अध्याय 24: व्ययभावफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 24 (Vyay Bhav Phal)

13 श्लोक

  1. श्लोक 1कुंडली के 1 नियमव्ययेशे शुभसंयुक्ते स्वभे स्वोच्चगतेऽपि वा ।व्यये च शुभसंयुक्ते शुभकार्ये व्ययस्तथा ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमचन्द्रो व्ययाधिपो धर्म लाभमन्त्रेषु संस्थितः ।स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके ॥ 2 ॥
  3. श्लोक 3कुंडली के 2 नियमदिव्यागारादिपर्यङ्को दिव्यगन्धैकभोगवान् ।परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमएवं स्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ ।संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ॥ 4 ॥
  5. श्लोक 5कुंडली के 2 नियमव्ययाधिक्य परिक्लान्तं दिव्यभोगनिराकृतम्‌ ।सहि केन्द्रत्रिकोणस्थः स्वस्त्रियालंकृतः स्वयम्‌ ॥ 5 ॥
  6. श्लोक 6एवं लग्नात्फलं चैतदात्मनः परिकीर्तितम्‌ ।एवं भ्रात्रादि भावेषु तत्तत्सर्वं विचिन्तयेत्‌ ॥ 6 ॥
  7. श्लोक 7दृश्यचक्रार्धगाः खेटाः प्रत्यक्ष फलदायकाः ।अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ॥ 7 ॥
  8. श्लोक 8व्ययस्थानगतो राहुर्भौमार्किरविसंयुतः ।तदीशेऽप्यर्क संयुक्ते नरके पतनं भवेत्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमव्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे ।शुभयुक्ते शुभैर्दृष्टे मोक्षः स्यान्नात्र संशयः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमव्ययेशे पापसंयुक्ते व्यये पापसमन्विते ।पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमव्ययेशे शुभराशिस्थे व्यये च शुभसंयुते ।शुभग्रहेण संदृष्टे स्वदेशात्‌ संचरो भवेत्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमव्यये मन्दादिसंयुक्ते भूमिजेन समन्विते ।शुभदृष्टे न संप्राप्तिः पापमूलाद्धनार्जनम्‌ ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमलग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंस्थिते ।भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः ॥ 13 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।