अध्याय 8: वर्गविवेचनाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 8 (Varga Vivechan)
43 श्लोक
- श्लोक 1कुंडली के 3 नियमअथ षोडशवर्गेषु विवेकं च वदाम्यहम् ।लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् ॥ 1 ॥
- श्लोक 2कुंडली के 4 नियमद्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् ।पुत्रपौत्रादिकानां वै चिन्तनं सप्तमांशके ॥ 2 ॥
- श्लोक 3कुंडली के 5 नियमनवमांशे कलत्राणां दशमांशे महत्फलम् ।द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ॥ 3 ॥
- श्लोक 4कुंडली के 3 नियमसुखासुखस्य विज्ञानं वाहनानां तथैव च ।उपासनाया विज्ञानं साध्यं विंशतिभागके ॥ 4 ॥
- श्लोक 5कुंडली के 5 नियमविद्याया वेदबाह्वंशे भांशे चैव बलाबलम् ।त्रिंशांशकेऽरिष्टफलं खवेदांशे शुभाशुभम् ॥ 5 ॥
- श्लोक 6कुंडली के 2 नियमअक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् ।यत्रकुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ॥ 6 ॥
- श्लोक 7तत्र नाशो न सन्देहो गर्गादीनां वचो यथा ।यत्रकुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः ॥ 7 ॥
- श्लोक 8तत्र वृद्धिश्च पुष्टिश्च गर्गादीनां समीरितम् ।इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ॥ 8 ॥
- श्लोक 9उदयादिषु भावेषु खेटस्य भवनेषु वा ।वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाशुभम् ॥ 9 ॥
- श्लोक 10अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् ।यस्य विज्ञानमात्रेण विपाकं दृष्टिगोचरम् ॥ 10 ॥
- श्लोक 11गृहविंशोपकं वीक्ष्य सूर्यादीनां खचारिणाम् ।स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमे स्थिते ॥ 11 ॥
- श्लोक 12ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा ।मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः ॥ 12 ॥
- श्लोक 13सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः ।चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः ॥ 13 ॥
- श्लोक 14फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके ।रवेः फलं स्वहोरादौ फलहीनं विरामके ॥ 14 ॥
- श्लोक 15मध्येऽनुपातात्सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् ।गृहवत् तुर्यभागेऽपि नवांशादावपि स्वयम् ॥ 15 ॥
- श्लोक 16सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः ।त्रिंशांशके विचिन्त्यैवमत्रापि गृहवत् स्मृतम् ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमलग्नहोरादृकाणांकभागसूर्यांशका इति ।त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् ॥ 17 ॥
- श्लोक 18कुंडली के 1 नियमरसनेत्राब्धिपंचाश्विभूमयः सप्तवर्गके ।ससप्तमांशके तत्र विश्वकाः पंच लोचनम् ॥ 18 ॥
- श्लोक 19त्रयः सार्धं द्वयं सार्धवेदा द्वौ रात्रिनायकः ।स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः ॥ 19 ॥
- श्लोक 20कुंडली के 1 नियमदशवर्गा दिगंशाढ्याः कलांशाः षष्टिभागकाः ।त्रयं क्षेत्रस्य विज्ञेयाः पंचषष्ट्यंशकस्य च ॥ 20 ॥
- श्लोक 21कुंडली के 1 नियमसार्धैकभागाः शेषाणां विश्वकाः परिकीर्तिताः ।अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् ॥ 21 ॥
- श्लोक 22कुंडली के 1 नियमक्रमात् षोडशवर्गाणां क्षेत्राणां च पृथक् पृथक् ।होरात्रिंशांश दृक्काणे कुचन्द्र शशिनः क्रमात् ॥ 22 ॥
- श्लोक 23कुंडली के 1 नियमकलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च ।क्षेत्रे सार्धं च त्रितयं वेदाः षष्ट्यंशकस्य च ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमअर्धमर्धं तु शेषाणामेतत् स्वीयमुदाहृतम् ।पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियममित्रे पंचदश प्रोक्तं समे दश प्रकीर्तितम् ।शत्रौ सप्ताधिशत्रौ च पंचविंशोपकं भवेत् ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमवर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः ।विश्वा फलोपयोग्यं तत् पंचोनं फलदं न हि ॥ 26 ॥
- श्लोक 27कुंडली के 1 नियमतदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् ।तिथ्यूर्ध्वं पूर्णफलदं बोध्यं सर्वखचारिणाम् ॥ 27 ॥
- श्लोक 28अथान्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय ।खेटाः पूर्णफलं दद्युः सूर्यात्सप्तमके स्थिताः ॥ 28 ॥
- श्लोक 29फलाभावं विजानीयात्समे सूर्यनभश्चरे ।मध्येऽनुपातात्सर्वत्रह्युदयास्तविंशोपकाः ॥ 29 ॥
- श्लोक 30वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ ! ।यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ॥ 30 ॥
- श्लोक 31वर्गविंशोपकं चादौ उदयास्तमतः परम् ।पूर्णं पूर्णेऽति पूर्णं स्यात् सर्वदेवं विचिन्तयेत् ॥ 31 ॥
- श्लोक 32हीनं हीनेति हीनं स्यात् स्वल्पेऽल्पात्यल्पकं मतम् ।मध्यं मध्येति मध्यं स्याद्यावत्तस्य दशास्थितिः ॥ 32 ॥
- श्लोक 33अथान्यदपि वक्ष्यामि मैत्रेय ! श्रृणु सुव्रत ! ।लग्नतुर्यास्तवियतां केन्द्रसंज्ञा विशेषतः ॥ 33 ॥
- श्लोक 34द्विपंचरन्ध्रलाभानां ज्ञेयं पणफराभिधम् ।त्रिषष्ठभाग्यरिःफानामापोक्लिममिति द्विज ॥ 34 ॥
- श्लोक 35लग्नात्पंचमभाग्यस्य कोणसंज्ञा विधीयते ।षष्ठाष्टव्ययभावानां दुःसंज्ञास्त्रिकसंज्ञकाः ॥ 35 ॥
- श्लोक 36चतुरस्रं तुर्यरन्ध्रं कथयन्ति द्विजोत्तम ! ।स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ॥ 36 ॥
- श्लोक 37तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा ।युवतीरन्ध्रधर्माख्याः कर्मलाभव्ययाः क्रमात् ॥ 37 ॥
- श्लोक 38संक्षेपेणैतदुदितमन्यद् बुद्ध्यनुसारतः ।किंचिद्विशेषं वक्ष्यामि यथा ब्रह्ममुखाच्छ्रुतम् ॥ 38 ॥
- श्लोक 39नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा ।यत्किंचिद् दशमे लाभे तत्सूर्याद्दशमे भवे ॥ 39 ॥
- श्लोक 40तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् ।चन्द्रात्तुर्ये तनौ लाभे भाग्ये तच्चिन्तयेद् ध्रुवम् ॥ 40 ॥
- श्लोक 41लग्नात् दुश्चिक्य भवने यत्कुजाद् विक्रमेऽखिलम् ।विचार्यं षष्ठभावस्य बुधात्षष्ठे विलोकयेत् ॥ 41 ॥
- श्लोक 42पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः ।अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ॥ 42 ॥
- श्लोक 43यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः ।ज्ञेयं तस्य फलं तद्धि तत्रचिन्त्यं शुभाशुभम् ॥ 43 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।