अध्याय 13: लग्नभावाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 13 (Lagna Bhav Phal)

16 श्लोक

  1. श्लोक 1कुंडली के 2 नियमतनुपः पापसंयुक्तस्त्रिकगो देहसौख्यहृत्‌ ।केन्द्रकोणगतश्चासौ सदा देहसुखं दिशेत्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 2 नियमलग्नपोऽस्तंगतो नीचे शत्रुभे रोगकृद्‌ भवेत्‌ ।शुभाः केन्द्रत्रिकोणस्थाः देहं सौख्यप्रदाः स्मृताः ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमलग्ने चन्द्रेऽथवा क्रूरग्रहैर्युक्तेऽथवेक्षिते ।सौम्यदृष्टिविहीने तु जन्तोर्देहसुखं न हि ॥ 3 ॥
  4. श्लोक 4कुंडली के 3 नियमलग्ने सशुभे सुभगः पापे रूपविवर्जितः ।सौम्यखेटैर्युते दृष्टे देहसौख्यं भवेद्ध्रुवम्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमलग्नेशो ज्ञो गुरुर्वापि शुक्रो वा केन्द्रकोणगः ।दीर्घायुर्धनवान्‌ जातो बुद्धिमान्‌ राजवल्लभः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमलग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते ।कीर्तिश्रीमान्‌ महाभोगी देहसौख्यसमन्वितः ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमबुधो जीवोऽथवा शुक्रो लग्ने चन्द्र समन्वितः ।लग्नात्केन्द्रगतश्चापि राजलक्षणसंयुतः ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमससौरे सकुजे वापि लग्ने मेषे वृषे हरौ ।राश्यंश सदृशे गात्रे स जातो नालवेष्टितः ॥ 8 ॥
  9. श्लोक 9चतुष्पदगते भानौ परे वीर्यसमन्विताः ।द्विस्वभावगता जातौ यमलावितिनिर्दिशेत्‌ ॥ 9 ॥
  10. श्लोक 10लग्ने राहुसमायुक्ते तथा सोमनिरीक्षिते ।लग्नांशे मन्दसूरी चेज्जातश्च यमलो भवेत्‌ ॥ 10 ॥
  11. श्लोक 11रवीन्दू चैक भावस्थावेकांशक समन्वितौ ।त्रिमात्रा च त्रिभिर्मासैः पित्राभ्रात्रा च पोषितः ॥ 11 ॥
  12. श्लोक 12एवं चन्द्राच्च विज्ञेयं फलं जातककोविदैः ।अथ जातस्य गात्रेषु व्रणलक्ष्मादिकं शृणु ॥ 12 ॥
  13. श्लोक 13शिरो नेत्रे तथा कर्णौ नासिके च कपोलकौ ।हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥ 13 ॥
  14. श्लोक 14मध्यद्रेष्काणगे लग्ने कण्ठोंऽसौ च भुजौ तथा ।पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥ 14 ॥
  15. श्लोक 15बस्तिर्लिंगगुदे मुष्कौ ऊरू जानू च जंघके ।पादश्चेत्युदितैर्वाममंगे ज्ञेयं तृतीयके ॥ 15 ॥
  16. श्लोक 16यस्मिन्नंगे स्थितः पापो व्रणं तत्र समादिशेत्‌ ।नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद्‌ बुधः ॥ 16 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।