अध्याय 9: राशिदृष्टिभेदाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 9 (Rashi Drishti Bhed)

16 श्लोक

  1. श्लोक 1कुंडली के 1 नियममेषादीनां च राशीनां चरादीनां पृथक्‌ पृथक्‌ ।दृष्टिभेदं प्रवक्ष्यामि श्रृणु त्वं द्विजसत्तम ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमराशयोऽभिमुखं विप्र ! तथा पश्यन्ति पार्श्वभे ।रन्ध्रे षष्ठे तथा द्यूनेऽभिमुखो राशिरुच्यते ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमचक्रन्यासमहं वक्ष्ये यथावद्‌ ब्रह्मणोदितम्‌ ।यस्य विज्ञानमात्रेण दृष्टिभेदः प्रकाश्यते ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमपूर्वं मेषवृषौ लेख्यौ कर्कसिंहौ च दक्षिणे ।तुलाली वारुणे विप्र ! मृगकुम्भौ तथोत्तरे ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमअग्निकोणे तु मिथुनं नैऋत्यां कन्यकां द्विज ।वायव्यां धनुषं लेख्यमीशाने मीनमालिखेत्‌ ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमचतुरस्रं च विन्यासं ज्ञायते द्विजसत्तम ।वृत्ताकारं विशेषेण ब्रह्मणा चोदितं पुरा ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमयथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान्‌ ।द्विस्वभावो विनात्मानं द्विस्वभावान्‌ प्रपश्यति ।समीपस्थं परित्यज्य राशीस्त्रीन्‌ ननु पश्यति ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमसूर्यादयः क्रमेणैव पश्यन्ति च परस्परम् ।राशित्रयं त्रयं विप्र सर्वराशिगता ग्रहाः ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमचरेषु संस्थिताः खेटाः पश्यन्ति स्थिर सङ्गतान्‌ ।स्थिरेषु संस्थिता एवं पश्यन्ति चर संस्थितान्‌ ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमउभयस्थास्तु सूर्याद्याः पश्यन्त्युभयसंस्थितान् ।निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमहोराशास्त्रे भिन्नदृष्टिः खेटानां च परस्परम्‌ ।त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमशनिर्देवगुरुर्भौमः परे च वीक्षणेऽधिकाः ।पदार्धं त्रिपदं पूर्णं वदन्ति गणकोत्तमाः ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमशनिपादं त्रिकोणेषु चतुरस्रे द्विपादकम्‌ ।त्रिपादं सप्तमे विप्र ! त्रिदशे पूर्णमेव हि ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमचतुरस्रे गुरुः पादं सप्तमे च द्विपादकम्‌ ।त्रिपादं त्रिदशे विप्र ! पूर्णं पश्यति कोणभे ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमसप्तमे पादमेकं च द्विपादं त्रिदशे कुजः ।त्रिपादं च त्रिकोणेषु पूर्णं स्यात्‌ चतुरस्रके ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमअन्येषां त्रिदशे पादं द्विपादं च त्रिकोणगे ।चतुरस्रे त्रिपादं च पूर्णं पश्यति सप्तमे ॥ 16 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।