अध्याय 21: भाग्यभावफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 21 (Bhagya Bhav Phal)
33 श्लोक
- श्लोक 1कुंडली के 1 नियमअथभाग्यभवं विप्र ! फलं वक्ष्ये तवाग्रतः ।सबलो भाग्यपो भाग्ये जातो भाग्ययुतो नरः ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमभाग्यस्थानगते जीवे तदीशे केन्द्रसंस्थिते ।लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् ॥ 2 ॥
- श्लोक 3कुंडली के 1 नियमभाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते ।लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ॥ 3 ॥
- श्लोक 4कुंडली के 1 नियमभाग्यस्थानाद्द्वितीये वा सुखे भौमसमन्विते ।भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ॥ 4 ॥
- श्लोक 5भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते ।लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घजीवनः ॥ 5 ॥
- श्लोक 6कुंडली के 1 नियमभाग्येशे केन्द्रभावस्थे गुरुणा च निरीक्षिते ।तत्पितावाहनैर्युक्तो राजा वा तत्समो भवेत् ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमभाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे ।शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत् पिता भवेत् ॥ 7 ॥
- श्लोक 8कुंडली के 1 नियमभाग्येशो भार्गवार्यौ च द्वावेव भाग्यदायकौ ।शुभभावगतौ स्यातां भाग्यवान् शुभदृग्युते ॥ 8 ॥
- श्लोक 9कुंडली के 1 नियमगुरुशुक्रौ च पाताले नवमे शुभराशिगे ।भाग्येशे कोणकेन्द्रस्थे बहुभाग्ययुतो नरः ॥ 9 ॥
- श्लोक 10परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते ।धर्मिष्ठोनृपवात्सल्यः पितृभक्तो भवेन्नरः ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमलग्नात् त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते ।गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ॥ 11 ॥
- श्लोक 12कुंडली के 1 नियमभाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।द्वात्रिंशत्परतो भाग्यं वाहनं कीर्तिसम्भवः ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमलग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते ।अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ॥ 13 ॥
- श्लोक 14कुंडली के 1 नियमकर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः ।भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः ॥ 14 ॥
- श्लोक 15षष्ठाष्टमव्यये भानौ रन्ध्रेशे भाग्यसंयुते ।व्ययेशे लग्नराशिस्थे षष्ठेशे पंचमे स्थिते ॥ 15 ॥
- श्लोक 16जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् ।रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे ॥ 16 ॥
- श्लोक 17जातस्य प्रथमाब्देतु पितुर्मरणमादिशेत् ।व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके ॥ 17 ॥
- श्लोक 18तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् ।लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते ॥ 18 ॥
- श्लोक 19द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् ।भाग्याद् रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ ॥ 19 ॥
- श्लोक 20षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् ।राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ ॥ 20 ॥
- श्लोक 21सप्तमैकोनविंशाब्दे तातस्यमरणं ध्रुवम् ।भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे ॥ 21 ॥
- श्लोक 22वेदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् ।रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते ॥ 22 ॥
- श्लोक 23पंचत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः ।पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते ॥ 23 ॥
- श्लोक 24पंचाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् ।भाग्यात्सप्तमगे सूर्ये भ्रातुः सप्तमगस्तमः ॥ 24 ॥
- श्लोक 25षष्ठेऽब्दे पंचविंशाब्दे पितुर्मरणमादिशेत् ।रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ ॥ 25 ॥
- श्लोक 26त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् ।भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे ॥ 26 ॥
- श्लोक 27षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् ।एवं विचार्य बहुधा फलं प्राज्ञो विनिर्दिशेत् ॥ 27 ॥
- श्लोक 28परमोच्चांशगे शुक्रे भाग्येशेन समन्विते ।भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् ॥ 28 ॥
- श्लोक 29कुंडली के 1 नियमगुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे ।विंशद्वर्षात्परं चैव बहुभाग्यं विनिर्दिशेत् ॥ 29 ॥
- श्लोक 30परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे ।षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् ॥ 30 ॥
- श्लोक 31कुंडली के 1 नियमलग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते ।गुरुणा संयुते द्यूने धनवाहनलाभकृत् ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमभाग्याद्भाग्यगतो राहुस्तदीशे निधनं गते ।भाग्येशेनीचराशिस्थे भाग्यहीनो भवेन्नरः ॥ 32 ॥
- श्लोक 33कुंडली के 1 नियमभाग्यस्थानगते मन्दे शशिना च समन्विते ।लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥ 33 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।