अध्याय 12: भावविवेकाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 12 (Bhav Vivek)

17 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1कुंडली के 1 नियमदेहं रूपं च ज्ञानं च वर्णं चैव बलाबलम्‌ ।सुखं दुःखं स्वभावं च लग्नभावान्निरीक्षयेत्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमधनं धान्यं कुटुम्बांश्च मृत्युजालममित्रकम् ।धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमविक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् ।पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमवाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि ।निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमयन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम्‌ ।पुत्रराज्यापभ्रंशादीन्‌ पश्येत्पुत्रालयाद्‌ बुधः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियममातुलातंकशंकानां शत्रूंश्चैव व्रणादिकान्‌ ।सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत्‌ ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमजायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् ।मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमआयू रणं रिपुं चापि दुर्गं मृतधनं तथा ।गत्यनूकादिकं सर्वं पश्येद् रन्ध्राद् विचक्षणः ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमभाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा ।तीर्थयात्रादिकं सर्वं धर्मस्थान्निरीक्षयेत् ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमराज्यं चाकाशवृत्तिं च मानं चैव पितुस्तथा ।प्रवासस्य ऋणस्यापि व्योमस्थान्निरीक्षयेत्‌ ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमनाना वस्तुभवस्यापि पुत्रजायादिकस्य च ।आयं वृद्धिं पशूनां च भवस्थान्निरीक्षयेत्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमव्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं व्ययात्‌ ।एवं भावफलं सम्यक्‌ तत्तत्संज्ञानपूर्वकम्‌ ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमयो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक्‌ ।युवा प्रबुद्धो राज्यस्थः कुमारो वापि यत्पतिः ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमतदीक्षणवशात् तत्तद् भावसौख्यं वदेद् बुधः ।यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमभावं न वीक्षते सम्यक्‌ सुप्तो वृद्धो मृतोऽथवा ।पीडितो वास्य भावस्य फलं नष्टं वदेद्ध्रुवम्‌ ॥ 15 ॥
  16. श्लोक 16शुक्रः शुक्रं च नेत्रं च चन्द्रमाः मनसस्तथा ।आत्मा वै दिनकृत्तत्र जीवो जीवितसौख्यदः ॥ 16 ॥
  17. श्लोक 18राहुरैश्वर्यकं विद्धि योगेक्षणवशान्मुने ।संक्षेपेणैतदुदितमन्यद्‌ बुद्ध्यनुसारतः ॥ 18 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।