अध्याय 18: षष्ठभावफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 18 (Shashtha Bhav Phal)

27 श्लोक

  1. श्लोक 1कुंडली के 1 नियमपापः षष्ठाधिपो गेहे लग्ने वाष्टमसंस्थिते ।तदा व्रणो भवेद्देहे षष्ठराशिसमाश्रिते ॥ 1 ॥
  2. श्लोक 2एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः ।व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ 2 ॥
  3. श्लोक 3तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम्‌ ।इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ॥ 3 ॥
  4. श्लोक 4गुरुणा नासिकायां च भृगुणा नयने पदे ।शनिना राहुणा कक्षौ केतुना च तथा भवेत्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमलग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः ।यत्र कुत्रस्थितो ज्ञेन वीक्षितो मुख रुक्प्रदः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमलग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ ।राहुणा शनिना सार्धं कुष्ठं तत्र विनिर्दिशेत्‌ ॥ 6 ॥
  7. श्लोक 7कुंडली के 3 नियमलग्नाधिपं विना लग्ने स्थितश्चेत्तमसाशशी ।श्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ॥ 7 ॥
  8. श्लोक 8कुंडली के 2 नियमकुजेन रक्तकुष्ठं स्यात्‌ तत्तदेवं विचिन्तयेत्‌ ।लग्ने षष्ठाष्टमाधीशौ रविणा यदि संयुतौ ॥ 8 ॥
  9. श्लोक 9कुंडली के 4 नियमज्वरगण्डः कुजे ग्रन्थिः शस्त्र व्रणमथापि वा ।बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत्‌ ॥ 9 ॥
  10. श्लोक 10कुंडली के 3 नियमस्त्रीभिः शुक्रेण शनिना वायुना संयुतो यदि ।गण्डश्चाण्डालतो नाभौ तमः केतुयुते भयम्‌ ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमचन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत्‌ ।एवं पित्रादिभावानां तत्तत्कारकयोगतः ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमगण्डं तेषां वदेदेवमूह्यमत्र मनीषिभिः ।रोगस्थानगते पापे तदीशे पापसंयुते ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमराहुणासंयुते मन्दे सर्वदा रोगसंयुतः ।रोगस्थानगते भौमे तदीशे रन्ध्रसंयुते ॥ 13 ॥
  14. श्लोक 14षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः ।षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते ॥ 14 ॥
  15. श्लोक 15द्वाविंशैकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् ।रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते ॥ 15 ॥
  16. श्लोक 16लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता ।व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥ 16 ॥
  17. श्लोक 17त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् ।रिपुस्थानगते चन्द्रे शनिना संयुते यदि ॥ 17 ॥
  18. श्लोक 18पंचपंचाशदब्देषु रक्तकुष्ठं विनिर्दिशेत्‌ ।लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते ॥ 18 ॥
  19. श्लोक 19एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् ।रन्ध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते ॥ 19 ॥
  20. श्लोक 20चन्द्रे षष्ठेशसंयुक्ते वसुवर्षे मृगाद्भयम् ।षष्ठाष्टमगतो राहुस्तस्मादष्टमगे शनौ ॥ 20 ॥
  21. श्लोक 21जातस्य जन्मतो विप्र प्रथमे च द्वितीयके ।वत्सरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् ॥ 21 ॥
  22. श्लोक 22षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुते ।पंचमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत्‌ ॥ 22 ॥
  23. श्लोक 23अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः ।त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् ॥ 23 ॥
  24. श्लोक 24रन्ध्रेशे राहुसंयुक्ते तदंशे रन्ध्रकोणगे ।द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् ॥ 24 ॥
  25. श्लोक 25लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे ।एकत्रिंशत्तमे वर्षे शत्रुमूलाद्धनव्ययः ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमसुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते ।व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत्‌ ॥ 26 ॥
  27. श्लोक 27लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे ।दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते ॥ 27 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।