अध्याय 6: वर्णददशाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 6 (Varnad Dasha)

13 श्लोक

  1. श्लोक 1वर्णदाख्य दशां भानां कथयामि तवाग्रतः ।यस्या विज्ञानमात्रेण ज्ञेयमायुर्भवं फलम्‌ ॥ 1 ॥
  2. श्लोक 2ओजलग्नप्रसूतानां मेषादेर्गणयेत्‌ क्रमात्‌ ।समलग्न प्रसूतानां मीनादेरपसव्यतः ॥ 2 ॥
  3. श्लोक 3मेषमीनादितो जन्मलग्नान्तं गणयेत्‌ सुधीः ।तथैव होरालग्नान्तं गणयित्वा ततः क्रमात्‌ ॥ 3 ॥
  4. श्लोक 4ओजत्वेन समत्वेन सजातीये उभे यदि ।तर्हि संख्ये योजनीये वैजात्येतु वियोजयेत्‌ ॥ 4 ॥
  5. श्लोक 5मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः ।एतत्प्रयोजनं वक्ष्ये शृणु त्वं द्विजपुंगव ।होरालग्नभयोर्नेया सबलाद् वर्णदा दशा ॥ 5 ॥
  6. श्लोक 6यत्संख्यो वर्णदो लग्नात् तत्तत्संख्याक्रमेण तु ।क्रमव्युत्क्रमभेदेन दशा स्यादोजयुग्मयोः ॥ 6 ॥
  7. श्लोक 7पापदृष्टिः पापयोगो वर्णदस्य त्रिकोणके ।यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनम् ॥ 7 ॥
  8. श्लोक 8रुद्रशूलेयथैवायुर्मरणादिर्निरूप्यते ।तथैव वर्णदस्यापि त्रिकोणे पापसंगमे ॥ 8 ॥
  9. श्लोक 9वर्णदात्‌ सप्तमाद्राशेः कलत्रायुर्विचिन्तयेत्‌ ।एकादशादग्रजस्य तृतीयात्तु यवीयसः ॥ 9 ॥
  10. श्लोक 10सुतस्य पंचमे विद्यान्मातुश्च तुर्यभावतः ।पितुश्च नवमाद्भावादायुरेवं विचिन्तयेत्‌ ॥ 10 ॥
  11. श्लोक 11शूलराशिदशायां वै प्रबलायामरिष्टकम्‌ ।एवं तन्वादिभावानां कर्तव्या वर्णदा दशा ।पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम्‌ ॥ 11 ॥
  12. श्लोक 12ग्रहाणां वर्णदा नैव राशीनां वर्णदादशा ।कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद्‌ वदेत्‌ ॥ 12 ॥
  13. श्लोक 13एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत्‌ ।क्रमव्युत्क्रमभेदेनलिखेदन्तर्दशामपि ॥ 13 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।