अध्याय 7: षोडशवर्गाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 7 (Shodashvarga)

52 श्लोक

  1. श्लोक 1वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः ।तानहं सम्प्रवक्ष्यामि मैत्रेय श्रूयतामिति ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमक्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः ।नवांशो दशमांशश्च सूर्यांशः षोडशांशकः ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमविंशांशो वेदबाह्वंशो भांशस्त्रिंशांशकस्ततः ।खवेदांशोऽक्षवेदांशः षष्ट्यंशश्च ततः परम् ॥ 3 ॥
  4. श्लोक 4तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः ।सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ॥ 4 ॥
  5. श्लोक 5पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः ।राशेरर्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता ॥ 5 ॥
  6. श्लोक 6मेषादि तासां होराणां परिवृत्तिद्वयं भवेत्‌ ।राशित्रिभागा द्रेष्काणास्ते च षट्त्रिंशदीरिताः ।परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत्‌ ॥ 6 ॥
  7. श्लोक 7स्वपंचनवमानां च राशीनां क्रमशश्च ते ।नारदागस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ॥ 7 ॥
  8. श्लोक 8स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु ।सनकश्च सनन्दश्च कुमारश्च सनातनः ॥ 8 ॥
  9. श्लोक 9सप्तांशपास्त्वोजगृहे गणनीया निजेशतः ।युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादि नायकात्‌ ॥ 9 ॥
  10. श्लोक 10क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः ।मद्यशुद्धजलावोजे समे शुद्धजलादिकाः ॥ 10 ॥
  11. श्लोक 11नवांशेशाश्चरे तस्मात्‌ स्थिरे तन्नवमादितः ।उभये तत्पंचमादेरिति चिन्त्यं विचक्षणैः ।देवा नृराक्षसाश्चैव चरादिषु गृहेषु च ॥ 11 ॥
  12. श्लोक 12दशमांशाः स्वतश्चौजे युग्मे तन्नवमादितः ।दशपूर्वादि दिक्पाला इन्द्राग्नियमराक्षसाः ॥ 12 ॥
  13. श्लोक 13वरुणो मारुतश्चैव कुबेरेशानपद्मजाः ।अनन्तश्च क्रमादोजे समे व्युत्क्रमान्मताः ॥ 13 ॥
  14. श्लोक 14द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत्‌ ।तेषामधीशाः क्रमशो गणेशाश्वियमाहयः ॥ 14 ॥
  15. श्लोक 15अजसिंहाश्वितो ज्ञेयाः षोडशांशाश्चरादिषु ।अजविष्णुहराः सूर्यो ह्योजे युग्मे प्रतीपकम्‌ ॥ 15 ॥
  16. श्लोक 16अथ विंशतिभागानामधिपा ब्रह्मणोदिताः ।क्रियाच्चरे स्थिरे चापान्‌ मृगेन्द्राद्‌ द्विस्वभावके ॥ 16 ॥
  17. श्लोक 17कालीगौरी जयालक्ष्मीर्विजया विमला सती ।तारा ज्वालामुखी श्वेता ललिता बगलामुखी ॥ 17 ॥
  18. श्लोक 18प्रत्यंगिरा शची रौद्री भवानी वरदा जया ।त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत्‌ ॥ 18 ॥
  19. श्लोक 19समराशौ दयामेधा छिन्नशीर्षा पिशाचिनी ।धूमावती च मातंगी बाला भद्रारुणानला ॥ 19 ॥
  20. श्लोक 20पिंगला छुच्छुका घोरा वाराही वैष्णवी सिता ।भुवनेशी भैरवी च मंगला ह्यपराजिता ॥ 20 ॥
  21. श्लोक 21सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे ।कर्काद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः ॥ 21 ॥
  22. श्लोक 22विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः ।गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात्‌ ।कर्कादेः समभे भीमाद्‌ विलोमात्‌ परिचिन्तयेत्‌ ॥ 22 ॥
  23. श्लोक 23भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः ।चन्द्रेशादिति जीवाहि पितरो भगसंज्ञिताः ॥ 23 ॥
  24. श्लोक 24अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवाः ।निर्ऋत्युदकविश्वेशगोविन्दवसवोऽम्बुपः ॥ 24 ॥
  25. श्लोक 25ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः ।नक्षत्रेशास्तु भांशेशा मेषादि चरभक्रमात्‌ ॥ 25 ॥
  26. श्लोक 26त्रिंशांशेशाश्च विषमे कुजार्कीज्यज्ञभार्गवाः ।पंचपंचाष्टसप्ताक्षभागा व्यत्ययतः समे ॥ 26 ॥
