अध्याय 19: सप्तमभावफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 19 (Saptam Bhav Phal)

42 श्लोक

  1. श्लोक 1कुंडली के 1 नियमकलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः ।रोगिणीं कुरुते नारीं तथा तुंगादिकं विना ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमसप्तमे तु स्थिते शुक्रेऽतीव कामी भवेन्नरः ।यत्र-कुत्रस्थिते पापयुते स्त्रीमरणं भवेत्‌ ॥ 2 ॥
  3. श्लोक 3कुंडली के 2 नियमजायाधिपः स्वभेस्वोच्चे स्त्रीसुखं पूर्णमादिशेत्‌ ।जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः ॥ 3 ॥
  4. श्लोक 4कुंडली के 2 नियमतदा सौभाग्यशीलः स्यात्‌ धनी मानी नरः प्रभुः ।नीचे शत्रुगृहस्थे वा निर्बले वा कलत्रपे ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमतस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत्‌ ।मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते ॥ 5 ॥
  6. श्लोक 6कुंडली के 2 नियमस्वोच्चगे तु विशेषेण बहुभार्यो भवेन्नरः ।वन्ध्यासंगो मदे भानौ चन्द्रे राशिसमस्त्रियः ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमकुजे रजस्वला संगो, वन्ध्यासंगश्च कीर्तितः ।बुधे वेश्या च हीना च वणिक्स्त्री वा प्रकीर्तिता ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमगुरौ ब्राह्मणभार्या स्यात्‌ गर्भिणीसंग एव च ।हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः ॥ 8 ॥
  9. श्लोक 9कुंडली के 3 नियमकुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ।कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमपापे द्वादशकामस्थे क्षीणचन्द्रस्तु पंचमे ।जातश्च भार्यावश्यः स्यादिति जाति विरोधकृत्‌ ॥ 10 ॥
  11. श्लोक 11जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ।वेश्या वा जारिणी वापि तस्य भार्या न संशयः ॥ 11 ॥
  12. श्लोक 12मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि वा ।मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः ॥ 12 ॥
  13. श्लोक 13भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा ।भौमयुक्ते च दृष्टे वा भगचुम्बनभाक्‌ भवेत्‌ ॥ 13 ॥
  14. श्लोक 14दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते ।लग्नेशे बलसंयुक्ते कलत्रस्थानसंयुते ॥ 14 ॥
  15. श्लोक 15तद्भार्या सद्गुणोपेता पुत्रपौत्रविवर्धिनी ।कलत्रे तत्पतौ वापि पापग्रहसमन्विते ॥ 15 ॥
  16. श्लोक 16भार्याहानिं वदेत्तस्य निर्बले च विशेषतः ।षष्ठाष्टमव्ययस्थाने मदेशो दुर्बलो यदि ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमनीचराशिगतो वापि दारनाशं विनिर्दिशेत्‌ ।कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमकारको बलहीनश्च दारसौख्यं न विद्यते ॥ 18 ॥
  19. श्लोक 19सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमसप्तमे क्लीबराश्यंशे द्विभार्यो जातको भवेत्‌ ।कलत्रस्थानगे भौमे शुक्रे जामित्रगे शनौ ॥ 20 ॥
  21. श्लोक 21कुंडली के 2 नियमलग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान्‌ भवेत्‌ ।द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके ।दारेशे बलसंयुक्ते बहुदारसमन्वितः ॥ 21 ॥
  22. श्लोक 22दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः ।पंचमे नवमेऽब्दे तु विवाहः प्रायशो भवेत्‌ ॥ 22 ॥
  23. श्लोक 23दारस्थानं गते सूर्ये तदीशे भृगुसंयुते ।सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत्‌ ॥ 23 ॥
  24. श्लोक 24कुटुम्ब स्थानगे शुक्रे दारेशे लाभराशिगे ।दशमे षोडशाब्दे च विवाहः प्रायशो भवेत्‌ ॥ 24 ॥
  25. श्लोक 25लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे ।वर्षैकादशे प्राप्ते विवाहं लभते नरः ॥ 25 ॥
  26. श्लोक 26लग्नात्केन्द्रगते शुक्रे तस्मात्कामगते शनौ ।द्वादशैकोनविंशे च विवाहः प्रायशो भवेत्‌ ॥ 26 ॥
  27. श्लोक 27चन्द्राज्जामित्रगेशुक्रेशुक्राज्जामित्रगेशनौ ।वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः ॥ 27 ॥
  28. श्लोक 28धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे ।अब्दे पंचदशे प्राप्ते विवाहं लभते नरः ॥ 28 ॥
  29. श्लोक 29धनेशे लाभराशिस्थे लाभेशे धनराशिगे ।अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥ 29 ॥
  30. श्लोक 30रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते ।द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ॥ 30 ॥
  31. श्लोक 31दारांशकगते लग्ननाथे दारेश्वरे व्यये ।त्रयोविंशे च षड्विंशे विवाहं लभते नरः ॥ 31 ॥
  32. श्लोक 32रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते ।पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ॥ 32 ॥
  33. श्लोक 33भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते ।एकत्रिंशात्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत्‌ ॥ 33 ॥
  34. श्लोक 34भाग्याज्जामित्रगे शुक्रे तद्द्यूने दारनायके ।त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ॥ 34 ॥
  35. श्लोक 35दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते ।अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम्‌ ॥ 35 ॥
  36. श्लोक 36मदेशे नाशराशिस्थे व्ययेशे मंदराशिगे ।तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत्‌ ॥ 36 ॥
  37. श्लोक 37कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते ।पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ॥ 37 ॥
  38. श्लोक 38रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे ।द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत्‌ ॥ 38 ॥
  39. श्लोक 39लग्नेशे नीचराशिस्थे धनेशे निधनं गते ।त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत्‌ ॥ 39 ॥
  40. श्लोक 40शुक्राज्जामित्रगेचन्द्रेचन्द्राज्जामित्रगेबुधे ।रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम्‌ ॥ 40 ॥
  41. श्लोक 41द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम्‌ ।विवाहं लभते मर्त्यो नात्र कार्या विचारणा ॥ 41 ॥
  42. श्लोक 42षष्ठे च भवने भौमः सप्तमे राहु संस्थितिः ।अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥ 42 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।