकैकघटिकामानं लग्नं यद्याति भादिकम् ।तदेव घटिकालग्नं कथितं नारदादिभिः ॥ 7 ॥
- श्लोक 8राशयस्तु घटी तुल्याः पलार्धप्रमितांशकाः ।योज्यमौदयिके भानौ घटीलग्नं स्फुटं हि तत् ॥ 8 ॥
- श्लोक 9क्रमादेषां हि लग्नानां भावकोष्ठं पृथक् लिखेत् ।ये ग्रहा यत्र भे तत्र स्थाप्या वै गणितागताः ॥ 9 ॥
- श्लोक 10उक्ता लग्नादिभावानां दीप्तांशास्तिथिसम्मिताः ।तस्माद् भावात् पुरः पृष्ठे तिथ्यंशैस्तत्फलं स्मृतम् ॥ 10 ॥
- श्लोक 11लग्नात् तिथ्यंशतः पूर्वं भावारम्भः प्रजायते ।तिथ्यंशैः परतस्तस्य पूर्तिसन्धी च तौ स्मृतौ ॥ 11 ॥
- श्लोक 12भावारम्भो फलारम्भो पूर्णं भावसमे ग्रहे ।फलं शून्यं च भावान्ते ज्ञेयं मध्येऽनुपाततः ॥ 12 ॥
- श्लोक 13लग्नादिव्ययपर्यन्तं भावाः संज्ञानुरूपतः ।फलदाः शुभसंदृष्टा युक्ता वा शोभनप्रदाः ॥ 13 ॥
- श्लोक 14पापदृष्टयुता भावाः कल्याणेतरदायकाः ।नितरां शत्रुनीचस्थैर्न मित्रोपगतैश्च तैः ! ।सौम्यैर्दृष्टयुता भावा ग्रहवीर्यात्फलप्रदाः ॥ 14 ॥
- श्लोक 15लग्नं सुखात् सुखं कामात् कामं खात् खं च लग्नतः ।त्र्यंशमेकद्विगुणितं युंज्याल्लग्नादिषु क्रमात् ॥ 15 ॥
- श्लोक 16पूर्वापरयुतेरर्धं सन्धिः स्याद् भावयोर्द्वयोः ।एवं द्वादशभावाः स्युर्भवन्ति हि ससन्धयः ॥ 16 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।