  27. श्लोक 27वह्निः समीरशक्रौ च धनदो जलदस्तथा ।विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात्‌ ॥ 27 ॥
  28. श्लोक 28चत्वारिंशद्‌ विभागानामधिपा विषमे क्रियात्‌ ।समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः ॥ 28 ॥
  29. श्लोक 29विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः ।यमो यक्षश्च गन्धर्वः कालो वरुण एव च ॥ 29 ॥
  30. श्लोक 30तथाक्षवेदभागानामधिपाश्चरभे क्रियात्‌ ।स्थिरे सिंहाद्‌ द्विभे चापात्‌ विधीशविष्णवश्चरे ॥ 30 ॥
  31. श्लोक 31ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे ।देवाः पंचदशावृत्त्या विज्ञेया सुरसत्तम ॥ 31 ॥
  32. श्लोक 32राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् ।शेषं सैकं च तद्राशेर्भपाः षष्ट्यंशपाः स्मृताः ॥ 32 ॥
  33. श्लोक 33घोरश्च राक्षसो देवः कुबेरो यक्षकिन्नरौ ।भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ॥ 33 ॥
  34. श्लोक 34अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः ।मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ॥ 34 ॥
  35. श्लोक 35देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ ।गुलिको मृत्युकालश्च दावाग्निर्घोरसंज्ञकः ॥ 35 ॥
  36. श्लोक 36यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः ।विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ॥ 36 ॥
  37. श्लोक 37उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः ।करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ॥ 37 ॥
  38. श्लोक 38दण्डभृन्‌ निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः ।पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ॥ 38 ॥
  39. श्लोक 39समभे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः ।षष्ट्यंशस्वामिनस्त्वोजे तदीशाद्व्यत्ययः समे ॥ 39 ॥
  40. श्लोक 40शुभषष्ट्यंशसंयुक्ता ग्रहाः शुभफलप्रदाः ।क्रूरषष्ट्यंशसंयुक्ता नाशयन्ति खचारिणः ॥ 40 ॥
  41. श्लोक 41कुंडली के 1 नियमवर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय ।षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमभवन्ति वर्गसंयोगे षड्वर्गे किंशुकादयः ।द्वाभ्यां किंशुकनामा च त्रिभिर्व्यजनमुच्यते ॥ 42 ॥
  43. श्लोक 43कुंडली के 1 नियमचतुर्भिश्चामराख्यं च छत्रं पंचभिरेव च ।षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमसप्तवर्गेऽथ दिग्वर्गे पारिजातादि संज्ञकाः ।पारिजातं भवेद्‌ द्वाभ्यां त्रिभिरुत्तममुच्यते ॥ 44 ॥
  45. श्लोक 45कुंडली के 1 नियमचतुर्भिर्गोपुराख्यं स्याच्छरैः सिंहासनं तथा ।पारावतं भवेत्षड्भिर्देवलोकं च सप्तभिः ॥ 45 ॥
  46. श्लोक 46कुंडली के 1 नियमवसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् ।दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमभेदकं च भवेद् द्वाभ्यां त्रिभिः स्यात्कुसुमाख्यकम् ।चतुर्भिर्नागपुष्पं स्यात् पंचभिः कन्दुकाह्वयम् ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमकेरलाख्यं भवेत्‌ षड्भिः सप्तभिः कल्पवृक्षकम्‌ ।अष्टभिश्चनन्दनवनं नवभिः पूर्ण चन्द्रकम्‌ ॥ 48 ॥
  49. श्लोक 49कुंडली के 1 नियमदिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् ।सूर्यकान्तं भवेत्सूर्यैर्विश्वैः स्याद् विद्रुमाख्यकम् ॥ 49 ॥
  50. श्लोक 50कुंडली के 1 नियमशक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् ।भूपैः श्रीवल्लभाख्यं स्याद् वर्गा भेदैरुदाहृताः ॥ 50 ॥
  51. श्लोक 51कुंडली के 1 नियमस्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः ।स्वारूढात्‌ केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ॥ 51 ॥
  52. श्लोक 52कुंडली के 1 नियमअस्तंगता ग्रहजिता नीचगा दुर्बलाश्च ये ।शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ॥ 52 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।