अध्याय 17: पंचमभावफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 17 (Pancham Bhav Phal)
31 श्लोक
- श्लोक 1कुंडली के 1 नियमलग्नपे सुतभावस्थे सुतपे च सुते स्थिते ।केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमषष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता ।सुतेशेऽस्तंगते वापि पापाक्रान्ते च निर्बले ॥ 2 ॥
- श्लोक 3तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ॥ 3 ॥
- श्लोक 4षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते ।म्रियते प्रथमापत्यं काकवन्ध्या च गेहिनी ॥ 4 ॥
- श्लोक 5कुंडली के 1 नियमसुताधीशो हि नीचस्थो षडादिभाव संस्थितः ।काकवन्ध्या भवेन्नारी सुते केतुबुधौ यदि ॥ 5 ॥
- श्लोक 6कुंडली के 1 नियमसुतेशो नीचगो यत्र सुतस्थानं न पश्यति ।तत्र सौरिबुधौ स्यातां काकवन्ध्यात्वमाप्नुयात् ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमभाग्येशो मूर्तिवर्ती च सुतेशो नीचगो यदि ।सुते केतु बुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ॥ 7 ॥
- श्लोक 8कुंडली के 1 नियमषष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः ।सुतेशः पंचमे वा स्यात् कष्टात्पुत्रं विनिर्दिशेत् ॥ 8 ॥
- श्लोक 9पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः ।मन्दे मान्दियुते दृष्टे तदादत्तादयः सुताः ॥ 9 ॥
- श्लोक 10कुंडली के 1 नियमपंचमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे ।लग्नेशेन्दू बलाढ्यौ चेत् तदा दत्तसुतोद्भवः ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमसुते ज्ञजीवशुक्राश्च सबलैरवलोकिते ।भवन्ति बहवः पुत्राः सुतेशेहि बलान्विते ॥ 11 ॥
- श्लोक 12कुंडली के 1 नियमसुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा ।तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः ॥ 12 ॥
- श्लोक 13सुतेशे चरराशिस्थे राहुणासहिते विधौ ।पुत्रस्थानं गते मन्दे परजातं वदेच्छिशुम् ॥ 13 ॥
- श्लोक 14लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ ।पापग्रहयुतैर्दृष्टे परजातो न संशयः ॥ 14 ॥
- श्लोक 15कुंडली के 1 नियमपुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे ।गुरुणासंयुते दृष्टे पुत्रभाग्यमुपैति सः ॥ 15 ॥
- श्लोक 16कुंडली के 1 नियमत्रिचतुःपापसंयुक्ते सुते सौम्यविवर्जिते ।सुतेशे नीचराशिस्थे नीचसंस्थो भवेच्छिशुः ॥ 16 ॥
- श्लोक 17पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते ।द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसम्भवः ॥ 17 ॥
- श्लोक 18सुतेशे केन्द्रभावस्थे कारकेण समन्विते ।षट्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् ॥ 18 ॥
- श्लोक 19लग्नाद्भाग्यगते जीवे जीवाद्भाग्यगते भृगौ ।लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् ॥ 19 ॥
- श्लोक 20पुत्रस्थानं गते राहौ तदीशे पापसंयुते ।नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः ॥ 20 ॥
- श्लोक 21जीवात्पंचमगे पापे लग्नात्पंचमगेऽपि च ।षट्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥ 21 ॥
- श्लोक 22लग्ने मान्दिसमायुक्ते लग्नेशे नीचराशिगे ।षट्पंचाशत्तमेब्दे च पुत्रशोकसमाकुलः ॥ 22 ॥
- श्लोक 23चतुर्थे पापसंयुक्ते षष्ठभावे तथैव च ।सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥ 23 ॥
- श्लोक 24कारके शुभसंयुक्ते दशसंख्यास्तु सूनवः ।परमोच्चगते जीवे धनेशे राहु संयुते ॥ 24 ॥
- श्लोक 25भाग्येशे भाग्यसंयुक्ते संख्याता नवसूनवः ।पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥ 25 ॥
- श्लोक 26धनेशे कर्मभावस्थे वसुसंख्यास्तु सूनवः ।पंचमात्पंचमे मन्दे सुतस्थे च तदीश्वरे ॥ 26 ॥
- श्लोक 27सूनवः सप्तसंख्याश्च द्विगर्भे यमलौ वदेत् ।वित्तेशे पंचमस्थाने सुतस्थे च सुताधिपे ॥ 27 ॥
- श्लोक 28कुंडली के 1 नियमजायन्ते षट्सुतास्तस्य तेषां च त्रिप्रजामृतिः ।मन्दात् पंचमगे जीवे जीवात्पंचमगे रवौ ॥ 28 ॥
- श्लोक 29कुंडली के 2 नियमसूर्यात्पंचमगे पापे पुत्रमेकं विनिर्दिशेत् ।पंचमे पापयुक्ते वा जीवात्पंचमगे शनौ ॥ 29 ॥
- श्लोक 30कुंडली के 1 नियमपत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् ।पंचमे पापसंयुक्ते जीवात्पंचमगे शनौ ॥ 30 ॥
- श्लोक 31लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः ।जातं जातं शिशुं हन्ति दीर्घायुश्च स्वयं भवेत् ॥ 31 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।